10---nyAyashAstram/10---prashnAH-uttarANi-ca/19---sarvatra-mAtra-padena-nivAryaM-cintyam: Difference between revisions

m
Protected "19 - सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Added text and audio link)
m (Protected "19 - सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))

(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 19 - सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌}}

ध्वनिमुद्रणम्‌ -

Line 8 ⟶ 7:
चक्षुर्मात्रग्राह्यत्वे सति गुणत्वं रूपस्य लक्षणम्‌ | त्वगिन्द्रियमात्रग्राह्यत्वे सति गुणत्वं स्पर्शस्य लक्षणम्‌ | संस्कारमात्रजन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणम्‌ | एषु सर्वेषु स्थलेषु प्रश्नः उदेति यत्‌ वस्तुतः चक्षुः एव रूपविषयकप्रत्यक्षज्ञानस्य कारणं न अन्यत्‌ किमपि इति, त्वगिन्द्रियम्‌ एव स्पर्शविषयकप्रत्यक्षज्ञानस्य कारणं न अन्यत्‌ किमपि इति, संस्कारः एव स्मृतेः कारणं न अन्यत्‌ किमपि इति वा ? तथा नास्ति इति अस्माभिः ज्ञायते |

ध्वनिमुद्रणम्‌ -

तर्हि मात्रपदस्य अत्र तादृशसार्वत्रिकः अर्थः न स्यात्‌ खलु | एषु लक्षणवाक्येषु 'मात्र'-पदस्य कश्चन विशिष्टः अर्थः भवेत्‌ | अस्य स्पष्टीकरणार्थं‌ विद्याधर्यां लिखितमस्ति—

ध्वनिमुद्रणम्‌ -
ध्वनिमुद्रणम्‌ -
“अतः एवं समाधानं वाच्यं त्वगिन्द्रियमेव चक्षुर्भिन्नं ग्रन्थकर्तुः बुद्धौ वर्तते | चक्षुरिन्द्रिय-जन्यप्रत्यक्षविषयत्वम्‌ अलक्ष्ये सङ्ख्यायामस्ति इति भवति अतिव्याप्तिः | अतः तद्वारणाय त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभाव एव लक्षणे निवेश्यः | सङ्ख्या च तादृशविषयत्वाभाववती न भवति इति न लक्षणे अतिव्याप्तिः | अतः तद्वारणाय त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभाव एव लक्षणे निवेश्यः | सङ्ख्या च तादृशविषयत्वाभाववती न भवति इति न लक्षणे अतिव्याप्तिः | स्पर्शलक्षणे च त्वगिन्द्रियभिन्नं चक्षुः, तज्जन्यप्रत्यक्षविषयत्वाभावः पूर्ववदेव सङ्ख्यायामतिव्याप्तिवारणाय निवेश्यः | अतः रूपलक्षणे त्वगिन्द्रियाग्राह्यत्वं, स्पर्शलक्षणे च चक्षुरिन्द्रियाग्राह्यत्वं प्रवेश्यमिति फलितार्थः | स्मृतिलक्षणेऽपि संस्कारभिन्नमिन्द्रियं विवक्षितम्‌ | तज्जन्यत्वाभावं निवेश्य वक्ष्यमाणरीत्या प्रत्यभिज्ञायामतिव्याप्तिर्निवार्यते इति सर्वं समञ्जसम्‌ |” (पृ०स० १२८)ध्वनिमुद्रणम्‌ -

ध्वनिमुद्रणम्‌ -
रूपस्य लक्षणं किमुक्तम्‌ ? चक्षुर्मात्रग्राह्यो गुणो रूपम्‌ | किमर्थं तथा उक्तमिति चेत्‌, मात्रपदं किमर्थं निवेशितम् इति बोध्यं चेत्‌— प्रथमतया मात्रपदं नास्ति इति चिन्त्यताम्‌ | चक्षुर्ग्राह्यो गुणो रूपम्‌ इति लक्षणं भवति | तर्हि चक्षुरिन्द्रियेण यो यो गुणः गृह्यते रूपं विहाय, तेषु सर्वेषु गुणेषु अतिव्याप्तिः भवति | तादृशाः गुणाः अनेके सन्ति— सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इत्येषु सर्वेषु अतिव्याप्तिः | अतः चक्षुर्ग्राह्यत्वे सति गुणत्वम्‌ इत्येतावदेव उक्तं चेत्, केवलं रूपे न, एतेषु पञ्चसु अपि गुणेषु लक्षणसमन्वयः भवति | रूपं वर्जयित्वा एतत्‌ सर्वम्‌ अलक्ष्यम्‌ इति कारणेन तेषु समन्वयः भवति चेत्‌, अतिव्याप्तिः | अस्य कथनार्थं ग्रन्थे उक्तं 'चक्षुरिन्द्रिय-जन्यप्रत्यक्षविषयत्वम्‌ अलक्ष्ये सङ्ख्यायामस्ति इति भवति अतिव्याप्तिः' | जन्यप्रत्यक्षविषयत्वम्‌ इत्युक्ते ग्राह्यत्वम्‌ | चक्षुरिन्द्रियेण यत्‌ प्रत्यक्षज्ञानं जायते, तस्य ज्ञानस्य विषयः रूपं भवति | न केवलं रूपम्‌ अपि तु सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इति सर्वेऽपि | नाम एषु सर्वेषु गुणेषु चक्षुरिन्द्रिय-जन्यप्रत्यक्षविषयत्वं वर्तते | अनेन च अतिव्याप्तिः |

ध्वनिमुद्रणम्‌ -

ध्वनिमुद्रणम्‌ -
तदर्थं मात्रशब्दस्य निवेशः कृतः | अनेन किं भवति ? मात्रशब्दस्य कथनेन अधुना यः चक्षुर्ग्राह्यः गुणः, सः कीदृशः इति चेत्‌, तद्भिन्नेन अग्राह्यः इति स्यात्‌ | अस्माकं गुणः चक्षुर्ग्राह्यः च तद्भिन्नेन्द्रियेण अग्राह्यः च | एते पञ्च गुणाः सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः, एते त्वगिन्द्रियेणापि गृह्यन्ते | यथा चक्षुरिन्द्रियेण गृह्यन्ते, तथैव त्वगिन्द्रियेणापि गृह्यन्ते | किन्तु रूपं त्वगिन्द्रियेण न गृह्यते; रूपं केवलं चक्षुरिन्द्रियेण गृह्यते, अन्येन केनापि इन्द्रियेण न गृह्यते | चक्षुर्भिन्नेन्द्रियेण अग्राह्यः स्यात्‌ इति कथनेन तादृशः गुणः एव स्वीकरणीयः यहः चक्षुरिन्द्रियेण गृह्येत, अन्येन इन्द्रियेण न गृह्येत | सङ्ख्यादयाः अन्येन इन्द्रियेण गृह्यन्ते इति कारणेन तेषां ग्रहणम्‌ अधुना नास्ति | ते च पञ्च गुणाः निवारिताः; केवलं रूपं लक्षणवाक्ये समन्वितम्‌ | अतः 'मात्र'-शब्दः निविष्टः सङ्ख्यादीनां वारणाय |

ध्वनिमुद्रणम्‌ -

आहत्य ‘चक्षुर्मात्रग्राह्यो गुणो रूपम्‌’ इति वाक्ये 'मात्र'-शब्दस्य कथनेन तात्पर्यं किमिति चेत्‌, त्वगिन्द्रियेण न गृह्येत इति | 'मात्र'-शब्दस्य अर्थः 'अन्यत्‌ सर्वं न' इति न, नाम रूपप्रत्यक्षे चक्षुरेव कारणमिति न | अपि तु चक्षुर्भिन्नं यत्‌ त्वगिन्द्रियं, तेन त्वगिन्द्रियेण अस्माकं गुणः ग्राह्यः न स्यात्‌ | अस्य कथनार्थं ग्रन्थे उक्तं यत्‌ अतिव्याप्तेः निवारणार्थं 'त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभाव एव लक्षणे निवेश्यः' | जन्यप्रत्यक्षविषयत्वम्‌ इत्युक्ते ग्राह्यत्वम्‌, अतः त्वगिन्द्रियग्राह्यत्वाभावः इत्यर्थः | तादृशाभावः रूपे अस्ति किन्तु सङ्ख्यादिषु नास्ति | यतोहि त्वगिन्द्रियेण रूपं न गृह्यते किन्तु सङ्ख्या गृह्यते | तदर्थं ग्रन्थे 'सङ्ख्या च तादृशविषयत्वाभाववती न भवति इति न लक्षणे अतिव्याप्तिः' | सङ्ख्या त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभववती न भवति यतः सङ्ख्या त्वगिन्द्रियजन्यप्रत्यक्षज्ञानस्य विषयः भवति | अतः मात्रशब्देन त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः | तस्य निवेशेन अतिव्याप्तेः वारणम्‌ |
Line 33 ⟶ 29:
Swarup – September 2018

[https://static.miraheze.org/samskritavyakaranamwiki/b/b2/19_-_%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%8D%E0%A4%B0_%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%A6%E0%A5%87%E0%A4%A8_%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%82_%E0%A4%9A%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D_.pdf 19 - सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌.pdf]
ध्वनिमुद्रणम्‌ -

ध्वनिमुद्रणम्‌ -

page_and_link_managers, Administrators
5,088

edits