10---nyAyashAstram/15---guNasya-vyApyAvyApyam-ca-vRuttitvam: Difference between revisions

added pdf link
(Added text and audio link)
(added pdf link)
Line 20:
प्राचीनानां मतानुसारं रूपं सप्तविधम्‌ | तत्र सप्तसु अन्यतमं चित्रम्‌ | नव्यनैयायिकाः इदं सप्तमं न मन्यन्ते |

ध्वनिमुद्रणानि -
१)

व्याप्यवृत्तित्वस्य तत्सम्बद्धशब्दानां च अर्थः
Line 27 ⟶ 26:
रूपं '''व्याप्यवृत्ति''' इति प्राचीनानां मतम्‌, '''अव्याप्यवृत्ति''' इति नवीनानां मतम्‌ | यदा प्राचीनाः वदन्ति यत्‌ रूपम्‌ इति गुणः व्याप्यवृत्तिः, तदा तेषां कथनस्य आशयः एवं यत्‌ यस्मिन्‌ द्रव्ये रूपं तिष्ठति, तत्‌ द्रव्यं '''व्याप्य''' तिष्ठति; तद्‍ रूपं तस्मिन्‌ द्रव्ये सर्वत्र भवति इत्यर्थः | तस्य द्रव्यस्य एकस्मिन्‌ एव भागे भवति इति न, अपि तु सर्वत्र एव | अपरेषु शब्देषु, यस्मिन्‌ द्रव्ये तत्‌ रूपं तिष्ठति, तत्‌ द्रव्यं पूर्णतया '''आवृत्य''' तिष्ठति; तस्मिन्‌ द्रव्ये पूर्णतया '''व्याप्तः''' भवति सः गुणः |

अधुना '''व्याप्यवृत्ति''' इति शब्दः कीदृशः इति बोध्यम्‌ | 'रूपं व्याप्यवृत्तिः गुणः' इति वाक्यम्‌ अवलोकयाम | व्याप्यवृत्ति विशेषणम्‌ अस्ति, त्रिषु लिङ्गेषु च भवति; अत्र च पुंसि | पुंलिङ्गे हरि-शब्दः इव व्याप्यवृत्तिः; स्त्रीलिङ्गे मति-शब्दः इव व्याप्यवृत्तिः; नपुंसकलिङ्गे वारि-शब्दः इव व्याप्यवृत्ति | अतः व्याप्यवृत्तिः गुणः, व्याप्यवृत्तिः सङ्ख्या, व्याप्यवृत्ति रूपम्‌ | धेयं यत्‌ वृत्ति-शब्दः नियतलिङ्गशब्दः, स्त्रीलिङ्गकः | परन्तु व्याप्यवृत्ति इति समस्तपदम्‌ |
ध्वनिमुद्रणानि -
१)

अग्रे, 'एकत्वम्‌ इति सङ्ख्या पुस्तकं '''व्याप्य''' तिष्ठति' | अत्र प्रश्नः उदेति 'पुस्त'''के''' व्याप्य तिष्ठति' उत 'पुस्त'''कं''' व्याप्य तिष्ठति'; द्वयोः मध्ये किं स्यात्‌ ? वि-उपसर्गपूर्वकः आप्‌-धातुः, लटि व्याप्नोति; आवरणं करोति इत्यर्थः | अत्र व्याप्य तस्य ल्यबन्तं रूपम्‌ | ल्यपि कर्म गृह्यते अतः पुस्तकशब्दे कर्मपदत्वं, व्याप्य इति ल्यबन्तेन अन्वयः | 'वायुः वृक्षं व्याप्य तिष्ठति', तथा |

परन्तु 'कपिसंयोगः वृक्षे अ'''व्याप्य'''वृत्तिः' | अत्र वृक्षस्य अधिकरणकारकं (न तु कर्मकारकं) यतोहि व्याप्य-शब्दस्य अन्वयः कपिसंयोगस्य वृत्तित्वेन, न तु समासात्‌ बहिः | ततः अग्रे कपिसंयोगस्य वृत्तित्वं कुत्र इति चेत्‌, वृक्षे | समस्तपदं यदा कुर्मः, तदानीं समस्तपदस्य यः समग्रः अर्थः, सः कथं सम्बध्यते वाक्ये इति द्रष्टव्यम्‌ | यथा अत्र <nowiki>''</nowiki>अव्याप्यवृत्तिः' इत्यस्य समग्रः यः अर्थः, स अर्थः वृक्षेण सह सम्बध्यते; केवलं 'व्याप्य' पदस्य अन्वयः अपेक्षितः यदा, तदा समस्तपदस्य अन्तर्गते एव चिन्तनीयम्‌ | यथोक्तं तर्हि वृत्तित्वं वृक्षेण सह सम्बध्यते; कपिसंयोगवृत्तित्वं वृक्षे भवति | व्याप्य-शब्दस्य अन्वयः वृक्षेण नास्ति अपि तु वृत्ति-शब्देन | न व्याप्य अव्याप्य; अव्याप्य वृत्तिः यस्य सः अव्याप्यवृत्तिः | बहुव्रीहिसमासः | ल्यबन्तं पदं अव्ययम्‌; अव्ययानां च बहुव्रीहिसमासः भवति | यथा उच्चैः मुखं यस्य, सः उच्चैर्मुखः | तर्हि आहत्य अव्याप्यवृत्ति इति पदे अव्याप्य इत्यस्य साक्षात्‌ वृत्तित्वान्वयः; किन्तु बहुव्रीहेः अन्यपदार्थप्राधान्यत्वात्‌ पदस्य समग्रार्थः अन्वेति कपिसंयोगः इति गुणेन, अधिकरणत्वात्‌ वृक्षेण च | 'कपिसंयोगः वृक्षे अ'''व्याप्य'''वृत्तिः' |

ध्वनिमुद्रणानि -
१)

किन्तु '''कपिसंयोगः वृक्षम्‌ अव्याप्य तिष्ठति'''; अत्र अव्याप्य इति ल्यबन्तं पदं कर्मपदं गृह्णाति | कर्ता कपिसंयोगः, वृक्ष च कर्मपदम्‌ | कपिसंयोगः वृक्षं न व्याप्नोति इति वाक्यस्य अर्थः |

धेयं यत्‌ अत्र व्याप्य इति ल्यबन्तपदं; किन्तु व्याप्यः/व्याप्या/व्याप्यम्‌ इति कर्मण्यर्थकं विशेषणं ण्यत्‌-प्रत्ययान्तम्‌ | अतः व्याप्य इति ल्यबन्तात्‌, व्याप्यः इति ण्यदन्तं च पूर्णतया भिन्नम्‌ | पेयं, खाद्यं, कार्यं, वाक्यं, व्याप्यम्‌ इतीमानि पदानि ण्यत्‌-प्रत्ययान्तानि | व्याप्यः इत्यस्य विपरीतार्थाकं पदं ण्वुल्‌-प्रत्ययान्तं व्यापकम्‌ | यः व्याप्नोति सः व्यापकः, यं व्याप्नोति, सः व्याप्यः | किन्तु अत्र 'कपिसंयोगः वृक्षम्‌ अव्याप्य तिष्ठति' इति वाक्ये, अव्याप्य इति ल्यबन्तं पदम्‌ | अन्यच्च व्याप्य इति यथा, तथैव आवृत्य अपि | लटि आवृणोति, अर्थः स एव समानः— आवरणं करोतीति |

व्याप्यवृत्तित्व-शब्दस्य व्यवहारः

ध्वनिमुद्रणानि -
१)

व्याकरणदृष्ट्या परिशीलितम्‌; अधुना व्याप्यवृत्तिः इत्यस्य कीदृशव्यवहारः इति पश्येम | यथा एकं पुस्तकं वर्तते, तस्मिन्‌ 'एकत्वम्‌' इति सङ्ख्या अस्ति | एकत्वम्‌ इति सङ्ख्या व्याप्यवृत्तिः गुणः; अतः एकत्व-सङ्ख्या पुस्तकं व्याप्य तिष्ठति | किन्तु संयोगः न तथा; संयोगः इति कश्चन गुणः, स च अव्याप्यवृत्तिः | इत्युक्ते संयोगः इति गुणः यस्मिन्‌ द्रव्ये भवति, तत्‌ द्रव्यं व्याप्य न तिष्ठति | यथा इदानीं कस्यचित्‌ हस्तस्य भित्त्या संयोगः अस्ति इति चिन्तयतु | हस्ते वा भित्तौ वा सः संयोगः सर्वात्मना, सर्वत्र न भवति; हस्तः भित्तेः एकस्मिन्‌ देशे संयुक्तः— हस्तस्य भित्तेः एकदेशे संयोगः | अतः अयं संयोगः इति गुणः अव्याप्यवृत्तिः | हस्तः भित्तौ पूर्णतया भित्तिं व्याप्य न तिष्ठति, इति वस्तुस्थितिः |

ध्वनिमुद्रणानि -
१) ध्वनिमुद्रणानि -
१) अधुना 'रूपं' कीदृशम्‌ ? रूपं व्याप्यवृत्तिः गुणः वा, अव्याप्यवृत्तिः गुणः वा इति वार्ता |ध्वनिमुद्रणानि -
१) ध्वनिमुद्रणानि -
१) यथा कश्चन पटः अस्ति चेत्‌, तस्मिन्‌ पटे यत्किमपि रूपं स्यात्‌, सम्पूर्णं तं पटम्‌ आवृत्य, सम्पूर्णं तं पटं व्याप्य, तिष्ठति इति चिन्तयन्तु | एवं सति तस्मिन्‌ पटे किञ्चित्‌ श्वेतरूपम्‌ अस्ति चेत्‌, किञ्चित्‌ रक्तरूपं, किञ्चित्‌ नीलरूपम्‌ अस्ति चेत्‌ तदानीं पटे वस्तुतः रूपं किम्‌ इति प्रश्ने जाते, शुक्लरूपम्‌ अथवा नीलरूपम्‌ अथवा रक्तरूपम्‌ इति न वक्तव्यम्‌ | यतोहि पटे शुक्लरूपम्‌ अस्ति इति वदामः चेत्‌, शुक्लरूपं पटस्य एकदेशे भवति; सर्वत्र न भवति | पटस्य अपरस्मिन्‌ भागे नीलरूपं भवति | अतः श्वेतरूपं पटं व्याप्य न तिष्ठति | किन्तु प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः गुणः | इदानीं पटे श्वेतरूपमेव अस्ति इति वक्तुं न शक्नुमः यतोहि श्वेतरूपम्‌ एकत्रैव भवति | एकत्र विद्यमानं रूपं तस्य पटस्य रूपम्‌ इति वक्तुं न शक्यते, रूपस्य व्याप्यवृत्तित्वात्‌ | तर्हि अन्यत्‌ किमपि नूतनरूपं वक्तव्यं भवति; प्राचीनैः 'चित्ररूपम्‌' इत्यस्य स्वीकारः कृतः | चित्ररूपम्‌ इत्युक्तौ अनेकानां रूपाणां मिश्रीकरणम्‌ | अतः 'पटे चित्ररूपम्‌ अस्ति' इति उच्यते; तच्च चित्रम्‌ एकमेव |ध्वनिमुद्रणानि -
१)

किन्तु नवीनाः वदन्ति यत्‌ एवं स्वीकर्तुं न शक्यते | रूपस्य अव्याप्यवृत्तित्वं स्वीकर्तव्यम्‌ इति तेषां मतम्‌ | अनेन एकस्मिन्‌ पटे बहूनि रूपाणि सन्ति इति चिन्तनविधिः | पटस्य एकदेशे श्वेतरूपम्‌, एकदेशे नीलरूपम्‌ इत्येवं स्वीकार्यं; बहूनि रूपाणि, एकैकमपि रूपम्‌ अव्याप्यवृत्ति |

ध्वनिमुद्रणानि -
१)

प्राचीनानां मतानुसारं यत्किमपि एकमेव रूपं स्वीकरणीयं यतोहि एकस्मिन्‌ पटे एकमेव रूपं पटं व्याप्य तिष्ठति | अतः समग्रे पटे रूपं किम्‌ इति निर्णेतव्यम्‌ | समग्रे पटे विद्यमानं रूपं रक्तं न भवति, नीलं न भवति, श्वेतं न भवति; तदर्थं 'चित्ररूपम्‌' इति मिश्रितरूपं स्वीकृतम्‌ |

ध्वनिमुद्रणानि -
१)

अव्याप्यवृत्तित्वम्‌

ध्वनिमुद्रणानि -
१) ध्वनिमुद्रणानि -
१) विद्याधर्याम्‌— "अव्याप्यवृत्तित्वम्‌ इत्यस्य स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वमित्यर्थः" | अत्र अव्याप्यवृत्तित्वम्‌ इत्यस्य लक्षणम्‌ दत्तम्‌ | स्वं यस्मिन्‌ द्रव्ये अस्ति, तस्मिन्‌ एव द्रव्ये तस्य अभावः अपि अस्ति | हस्तस्य भित्त्या संयोगः अस्ति इति चिन्त्यताम्‌ | अत्र अव्याप्यवृत्तिः गुणः संयोगः हस्तभित्त्योः | स्वम्‌ इति सर्वनामपदम्‌; अत्र स्वम्‌ इत्युक्ते संयोगसम्बन्धः | अधिकरणं भित्तिः | अधिकरणे स्वम्‌ इति संयोगसम्बन्धः अपि अस्ति, स्वस्य अभावः इति संयोगसम्बन्धाभावः अपि अस्ति, यतोहि हस्तभित्तिसंयोगः भित्तिं व्याप्य न तिष्ठति | अनेन स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम्‌ |ध्वनिमुद्रणानि -
१)

अन्यत्‌ उदाहरणम्‌ | आकाशे शब्दः | आकाशे शब्दः सर्वत्र न भवति; कुत्रचिदेव भवति यत्र शब्दः उत्पद्यते तत्र | अतः शब्दः अपि अव्याप्यवृत्तिः गुणः | अत्र 'स्वम्‌' इत्यनेन शब्दः स्वीकरणीयः | स्वाभावः इत्यनेन शब्दस्य अभावः | तस्य अधिकरणम्‌ आकाशः | तस्मिन्‌ एव आकाशे स्वस्य— शब्दस्य— वृत्तित्वम्‌ अपि अस्ति, शब्दाभावस्य वृत्तित्वमपि अस्ति | यतोहि शब्दः आकाशे सर्वत्र नास्ति | अतः आकाशस्य कस्मिंश्चित्‌ देशे शब्दः अस्ति, कस्मिंश्चित्‌ देशे शब्दाभावः अस्ति | अनेन स्वस्य अभावस्य अधिकरणे स्वमपि अस्ति | तस्मात्‌ शब्दः अव्याप्यवृत्तिः | अपि च विश्वे अव्याप्यवृतिः गुणः यो यो भवति, तस्य सर्वस्यापि एवं रीत्या समन्वयं कर्तुं शक्नुमः |

ध्वनिमुद्रणानि -
१) अवच्छेदकत्वम्‌

अवच्छेदकत्वम्‌

ध्वनिमुद्रणानि -
१)

रूपं व्याप्यवृत्तिः गुणः अथवा अव्याप्यवृत्तिः गुणः इत्यस्मिन्‌ विषये चिन्तनार्थम्‌ अवच्छेदकत्वविषयिणी चर्चा उपकारिका | अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्धम्‌ उदाहरणं कपिवृक्षयोः | कपिः वृक्षस्य अग्रभागे वर्तते |

ध्वनिमुद्रणानि -
१)

विद्याधर्याम्‌— "एकस्मिन्‌ एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति-शाखायाम्‌ | तस्य अभावस्तु मूलदेशवर्ति-शाखायाम्‌ | एवं च अग्रं कपिनिष्ठ-आधेयता‌-निरूपिता या वृक्षनिष्ठाधिकरणता तस्याः अवच्छेदकम्‌ | मूलं च कपिसंयोगाभावनिष्ठाधेयतानिरूपित-अधिकरणतावच्छेदकम्‌ |”

ध्वनिमुद्रणानि -
१)

अनेन कपिसंयोगः अपि भवति वृक्षे, कपिसंयोगाभावः अपि भवति वृक्षे | द्वावपि— कपिसंयोगः कपिसंयोगाभावः च एकस्मिन्‌ समये वृक्षे इत्यस्य प्रतिपादनार्थम्‌ अवच्छेदकस्य विचारः अपेक्षितः | अत्र धेयं यत्‌ पूर्वं चर्चितः विषयः घटाभावः भूतले, घटे विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम्‌— अस्यां दशायां यत्‌ अवच्छेदकत्वम्‌, अपि च कपिसंयोगस्थले यत्‌ अवच्छेदकत्वं, द्वयमपि भिन्नम्‌ | विद्याधर्याम्‌— "घटत्वादिनिष्ठप्रतियोगितावच्छेदकत्वात्‌ इदमवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम्‌ |”

ध्वनिमुद्रणानि -
१) ध्वनिमुद्रणानि -
१) प्रथमतया घटस्य उदाहरणं स्मरेम | भूतले घटाभावः | घटाभावं प्रति यः विरोधः, सः घटे विद्यते | अतः घटस्य आनयनेन घटाभावः नश्यति | घटे यः घटाभावविरोधः, स च प्रतियोगिता नामकः | तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते, इत्यस्य प्रतिपादनार्थम्‌ अवच्छेदकं, भेदकम्‌ एकम्‌ अपेक्षितम्‌ | तच्च अवच्छेदकमपि घटे स्यात्‌, सर्वदा च घटे स्यात्‌, अन्यत्रापि न स्यात्‌ | घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकम्‌ | यतोहि यत्र यत्र घटत्वं भवति, तत्र तत्र तादृशी प्रतियोगिता (विरोधः) वर्तते यस्य द्वारा घटाभावः नष्टः स्यात्‌ | प्रतियोगिता च भिद्यते अवच्छेदेन, अतः तस्याः नाम अवच्छेद्या |ध्वनिमुद्रणानि -
१)

घटस्य दृष्टान्ते अवच्छेद्या अवच्छेदकं च, द्वयोः सामानाधिकरण्यं वर्तते | अवच्छेद्या प्रतियोगिता, अतः प्रतियोगिता-घटत्वयोः सामानाधिकरण्यम्‌ | एतदर्थम्‌ या अवच्छेदकता वर्तते घटत्वे, तस्य नामकरणं कृतम्‌— '''अन्यून-अनतिरिक्तवृत्तित्वरूपावच्छेदकता''' | यतोहि प्रतियोगिता-घटत्वयोः अनतिरिक्तवृत्तित्वम्‌ अस्ति | अनतिरिक्तवृत्तित्वम्‌ इत्युक्ते यत्र यत्र घटत्वं, तत्र तत्र प्रतियोगिता; अपि च यत्र यत्र प्रतियोगिता, तत्र तत्र घटत्वम् |

ध्वनिमुद्रणानि -
१)

अधुना कपिवृक्षयोः आकृतिः अवलोकनीया | कपिसंयोगः वृक्षस्य अग्रभागे | कपिसंयोगनिष्ठाधेयता-निरूपित-अधिकरणता वृक्षे | यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते, अत्र कपिसंयोगनिष्ठाधेयता-निरूपित-अधिकरणता अवच्छेद्या | अवच्छेदकं च वृक्षस्य अग्रभागः |

तर्हि घटः-घटाभावः, कपिसंयोगः-कपिसंयोगाभावः | द्वयोः दृष्टान्तयोः भेदः कः ? घटघटाभावयोः सहानवस्थानरूपः विरोधः वर्तते | भूतले यदा घटाभावः अस्ति, तदा घटः नितरां नास्ति; यदा घटः अस्ति, तदा घटाभावः नितरां नास्ति | किन्तु कपिसंयोगः सम्पूर्णवृक्षे अव्याप्यवृत्तिः गुणः इति कारणतः स्वाभावस्य अधिकरणे स्वस्य युगपत्‌ विद्यमानत्वं; नाम वृक्षे समानकाले कपिसंयोगः अपि अस्ति, कपिसंयोगाभावः अपि अस्ति | अत्र कपिसंयोगः इति गुणः अव्याप्यवृत्तिः इति कारणेन अवच्छेदकं किञ्चित्‌ भिन्नरीत्या चिन्तनीयं भवति |

Line 203 ⟶ 183:

Swarup – July 2016

[https://static.miraheze.org/samskritavyakaranamwiki/e/e0/%E0%A5%A7%E0%A5%AB_-_%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%AF%E0%A4%82_%E0%A4%9A_%E0%A4%B5%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A5%8D_.pdf १५ - गुणस्य व्याप्याव्याप्यं च वृत्तित्वम्‌.pdf]
teachers
746

edits