10---nyAyashAstram/22---saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH

Revision as of 05:59, 11 May 2021 by Ramapriya (talk | contribs) (Added text and audio link)

10---nyAyashAstram/22---saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH


ध्वनिमुद्रणानि -

१) saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH_2017-06-03


'संयोगनाशको गुणो विभागः | संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते | पूर्वदेशसंयोगस्य नाशकश्च भवति |'


तत्र च केचन वदन्ति यत्‌ संयोगनाशात्‌ विभागः नातिरिक्तः | इत्युक्तौ संयोगनाशः विभागश्च तौ अभिन्नौ इत्यस्मात्‌ विभागः अतिरिक्तगुणो नास्ति |


तत्र सामान्योत्तरमिदम्— 'यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम्‌ अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिद्ध्यत्येव' |


तर्हि अत्र प्रश्नः अस्ति, किमर्थं 'घटपटयोः विभागः' इत्यर्थं केवलं 'घटपटसंयोगस्य नाशः' इत्येव पर्याप्तं न स्यात्‌ ? तत्र उत्तरं दीयते, 'घटपटयोः संयोगः नष्टः' इति प्रतीतिस्तु अस्ति एव | अनेन घटपटयोः मध्ये विद्यमानस्य संयोगस्य नाशः सिद्धः | इत्युक्ते संयोगनाशः इति पदार्थः तु अस्ति |

अत्र तर्कः कः ? पूर्वमपि दृष्टम्‌ | 'घटपटयोः संयोगः नष्टः' इति प्रतीत्या संयोगनाशः विषयीक्रियते | 'घटपटयोः संयोगः नष्टः' इति ज्ञानम्‌ अनुभवसिद्धम्‌; तस्मात्‌ विषयीभूत-संयोगनाशः सिध्यति | किमर्थम्‌ इति चेत्‌, कार्यम्‌ अस्ति चेत्‌, तस्य कारणं भवेत् | ज्ञानं प्रति विषयः कारणम्‌ | ज्ञानम्‌ इति एकं कार्यं; तच्च ज्ञानरूपकार्यम्‌ अस्ति चेत्‌, तस्य कारणीभूतविषयः अपि स्यात्‌ | अत्र स च विषयः संयोगनाशः |


विषयीभूत-संयोगनाशः कीदृशं कारणम्‌ ? तदपि उक्तं पूर्वम्‌ | ज्ञानं, बुद्धिः इति गुणः कुत्र भवति ? आत्मनि | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः ज्ञानस्य समवायिकारणं भवति आत्मा | असमवायिकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः | असमवायिकारणं भवति कश्चन गुणः काचन क्रिया वा समवायिकारणे | तर्हि विषयः ज्ञानस्य कारणम्‌ इति उक्ते सति तच्च कारणं कीदृशम्‌ ? समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति; यत्‌ कारणं न समवायिकारणं न वा असमवायिकारणं, तत्‌ निमित्तकारणमिति | अतः विषयः ज्ञानस्य निमित्तकारणम्‌ | अनेन संयोगनाशः इति प्रध्वंसाभावः 'घटपटयोः संयोगः नष्टः' इति ज्ञानस्य कारणाम्‌ | 'घटपटयोः संयोगः नष्टः' इति ज्ञानम्‌ अनुभवसिद्धं; तस्मात्‌ संयोगनाशः इति प्रध्वंसाभावः सिध्यति |


किन्तु 'घटपटौ विभक्तौ' इत्यपि काचित्‌ प्रतीतिः अस्ति किल | यदा घटे विद्यमानक्रियया घटः पटात्‌ किञ्चित्‌ दूरं भवति, देशान्तरं भवति, तदानीं काचित्‌ प्रतीतिः भवति | 'घटपटौ विभक्तौ' इति प्रतीतिः भवति | अत्र 'विभक्तौ' इति कथनेन अभावपदार्थः कोऽपि न विषयीक्रियते, अपि तु कश्चन भावपदार्थः एव विषयीक्रियते | स च भावपदार्थः कः इति चेत्‌, विभागः इति कश्चन गुणः अङ्गीकर्तव्यः भवति |


स च विभागनामकगुणः किमर्थम्‌ अङ्गीकर्तव्यः ? 'घटपटयोः संयोगः नष्टः' इति ज्ञानं यथा अनुभवसिद्धं, तथैव 'घटपटौ विभक्तौ' इति ज्ञानम्‌ अनुभवसिद्धम्‌ | तच्च ज्ञानम्‌ एकं कार्यम्‌ | कार्यम्‌ अस्ति चेत्‌ तस्य कारणं भवेत्‌ | कारणं किम्‌ ? तस्य विषयः एव कारण्म्‌ | विषयः कः ? विभागः | अनेन कार्यकारणभावेन कार्यम्‌ अनुभवसिद्धं चेत्‌, अनेन कारणं सिद्धं भवति |


अस्तु किन्तु यद्यपि संयोगनाशः इति विषयः, विभागः इति विषयः, द्वौ अपि विषयौ सिद्धौ, तथापि इमौ द्वौ विषयौ भिन्नौ इति कथं सिध्यति ? 'घटपटयोः संयोगः नष्टः' इति प्रतीत्या संयोगनाशः इति अभावपदार्थः विषयीक्रियते, किन्तु 'घटपटौ विभक्तौ' इति प्रतीत्या कश्चन भावपदार्थः विषयीक्रियते न तु कश्चन अभावपदार्थः | स च भावपदार्थः विभागाख्यः गुणः | भावपदार्थः अभावपदार्थश्च समानौ न भवितुम्‌ अर्हतः इति वार्ता | तदर्थं संयोगनाशः इति विषयः, विभागः इति विषयात्‌ भिन्नः |


अभावपदार्थः कथम्‌ अभिज्ञायते इति चेत्‌, अभावपदार्थः साकाङ्क्षशब्दः; अभावपदार्थस्य कथनेन प्रतियोगिनः आकाङ्क्षा जायते | 'अभावः' इत्यस्य कथनेन 'कस्य' इति प्रश्नः उदेति | यावत्‌ न उच्यते कस्य अभावः अस्ति, तावत्‌ अर्थपूर्तिः न भवति | किन्तु भावपदार्थः अस्ति चेत्‌, प्रतियोगिनः आकाङ्क्षा न जायते |


'विभक्तौ' इति ज्ञानेन न कोऽपि अभावः उच्यते | नष्टः इति शब्देन अभावः उच्यते, नास्ति इति शब्देन अभावः उच्यते, न इति शब्देन अभावः उच्यते (अन्योन्याभावः), किन्तु 'विभक्तौ' इति शब्देन अभावः न उच्यते | विभक्तौ इति शब्देन उच्यमानः अर्थः कोऽपि अभावः नास्ति |


आहत्य अत्र 'घटपटयोः संयोगः नष्टः' इति सर्वजनसिद्धं ज्ञानम्‌ एकं कार्यं, तस्य च निमित्तकारणं भवति संयोगनाशः इति प्रध्वंसाभावः | 'घटपटौ विभक्तौ' इति सर्वजनसिद्धं ज्ञानम्‌ अपि कार्यं, तस्य च निमित्तकारणं भवति विभागः इति गुणः | संयोगाभावः इति वक्तव्यं चेत्‌ 'संयोगनष्टः' इति प्रतीतिर्भवति; किन्तु संयोगनष्टः इति प्रतीतिं विहाय, 'घटपटौ विभक्तौ' इति भिन्नप्रतीतिः भवति | तया भिन्नप्रतीत्या, अन्यः एव कश्चन पदार्थः प्रतिपाद्यते | ततः अग्रे च संयोगनाश-विभागयोः कार्यकारणभावः अस्ति; संयोगनाशं प्रति विभागः कारणम्‌— अयं किन्तु प्रवर्तमानतर्कस्य भागो नास्ति |


ये आक्षेपं कुर्वन्तः वदन्ति यत्‌ विभागः अतिरिक्तः गुणः नास्ति, तेषाम्‌ आशयः एवं यत्‌ संयोगनाशः विभागश्च समानः | यतोहि संयोगः नष्टः इति यत् ज्ञानं, घटपटौ विभक्तौ इति यत्‌ ज्ञानं, लोके तयोर्मध्ये कोऽपि भेदः नास्ति यतोहि तादृशः अनुभवः नास्ति अस्माकम्‌ | लोके संयोगनाशः, पुनः विभागः, अनयोः अनुभवः भिन्नः इति तु नास्ति | तदर्थं कैश्चित्‌ उच्यते यत्‌ तयोः विषयः समानः एव | एकमेव विषयं बहुभिः शब्दैः वक्तुं शक्नुमः | अग्रे च तस्य इतो‍ऽपि विस्तृतरूपेण पुनः परिहारो भवति |


Swarup – June 2017

- - - - - - - - - - - - -

अस्मिन्‌ विषये अत्र रक्षा-भगिन्याः उपस्थापनम्‌--

संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारः |

संयोगनाशको गुणो विभागः इति विभागस्य निरूपणप्रसङ्गे एकः आक्षेपः उल्लिखितः | आक्षेपः अयं, "संयोगनाशात् विभागः नातिरिक्तः" | नाम संयोगनाशः विभागः च समानौ इति आक्षेपः | आक्षेपस्य निवारणं कथं क्रियते इत्यस्य विषये उपस्थापनम् |


तस्मात् प्राक् केषाञ्चन पारिभाषिकाणाम् अंशानां पुनरवलोकनम् |

ज्ञानम्

ज्ञानम् इति सविषयकपदार्थः | यत्र ज्ञानम् उदेति तत्र प्रत्येकं ज्ञानस्य विलक्षणः विषयः भवति एव | ज्ञानम् इति कार्यं; ज्ञानस्य निमित्तकारणत्वेन विषयः भवति अथवा विषयाः भवन्ति |

अभावः

"इदं नास्ति" अथवा "इदं तत् न" इति सूच्यमानः पदार्थः अभावः | अस्य चत्वारः प्रकाराः -- प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः |


यत्र कस्यचित् पदार्थस्य अभावः भवति तत्र कस्य अभावः इत्यस्य विचारः क्रियते अभावस्य स्वरूपं ज्ञातुम् | अभावः इति साकाङ्क्षः पदार्थः | अभावः कीदृशः इत्यस्य बोधनार्थं प्रतियोगी कः, प्रतियोगिता कीदृशी इति सर्वं ज्ञातव्यं स्यात् |अतः अभावः प्रतियोगिताज्ञानाधीनज्ञानविषयः इत्युच्यते |


उदाहरणत्वेन एकः घटः अस्ति इति चिन्त्यताम् | घटस्य उपरि बृहद्शिलाखण्डस्य पातनेन घटः नष्टः | घटस्य प्रध्वंसाभावः च सृष्टः | अस्य अभावस्य प्रतियोगी घटः |


अयम् अभावः घटत्वावच्छिन्नप्रतियोगिताकः | अस्य अभावस्य जिज्ञासायां प्रतियोगिनः च प्रतियोगीतायाः आकाङ्क्षा स्पष्टं प्रतिभाति इत्यतः अभावस्य प्रतियोगिताज्ञानाधीनज्ञानविषयत्वम् |

भावपदार्थः

कस्यचित् पदार्थस्य अस्तित्वस्य सूचकः अयं पदार्थः | अभावं विहायः द्रव्यगुणकर्मादयः सर्वे पदार्थाः भावपदार्थाः | अस्य बोधनार्थं अभाववत् प्रतियोगिनः वा प्रतियोगितायाः पूर्वज्ञानं न अपेक्षते |


अभावः प्रतियोगिसाकाङ्क्षः पदार्थः | भावपदार्थः प्रतियोगिनिराकाङ्क्षः | अयमेव भावाभावयोः पदार्थयोः मध्ये विद्यमानः भेदः |

अधुना मूलविषयः -- संयोगनाशात् विभागः नातिरिक्तः इत्यस्य आक्षेपस्य परिहारः |

क्षणपञ्चकव्यापिन्यां संयोगप्रक्रियायां क्रिया, विभागः, संयोगस्य नाशः, इत्यादीनि कार्याणि जायन्ते | प्रक्रियामिमां घटपटयोः संयोगस्य उदाहरणं स्वीकृत्य परिशीलयामः | अस्यां प्रक्रियायां क्रियोत्पत्त्युत्तरक्षणे "घटपटौ विभक्तौ", "घटपटयोः संयोगः नष्टः" इति कार्यद्वयमपि सिध्यति | "घटपटौ विभक्तौ" इति एका प्रतीतिः | "घटपटयोः संयोगः नष्टः" इति अपरा प्रतीतिः | इमे द्वेपि प्रतीती किं सामाने स्तः इति प्रश्ने उदिते सति समाधानम् अग्रे उपस्थाप्यते |


"घटपटयोः संयोगः नष्टः" इत्यस्य आनुभविकस्य ज्ञानस्य विषयः अस्ति संयोगनाशः | ज्ञानं कार्यम् अस्ति चेत् तस्य निमित्तकारणत्वेन न्यूनातिन्यूनम् एकः विषयः स्यात् | संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयः संयोगनाशः | संयोगनाशः अस्य ज्ञानस्य निमित्तकारणम् | अयं संयोगनाशः इति कारणीभूतविषयः पूर्वचर्चितः प्रध्वंसाभावः | क्रियया यदा संयोगः नष्टः भवति तदा संयोगस्य प्रध्वंसाभावः उदेति | अयमेव संयोगनाशः | अतः संयोगनाशः इति अभावपदार्थः | अभावः सन् प्रतियोगिताज्ञानाधीनज्ञानविषयः अस्ति |संयोगनाशः कीदृशः इति प्रश्ने कृते संयोगत्वावच्छिन्नप्रतियोगिताकः अभावः इति उत्तरं लभ्येत | अनेन "घटपटयोः संयोगः नष्टः" इत्येन ज्ञानेन अभावपदार्थः विषयीक्रियते इति प्रतीयते |


"घटपटौ विभक्तौ" इत्यपि क्रियोत्पत्त्यनन्तरं जायमानम् अनुभवसिद्धं ज्ञानम् |अस्य ज्ञानस्य निमित्तकारणत्वेन स्थितः विषयः विभागः | विभागः गुणरूपः भावपदार्थः | अस्य बोधनार्थं संयोगरूपिप्रतियोगिनः आवश्यकता नास्ति | अतः "घटपटौ विभक्तौ" इत्यनेन ज्ञानेन विभागनामकः भावपदार्थः विषयीक्रियते इति प्रतीयते |

उभयोः ज्ञानयोः विषययोः परिशीलनेन किं सिध्यति ? "घटपटौ विभक्तौ" च "घटपटयोः संयोगः नष्टः" इति द्वौ भिन्नौ सविषयकौ पदार्थौ अनुभवसिद्धौ भवतः | उभाभ्यां विषयीक्रियमाणौ पदार्थौ परस्परं भिन्नौ इत्यतः संयोगनाशः च विभागः एकः पदार्थः एव इति वक्तुं न शक्यते | संयोगः प्रध्वंसाभारूपः | विभागः भावपदार्थः, अन्यतमः गुणः |

इदमेव उपर्युक्तं समाधानं विद्याधरी-ग्रन्थे प्रकटीकृतं संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारार्थम् |


" यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिध्यत्येव इति | " इति विद्याधरी-वाक्यम् |


वाक्यस्य प्रथमभागे, "यथा... संयोगनाशः सिध्यति " इत्यस्मिन् भागे संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयत्वेन संयोगनाशः वा संयोगध्वंसः इति अभावपदार्थस्य उल्लेखः क्रियते |


वाक्यस्य द्वितीयभागे, "तथैव... सिध्यत्येव इति " इत्यस्मिन् भागे घटपटौ विभक्तौ इत्यनेन भावपदार्थं विभागं विषयीक्रियमाणेन ज्ञानेन विभागः संयोगध्वंसात् अतिरिक्तः कश्चन गुणः इति साधयिष्यते |


रक्षा - June 2017

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].