10---nyAyashAstram/15---guNasya-vyApyAvyApyam-ca-vRuttitvam: Difference between revisions
10---nyAyashAstram/15---guNasya-vyApyAvyApyam-ca-vRuttitvam (view source)
Revision as of 22:21, 24 May 2021
, 2 years agoFixed spacing
(added pdf link) |
(Fixed spacing) |

Line 45:

अधुना 'रूपं' कीदृशम् ? रूपं व्याप्यवृत्तिः गुणः वा, अव्याप्यवृत्तिः गुणः वा इति वार्ता |

यथा कश्चन पटः अस्ति चेत्, तस्मिन् पटे यत्किमपि रूपं स्यात्, सम्पूर्णं तं पटम् आवृत्य, सम्पूर्णं तं पटं व्याप्य, तिष्ठति इति चिन्तयन्तु | एवं सति तस्मिन् पटे किञ्चित् श्वेतरूपम् अस्ति चेत्, किञ्चित् रक्तरूपं, किञ्चित् नीलरूपम् अस्ति चेत् तदानीं पटे वस्तुतः रूपं किम् इति प्रश्ने जाते, शुक्लरूपम् अथवा नीलरूपम् अथवा रक्तरूपम् इति न वक्तव्यम् | यतोहि पटे शुक्लरूपम् अस्ति इति वदामः चेत्, शुक्लरूपं पटस्य एकदेशे भवति; सर्वत्र न भवति | पटस्य अपरस्मिन् भागे नीलरूपं भवति | अतः श्वेतरूपं पटं व्याप्य न तिष्ठति | किन्तु प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः गुणः | इदानीं पटे श्वेतरूपमेव अस्ति इति वक्तुं न शक्नुमः यतोहि श्वेतरूपम् एकत्रैव भवति | एकत्र विद्यमानं रूपं तस्य पटस्य रूपम् इति वक्तुं न शक्यते, रूपस्य व्याप्यवृत्तित्वात् | तर्हि अन्यत् किमपि नूतनरूपं वक्तव्यं भवति; प्राचीनैः 'चित्ररूपम्' इत्यस्य स्वीकारः कृतः | चित्ररूपम् इत्युक्तौ अनेकानां रूपाणां मिश्रीकरणम् | अतः 'पटे चित्ररूपम् अस्ति' इति उच्यते; तच्च चित्रम् एकमेव |

किन्तु नवीनाः वदन्ति यत् एवं स्वीकर्तुं न शक्यते | रूपस्य अव्याप्यवृत्तित्वं स्वीकर्तव्यम् इति तेषां मतम् | अनेन एकस्मिन् पटे बहूनि रूपाणि सन्ति इति चिन्तनविधिः | पटस्य एकदेशे श्वेतरूपम्, एकदेशे नीलरूपम् इत्येवं स्वीकार्यं; बहूनि रूपाणि, एकैकमपि रूपम् अव्याप्यवृत्ति |
Line 55 ⟶ 57:

विद्याधर्याम्— "अव्याप्यवृत्तित्वम् इत्यस्य स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वमित्यर्थः" | अत्र अव्याप्यवृत्तित्वम् इत्यस्य लक्षणम् दत्तम् | स्वं यस्मिन् द्रव्ये अस्ति, तस्मिन् एव द्रव्ये तस्य अभावः अपि अस्ति | हस्तस्य भित्त्या संयोगः अस्ति इति चिन्त्यताम् | अत्र अव्याप्यवृत्तिः गुणः संयोगः हस्तभित्त्योः | स्वम् इति सर्वनामपदम्; अत्र स्वम् इत्युक्ते संयोगसम्बन्धः | अधिकरणं भित्तिः | अधिकरणे स्वम् इति संयोगसम्बन्धः अपि अस्ति, स्वस्य अभावः इति संयोगसम्बन्धाभावः अपि अस्ति, यतोहि हस्तभित्तिसंयोगः भित्तिं व्याप्य न तिष्ठति | अनेन स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् |

अन्यत् उदाहरणम् | आकाशे शब्दः | आकाशे शब्दः सर्वत्र न भवति; कुत्रचिदेव भवति यत्र शब्दः उत्पद्यते तत्र | अतः शब्दः अपि अव्याप्यवृत्तिः गुणः | अत्र 'स्वम्' इत्यनेन शब्दः स्वीकरणीयः | स्वाभावः इत्यनेन शब्दस्य अभावः | तस्य अधिकरणम् आकाशः | तस्मिन् एव आकाशे स्वस्य— शब्दस्य— वृत्तित्वम् अपि अस्ति, शब्दाभावस्य वृत्तित्वमपि अस्ति | यतोहि शब्दः आकाशे सर्वत्र नास्ति | अतः आकाशस्य कस्मिंश्चित् देशे शब्दः अस्ति, कस्मिंश्चित् देशे शब्दाभावः अस्ति | अनेन स्वस्य अभावस्य अधिकरणे स्वमपि अस्ति | तस्मात् शब्दः अव्याप्यवृत्तिः | अपि च विश्वे अव्याप्यवृतिः गुणः यो यो भवति, तस्य सर्वस्यापि एवं रीत्या समन्वयं कर्तुं शक्नुमः |
Line 73 ⟶ 76:
घटस्य दृष्टान्ते अवच्छेद्या अवच्छेदकं च, द्वयोः सामानाधिकरण्यं वर्तते | अवच्छेद्या प्रतियोगिता, अतः प्रतियोगिता-घटत्वयोः सामानाधिकरण्यम् | एतदर्थम् या अवच्छेदकता वर्तते घटत्वे, तस्य नामकरणं कृतम्— '''अन्यून-अनतिरिक्तवृत्तित्वरूपावच्छेदकता''' | यतोहि प्रतियोगिता-घटत्वयोः अनतिरिक्तवृत्तित्वम् अस्ति | अनतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वं, तत्र तत्र प्रतियोगिता; अपि च यत्र यत्र प्रतियोगिता, तत्र तत्र घटत्वम् |
अधुना कपिवृक्षयोः आकृतिः अवलोकनीया | कपिसंयोगः वृक्षस्य अग्रभागे | कपिसंयोगनिष्ठाधेयता-निरूपित-अधिकरणता वृक्षे | यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते, अत्र कपिसंयोगनिष्ठाधेयता-निरूपित-अधिकरणता अवच्छेद्या | अवच्छेदकं च वृक्षस्य अग्रभागः |