10---nyAyashAstram/11---kAlaH: Difference between revisions

added pdf link
(Added text and image)
(added pdf link)
Line 43:

"घटः अतीतः" इति एकं ज्ञानम्‌ | यथा पूर्वम्‌ "अयं घटः" इति ज्ञाने घटः विषयः, 'अयं घटः' इति ज्ञानं च विषयि (इनि-प्रत्ययः नपुंसकलिङ्गे) | घटः इति विषये विषयता; "अयं घटः" इति ज्ञाने विषयिता | विषयता ज्ञानस्य प्रभा | मनसि अस्य चित्रं भवेत्—

[[File:GataH_atitaH.png|alt=]]
Line 59 ⟶ 60:

अपि च यथा 'भूतलं घटवत्‌' इत्यस्मिन्‌ भूतलं विशेष्यं, घटः विशेषणं, तथैव 'घटः अतीतः' इत्यस्मिन्‌ घटः विशेष्यः, अतीतत्वं विशेषणम्‌ |

[[File:GataH atita.png]]

एतत्‌ सर्वं मनसि निधाय आहत्य "घटः अतीतः" इति वाक्ये विशिष्टं ज्ञानम्‌ इदम्— "घटनिष्ठविशेष्यतानिरूपकम्‌ अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्‌" |

[[File:GataH atitaH vishayata.png|600x600px]]
Line 70 ⟶ 73:

कालस्य लक्षणम्‌

अधुना लक्षणवाक्यस्य निर्माणार्थं विद्याधरी इति पुस्तके पृ०स० ५५ इत्यस्य चित्रं दृष्ट्वा अत्र अग्रे पठतु—

तर्हि ज्ञाननिष्ठकार्यतानिरूपितकारणता शब्दप्रयोगे; तन्निष्ठकार्यतानिरूपितकारणता, काले | तर्हि अनेन कालस्य किं लक्षणं वक्तुं शक्यते ? अतीतत्वादिप्रकारक-ज्ञानजनकशब्दप्रयोगनिष्ठ-कार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणम्‌ | पुनः, अतीतत्वादिप्रकारक-ज्ञाननिष्ठकार्यतानिरूपित-शब्दप्रयोगनिष्ठ-कार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणम्‌ |

व्यवहारः इति पदघटितानि अष्टौ लक्षणानि

तर्कसङ्ग्रह-ग्रन्थे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति | अतीतादिव्यवहारहेतुः कालः, संयुक्तादिव्यवहारहेतुः संयोगः, पृथक्‌व्यवहारहेतुः पृथक्त्वम्‌, एकत्वादिव्यवहारहेतुः सङ्ख्या इति एवं व्यवहार-पद-घटितानि अष्ट लक्षणानि सन्ति | धेयं यत्‌ अत्र लक्षणानि व्यवहारशब्दस्य न अपि तु व्यवहार-शब्द-घटितानि— नाम व्यवहार-शब्द-युक्तानि | व्यवहार-शब्द-युक्तानि लक्षणानि अष्ट सन्ति | अपरेषां शब्दानां लक्षणस्य कथनावसरे, व्यवहार-शब्दस्य प्रयोगः कृतः | तेषु शब्देषु अन्यतमशब्दः अस्ति कालः | कालस्य लक्षणं व्यवहार-पदघटितं, व्यवहार-पद-युक्तम्‌— अतीतादिव्यवहारहेतुः कालः |

अतः आदौ व्यवहारशब्दस्य समीचीनबोधः स्यात्‌ | तदनन्तरं अष्टानां लक्षणानाम्‌ अध्ययने सौलभ्यं भवति | धेयं यत्‌ सर्वत्र, सर्वेषु अष्टसु लक्षणेषु, व्यवहार-शब्दस्य अयमेव अर्थः— ज्ञानजनकशब्दप्रयोगः | एकत्वादिव्यवहारहेतुः सङ्ख्या इत्युक्ते एकत्वरूप-ज्ञानजनकशब्दप्रयोगानुकूलगुणः सङ्ख्या | एवं रीत्या सर्वत्र व्यवहार-शब्दस्य अयमेव अर्थः— ज्ञानजनकशब्दप्रयोगः |
Line 97 ⟶ 94:

[https://static.miraheze.org/samskritavyakaranamwiki/f/f6/%E0%A5%A7%E0%A5%A7_-_%E0%A4%95%E0%A4%BE%E0%A4%B2%E0%A4%83_-_%E0%A5%A7.pdf ११ - कालः - १.pdf]
teachers
746

edits