10---nyAyashAstram/17---kAryakAraNabhAvaH-ca-dvitiiyam-asamavAyikAraNam: Difference between revisions
10---nyAyashAstram/17---kAryakAraNabhAvaH-ca-dvitiiyam-asamavAyikAraNam (view source)
Revision as of 22:27, 24 May 2021
, 2 years agospacing fixed
(Added spacing) |
(spacing fixed) |
||
Line 54:
<big><u>प्रथमविधम्</u> : घटः - कपालसंयोगः</big>
<big>घटस्य असमवायिकारणं कपालसंयोगः | अधिकरणं कपालः | घटः कपाले, कपालसंयोगः कपाले |</big>
Line 62 ⟶ 63:
<big>अभ्यासः— पटः-तन्तुसंयोगः | हस्तपुस्तकसंयोगः-हस्तगता (हस्ते विद्यमाना) क्रिया |</big>
<big>आहत्य यत्र घटः समवायेन जायते, कपाले, तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति | घटं प्रति कपालद्वयसंयोगः असमवायिकारणम् | अत्र कपालान्तर्भावेन कार्यकारणयोः सामानाधिकारण्यम् | एवम् ''उभयमेकस्मिन् अधिकरणे'' इति प्रथमम् असमवायिकारणम् | '''कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्''' |</big>
Line 84 ⟶ 87:
<big>प्रथमं कपालः कार्यकारणयोः अधिकरणम् इति स्वीकुर्मः | अस्यां दशायां घटपरिमाणस्य साक्षात् सम्बन्धः अधिकरणे नास्ति | अतः घटपरिमाणस्य परम्परा-सम्बन्धः वक्तव्यः कपाले | स्वम् इति घटपरिमाणम् | (स्व-शब्दः कुत्र प्रयोक्तव्यः ? यत्र साक्षात् सम्बन्धः नास्ति, यत्र परम्परया एव सम्बन्धः शक्यः, तत्र स्व-शब्दस्य आवश्यकता भवति |) स्वस्य साक्षात् अधिकरणं घटः | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः घटपरिमाणस्य '''समवायी''' घटः |</big>
<big>समवायी | समवायसम्बन्धः द्वयोर्मध्ये भवति चेत्, एकः आश्रितः भवति, अन्यः आश्रयः भवति | परिमाणं घटे इति स्वीकरोतु | समवायसम्बन्धेन परिमाणं घटे | आश्रयः घटः, आश्रितं परिमाणम् | अत्र परिमाण'''समवायी''' भवति घटः— इत्युक्ते समवायसम्बन्धेन तत् परिमाणम् अस्मिन् घटे अस्ति | समवायसम्बन्धेन यस्मिन् अस्ति, सः समवायी— नकारान्तशब्दः, इनि प्रत्ययः | '''समवायः''' अस्मिन् अस्ति इति '''समवायी''', इति व्युत्पत्तिः | परिमाणसमवायः घटे अस्ति, इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति | अत्र परिमाणसमवायः इत्युक्ते '''परिमाणस्य''' समवायः | '''परिमाणस्य''' समवायः घटे |</big>
<big>तर्हि घटपरिमाणस्य '''समवायी''' घटः | घटः पुनः कुत्र अस्ति इति चेत्, कपाले | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः घटस्य '''समवायी''' कपालः | अनेन स्वसमवायी घटः, घटसमवायी कपालः | आहत्य स्वसमवायिसमवायी कपालः | स्वसमवायिसमवायित्वं कपाले | घटपरिमाणं स्वसमवायिसमवायित्व-सम्बन्धेन कपाले | इति परम्परा-सम्बन्धः | अपि च कपालपरिमाणं कुत्र अस्ति ? साक्षात् कपाले | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः '''स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्''' | इत्येव कार्यकारणभावः सिद्धः |</big>
<big>धेयं यत् स्वसमवायी अपि च स्वाश्रयः इत्यत्र समानार्थकशब्दौ | अतः स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्, इत्यपि समीचीनम् | समवायी, आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोऽपि सामान्यं, समवायी इतोऽपि विशिष्टं, तावान् एव भेदः | किन्तु अत्र द्वयोः उपयोगः शक्यः | स्वाश्रयः, स्वसमवायी |</big>
Line 107 ⟶ 114:
<big><u>द्वितीयविधम् असमवायिकारणम् </u>: घटपरिमाणम् - कपालपरिमाणम्</big>
<big>स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति, समवायसम्बन्धेन कपालपरिमाणं कारणम् |</big>
Line 122 ⟶ 130:
<big><u>परम्परासम्बन्धः एकमुखेन स्वीकरणीयः</u></big>
<big>पुस्तकं हस्ते अस्ति, संयोगसम्बन्धेन | अत्र संयोगसम्बन्धः हस्ते अपि, पुस्तके अपि | तदर्थं संयोगः द्विनिष्ठः इति उच्यते |</big>
Line 141 ⟶ 151:
<big>प्रकृतौ च स्वसमवायिसमवायित्वं कपाले एव | अतः परम्परासम्बन्धः यत्र भवति, तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति | अत्र सम्बन्धः द्विनिष्ठः नास्ति | स्वसमवेतसमवेतत्वं परिमाणे न तु कपाले; स्वसमवायिसमवायित्वं कपाले न तु परिमाणे |</big>
<big>Swarup – October 2016</big>
|