10---nyAyashAstram/17---kAryakAraNabhAvaH-ca-dvitiiyam-asamavAyikAraNam: Difference between revisions

Added image
(Added text)
(Added image)
Line 57:
 
<big>अत्र कार्यकारणयोः अधिकरणं समानम्‌ इति साक्षात्‌ न दृश्यते | तदर्थं परम्परया वक्तव्यं भवति एव | किमर्थं वक्तव्यम्‌ इति चेत्‌ कार्यकारणभावः अस्ति इति अस्माकम्‌ अनुभवः | घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम्‌, इत्ययं कार्यकारणभावः आनुभविकः | अस्माभिः सर्वैः अनुभूयते इति करणतः कथञ्चित्‌ कार्यकारणभावः साधनीयः |</big>
 
[[File:द्वितीयसमवायिकारणवर्णानम्.jpg|450x450px]]
 
<big>यत्र कार्यकारणभावः अस्ति किन्तु सामानाधिकरण्यं साक्षात्‌ नास्ति, तत्र परम्परया वक्तव्यं भवति, अन्यः न कोऽपि उपायः | यत्र कार्यं जायते तत्रैव कारणेन भाव्यम्‌ | अत्र कार्यम्‌ अस्ति, अन्यत्र कारणम्‌ उत्पद्यताम्‌ इति तु कथमपि न भवति |</big>
teachers
746

edits