10---nyAyashAstram/23---anumAnapramANam---vibhAgaH-atiriktaH-guNAH: Difference between revisions

no edit summary
(added link pdf)
No edit summary
 
(10 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 23 - अनुमानप्रमाणं— विभागः अतिरिक्तः गुणः}}
 
{| class="wikitable mw-collapsible mw-collapsed"
 
!'''<big>ध्वनिमुद्रणानि -</big>'''
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/93_anumAnapramANam---vibhAgaH-atiriktaH-guNAH_2017-06-24.mp3 १) anumAnapramANam---vibhAgaH-atiriktaH-guNAH_2017-06-24]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/94_anumAnapramANam---anvaya-vyAptiH__pakSha-bhinna-adhikaraNe-hetuH_2017-07-01.mp3 २) anumAnapramANam---anvaya-vyAptiH_+_pakSha-bhinna-adhikaraNe-hetuH_2017-07-01]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/95_vyatirekavyAptiH__anvayavyAptiH__svArthAnumAnam_2017-07-08.mp3 ३) vyatirekavyAptiH_+_anvayavyAptiH_+_svArthAnumAnam_2017-07-08]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/96_parArthAnumAnasya-pancAvayavAH__anvayavyApti-lakShaNam_2017-07-15.mp3 ४) parArthAnumAnasya-pancAvayavAH_+_anvayavyApti-lakShaNam_2017-07-15]  </big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/97_trINi-vyApti-vAkyAni__vyatirekavyApti-sthale-anumAnasya-pancAvayavAH_2017-07-22.mp3 ५) trINi-vyApti-vAkyAni_+_vyatirekavyApti-sthale-anumAnasya-pancAvayavAH_2017-07-22]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/98_vyatirekavyApti-lakShaNena-anumAna-prayogaH_2017-07-29.mp3 ६) vyatirekavyApti-lakShaNena-anumAna-prayogaH_2017-07-29]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/99_vyatirekavyApti-sthale-anumAnasya-pancAvayavAH---vahniH-uShNaH-vahnitvAt_2017-08-05.mp3 ७) vyatirekavyApti-sthale-anumAnasya-pancAvayavAH---vahniH-uShNaH-vahnitvAt_2017-08-05]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/101_anvayavyAptisthale-ekadesha-dRuShTAntaH---pakSatAvacChedakAvacChedena-sAdhyam_2017-08-19.mp3 ८) anvayavyAptisthale-ekadesha-dRuShTAntaH---pakSatAvacChedakAvacChedena-sAdhyam_2017-08-19]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/102_pakSatAvacChedakasAmAnAdhikaraNyena-sAdhyam__anvayavyAptisthale-ekadesha-dRuShTAntaH_2017-08-26.mp3 ९) pakSatAvacChedakasAmAnAdhikaraNyena-sAdhyam_+_anvayavyAptisthale-ekadesha-dRuShTAntaH_2017-08-26]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/103_anvayadRuShTAntaH-sAmAnyapakaShasya-ekadeshaH---PAA-sthale-bhavati_PAS-sthale-na-bhavati_2017-09-02.mp3 १०) anvayadRuShTAntaH-sAmAnyapakaShasya-ekadeshaH---PAA-sthale-bhavati_PAS-sthale-na-bhavati_2017-09-02]  </big>
|}
 
 
Line 29 ⟶ 31:
 
<big>"आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌ |”</big>
 
 
 
Line 35 ⟶ 38:
 
<big>व्यस्तप्रयोगे आश्रयनाशेन अजन्यगुणनाशः, आश्रयनाशात्‌ अजन्यगुणनाशः— द्वयमपि साधु | किन्तु समासप्रसङ्गे यतोहि हेतुतृतीयतत्पुरुषः न भवति, हेतुपञ्चमीतत्पुरुषसमासश्च भवति, अतः अत्र हेतुपञ्चमीतत्पुरुषसमासः, विग्रहवाक्यञ्च आश्रयनाशात्‌ अजन्यगुणनाशः | कारणविवक्षायां या तृतीया भवति, तया तृतीयया तत्पुरुषसमासो न भवति; व्यस्तप्रयोगे किन्तु भवति अवश्यम्‌ |</big>
 
 
 
Line 41 ⟶ 45:
 
<big>यथा घटे श्यामरूपम्‌ अस्ति; तेजःसंयोगेन तस्य नाशः भवति इति चेत्‌ तेजःसंयोगः च श्यामरूपनाशः च, इमौ द्वौ समानाधिकरणौ | तेजःसंयोगेन घटे विद्यमानश्यामरूपस्य नाशः जायते, अतः श्यामरूपनाशः समानाधिकरणगुणजन्यः | अत्र 'समानाधिकरणगुणजन्यः' इत्युक्तौ श्यामरूपनाशसमानाधिकरणगुणजन्यः | कथं ज्ञायते ? वाक्यं दृष्ट्वा— 'आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः'— नाम आश्रयनाशाजन्यगुणनाश-समानाधिकरणगुणः, तेन जन्यः | तेन कः जन्यः ? आश्रयनाशाजन्यगुणनाशः |</big>
 
 
 
Line 47 ⟶ 52:
 
<big>प्रकृते "आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌” इति अनुमानस्य स्वरूपम्‌ | अनुमानवाक्यस्य च चत्वारः भागाः— पक्षः, साध्यं, हेतुः, दृष्टान्तः |</big>
 
 
 
Line 53 ⟶ 59:
 
<big>तर्हि पर्वतरूपिपक्षे वह्निं साधयामः | यत्‌ साधयामः तत्‌ साध्यम्‌, अतः अत्र वह्निः साध्यः | धूमः कारणं, महानसं दृष्टान्तः | पक्षः, साध्यं, हेतुः, दृष्टान्तः इति चत्वारः भागाः अनुमानप्रयोगे |</big>
 
 
 
Line 59 ⟶ 66:
 
<big>वस्तुतः समानाधिकरणगुणजन्यत्वं साध्यम्‌ इति वक्तव्यम् | समानाधिकरणगुणजन्यः संयोगनाशः इति उद्देश्यविधेयभावं साधयितुम्‌ इच्छामः; इत्युक्तौ समानाधिकरणगुणजन्यत्वं संयोगनाशे | समानाधिकरणगुणजन्यत्वम्‌ इति साध्यम्‌, आश्रयनाशाजन्यगुणनाशः इति पक्षः | तस्मिन् च पक्षे साध्यम्‌ अस्ति इति साधयितुम्‌ इच्छामः | आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं साधयामः | पर्वते वह्निं साधयामः इति यथा, तथैव आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम्‌ | नाम संयोगनाशे विभागजन्यत्वम्‌ | विभागेन जन्यत्वम्‌ अस्ति संयोगनाशे | इति कृत्वा समानाधिकरणगुणजन्यत्वं साध्यम्‌ |</big>
 
 
 
Line 65 ⟶ 73:
 
<big>'पर्वतः वह्निमान्‌ धूमात्‌' इति स्थले 'यत्र यत्र धूमः तत्र तत्र वह्निः' इति उच्यते | एतादृश-हेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति 'अन्वयव्याप्तिः'— यत्र यत्र हेतुः, तत्र तत्र साध्यम्‌ इति | 'यत्र यत्र' इत्यस्य अनन्तरं यः पदार्थो भवति, सः व्याप्यः | 'तत्र तत्र' इत्यस्य अनन्तरं यः पदार्थो भवति, सः व्यापकः | व्यापकव्याप्ययोः कः अर्थः इति चेत्‌, विश्वे व्यापकस्य क्षेत्रं बृहत्‌ भवति व्याप्यस्य अपेक्षया | व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं, व्यापकक्षेत्रापेक्षया लघु च | तर्हि हेतुः व्याप्यः, साध्यं व्यापकम्‌ | यथा धूमः, वह्निः | वह्निः भवति चेत्‌ धूमः भवेदेव इति तु नास्ति; कुत्रचित्‌ यत्र वह्निरस्ति, धूमः न भवति | वहिः अस्ति, धूमः नास्ति— एतादृशी स्थितिः भवति | किन्तु धूमः भवति चेत्‌, तस्य अर्थः एवं यत् वह्निः अस्त्येव | यतोहि द्वयोः कार्यकारणभावः अस्ति | अग्निः कारणं, धूमः कार्यं; वह्निना धूमः उत्पद्यते | अतः धूमः अस्ति चेत्‌, वह्निः अवश्यम्‌ अस्ति; किन्तु वह्निः अस्ति चेत्‌ धूमः भवितुम्‌ अर्हति, नापि भवितुम्‌ अर्हति | तदर्थम्‌ अत्र न केवलं कार्यकारणभावः, अपि तु व्याप्यव्यापकभावः अपि | अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः; कार्यकारणभावः कुत्रचित्‌ भवति कुत्रचित्‌ न भवति | किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणं, नाम अनुमितिः, सिध्यति |</big>
 
 
 
Line 71 ⟶ 80:
 
<big>तर्हि वह्नित्वं हेतुः, उष्णत्वं साध्यम्‌ | वह्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्‌ | व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं, व्यापकक्षेत्रापेक्षया लघु च | एतदाधारेण 'यत्र यत्र वह्नित्वं, तत्र तत्र उष्णत्वम्‌' इत्यपि स्यात्‌ | किन्तु यथोक्तम्‌ उपरि, अत्र एकं वैचित्र्यं वर्तते | तस्य वैचित्र्यस्य कारणं किम्‌ ? हेतुः पक्षे एव वर्तते; वह्निम्‌ अतिरिच्य वह्नित्वं न कुत्रापि लभ्यते | तर्हि कथं वा 'यत्र यत्र वह्नित्वं, तत्र तत्र उष्णत्वम्‌' ? तदानीं किल 'यत्र यत्र' वक्तुं शक्यते यदा विभिन्नस्थलेषु तच्च वस्तु लभ्येत | किन्तु एकः पदार्थः वह्नित्वं नाम्ना पक्षे एव लभ्यते चेत्‌ 'यत्र यत्र' इति कथम्‌ उच्येत ? अनुमानप्रयोगे तस्य दृष्टान्तः च कथं वा स्यात्‌ ?</big>
 
 
 
Line 77 ⟶ 87:
 
<big>किन्तु हेतुः केवलं पक्षे प्राप्यते इति चेत्‌, हेतुसाध्ययोः अन्वयव्याप्तिं वक्तुं न शक्यते | वह्निः उष्णः वह्नित्वात्‌ | वह्नित्वं केवलं वह्नौ; अन्यत्र न लभ्यते | तदर्थं दृष्टान्तः अन्वयदृष्टान्तः न भवति | दृष्टान्तः भवति, किन्तु सः भिन्नप्रकारकः— व्यतिरेकदृष्टान्तः भवति | 'वह्निः उष्णः वह्नित्वात्‌ यन्नैवं तन्नैवं यथा जलम्‌' इति अनुमानप्रयोगो भवति | 'यत्‌ न एवं तत्‌ न एवं, यथा जलम्‌' इति व्यतिरेकदृष्टान्तः एव सम्भवति |</big>
 
 
 
Line 83 ⟶ 94:
 
<big>दृष्टान्ते हेतुः नास्ति अतः साध्यं नस्ति, तदाधारेण पक्षे हेतुः अस्ति अतः सध्यम्‌ अपि अस्ति— इति कार्यं न करोति | नो चेत्‌ वायौ अपि उष्णत्वं भवेत्‌ | अतः 'यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति' इत्यस्य आधारेण 'यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति' इति न भवति | दोषपूर्णचिन्तनमिदम्‌ | वस्तुतः 'यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति' इति वक्तुमेव न शक्यते | 'यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति' इति भवति किम्‌ ?</big>
 
 
 
Line 103 ⟶ 115:
 
<big>४. व्यतिरेकव्यभिचारः</big>
 
 
<big>कारणं नास्ति, कार्यमस्ति [मङ्गलं, नास्तिकग्रन्थेषु यथा चार्वाकः]</big>
Line 109 ⟶ 120:
 
<big>तर्हि अत्र 'वह्निः उष्णः वह्नित्वात्‌ यन्नैवं तन्नैवं यथा जलम्‌' इति स्थले, द्वितीयविधव्याप्तिः अपेक्षितः | अत्र 'यत्र यत्र हेतुः तत्र तत्र साध्यम्‌' इति कार्यं न करोति इति बुद्धं यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते | अपि च यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति' इत्यपि कार्यं न करोति इति दृष्टम्‌ | 'यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति' इति कार्यं करोति वा ?</big>
 
 
 
Line 115 ⟶ 127:
 
<big>अधुना अन्वयव्याप्तिप्रसङ्गे किञ्चित्‌ परिचयत्वेन कथ्यते | अनुमानं द्विविधं— स्वार्थानुमानं परार्थानुमानं च | स्वार्थानुमानस्थले कश्चन रामः स्वयं पर्वतं पश्यति; पर्वते च पश्यति यत्‌ धूमः अस्ति | अनेन चत्वारि ज्ञानानि आत्मनि क्रमेण उत्पद्यन्ते—</big>
 
 
 
Line 126 ⟶ 139:
 
<big>४) अनुमितिः = साध्यवान्‌ पक्षः</big>
 
 
 
<big>१) पर्वते धूमः अस्ति</big>
Line 137 ⟶ 152:
 
<big>प्रथमतया पक्षधर्मता ज्ञानम्‌ | धर्मता-शब्देन हेतोः पक्षवृत्तित्वम्‌ इत्यर्थः | धूमस्य वृत्तित्वं पर्वते इति ज्ञानम्‌ | रामः पर्वते धूमं पश्यति, अनेन च जानाति यत्‌ 'अयं पर्वतः धूमवान्‌' | पक्षधर्मता ज्ञानम्‌ | तदा स्मरणात्मकं ज्ञानम्‌ आत्मनि उत्पद्यते— यत्र यत्र धूमः भवति, तत्र तत्र वह्निः भवति इति ज्ञानम्‌ | इदं 'व्याप्तिज्ञानम्‌' इत्युच्यते | पूर्वं जातस्य अनुभवस्य संस्कारवशात्‌— धूमदर्शनं संस्कारम्‌ उद्बोधयति— तेन उद्बुद्धसंस्कारेण व्याप्तेः स्मरणं जन्यते | धूमदर्शनं उद्बोधकं, तेन संस्कारः उद्बुद्धः, तस्मात्‌ व्याप्तिविषयकं स्मरणं जायते | तर्हि प्रथमं पक्षधर्मता ज्ञानं; तदा द्वितीयं ज्ञानं व्याप्तिज्ञानम्‌ |</big>
 
 
 
Line 143 ⟶ 159:
 
<big>अत्र स्मारणार्थं 'वह्निव्याप्यधूमवान्‌' इति यदा उच्यते, व्यस्तप्रयोगे वह्निना व्याप्यः धूमवान् इति भवति | तत्र वि-उपसर्गपूर्वकः आप्‌-धातुः, लटि व्याप्नोति; आवरणं करोति इत्यर्थः | व्याप्यः/व्याप्या/व्याप्यम्‌ इति कर्मण्यर्थकं विशेषणं ण्यत्‌-प्रत्ययान्तम्‌ | पेयं, खाद्यं, कार्यं, वाक्यं, व्याप्यम्‌ इतीमानि पदानि ण्यत्‌-प्रत्ययान्तानि | व्याप्यः इत्यस्य विपरीतार्थाकं पदं ण्वुल्‌-प्रत्ययान्तं व्यापकम्‌ | यः व्याप्नोति सः व्यापकः, यं व्याप्नोति, सः व्याप्यः |</big>
 
 
 
Line 157 ⟶ 174:
 
<big>५) तस्मात्‌ तथा</big>
 
 
 
<big>१) प्रतिज्ञावाक्यम्‌ = पर्वतो वह्निमान्‌</big>
Line 170 ⟶ 189:
 
<big>अयं क्रमः वार्तालापरूपेण जायते इति चिन्त्यताम्‌ | रामः 'पर्वतो वह्निमान्‌' इति वदति | श्यामस्य मनसि आकाङ्क्षा भवति— 'कुतः वह्निमान्‌ इति अङ्गीकर्तव्यम्‌ ?' इति पृच्छति सः | तदा आकाङ्क्षा-निवृत्त्यर्थं रामः उत्तरयति 'धूमवत्त्वात्' इति | श्यामः पुनः पृच्छति, 'धूमवत्त्वम्‌ अस्ति चेत्‌ कुतः वह्निः अङ्गीकर्तव्यः ?' तत्र रामः उत्तरं ददाति, 'यो यो धूमवान्‌ स स वह्निमान्‌ यथा महानसम्‌' इति व्याप्तिबोधकम्‌ उदाहरणवाक्यम्‌ | एवं च प्रश्नोत्तररूपेण भवति |</big>
 
 
 
Line 178 ⟶ 198:
 
<big>अतः परार्थानुमानेऽपि इमानि चत्वारि ज्ञानानि भवन्ति यानि स्वार्थानुमाने दृष्टानि | पक्षधर्मता ज्ञानं प्रत्यक्षात्मकमेव भवेत्‌ इति नास्ति | 'हेतुः पक्षे अस्ति' इति ज्ञानं पक्षधर्मता ज्ञानम्‌ | रामः पर्वते धूमं दृष्ट्वा प्रत्यक्षप्रमाणेन जानाति यत्‌ पर्वतः धूमवान्‌; श्यामः 'तथा च अयम्‌' इति श्रुत्वा जानाति यत्‌ पर्वतः धूमवान्‌— उभयत्र पक्षधर्मता ज्ञानम्‌ | रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते स्वार्थानुमानेन; श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यन्ते, किन्तु परार्थानुमानेन |</big>
 
 
 
Line 187 ⟶ 208:
 
<big>अग्रे व्यतिरेकव्याप्तिः कीदृशी, तदाधारेण पञ्चावयवाः कथं भवन्ति, ततः च अनुमितिः कथं जायते इति द्रष्टव्यम्‌ | अत्रैव अस्माकं प्रश्नः किल— 'यत्र यत्र साध्यं '''नास्ति''' तत्र तत्र हेतुः '''नास्ति'''<nowiki/>' इति व्याप्तिज्ञानस्य आधारेण, 'पक्षे हेतुः '''अस्ति''' चेत्‌ साध्यम्‌ अपि अवश्यम्‌ '''अस्ति'''<nowiki/>' इति कथं सिध्यति ? अन्वयव्याप्तिस्थले चिन्तनं यथा, तदपेक्षया व्यतिरेकव्याप्तिस्थले चिन्तनं किञ्चित्‌ अन्यादृशं भवति | सर्वप्रथमं कश्चन मूल-सिद्धान्तः बोध्यः | इदमेव बीजम्‌ अवगम्यते चेत्‌ समग्रबोधः इतोऽपि सुलभः—</big>
 
 
 
Line 202 ⟶ 224:
 
 
 
<center>[[File:व्यतिरेकव्याप्तिस्थले व्याप्यव्यापकभावः KP-23.jpg|500x500px]]</center>
 
 
 
Line 209 ⟶ 233:
 
<big>तत्र च सप्तसु पर्वतेषु धूमः + त्रयोदशसु पर्वतेषु धूमाभावः = विंशतिः पर्वताः | नाम एवं न कोऽपि पर्वतः अस्ति यस्मिन्‌ न धूमः अस्ति न वा धूमाभावः | सर्वेषु पर्वतेषु धूमः अथवा धूमाभावः; धूमः नास्ति चेत्‌ धूमाभावः, धूमाभावः नास्ति चेत्‌ धूमः | आहत्य विंशतिः पर्वताः; अधिकेषु धूमः अस्ति चेत्‌, न्यूनेषु धूमाभावः | एवमेव वह्निना वह्न्यभावेन च सह | तदर्थमेव यः व्यापकः अस्ति (अत्र वह्निः), तस्य अभावः व्याप्यस्य (अत्र धूमस्य) अभावस्य अपेक्षया व्याप्यः भवति | ७ (धूमः) + १३ (धूमाभावः) = २० (पर्वताः) = १५ (वह्निः) + ५ (वह्न्यभावः) |</big>
 
 
 
Line 214 ⟶ 239:
 
 
 
<center>[[File:VyApakah-vyApyah-bhAvah-abhAvaH.jpg|516x516px]]</center>
 
 
Line 236 ⟶ 262:
 
<big>अत्र वस्तुतः केवलं पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनम्‌ | नाम 'द्वितीयवाक्यम्‌' (अत्र उदाहरणवाक्यं) सत्यं किन्तु अत्र पक्षे '''तथा नास्ति'''' (अत्र उपनयवाक्यम्‌) | 'तथा नास्ति' इत्यस्य कथनेन तृतीयं वाक्यम्‌ 'अस्ति' (अत्र निगमनवाक्यम्‌) | अनेन च साध्यं सिध्यति |</big>
 
 
 
Line 242 ⟶ 269:
 
<big>उक्तं यत्‌ साध्याभावव्यापकीभूताभावप्रतियोगित्वम्‌ इति व्याप्तिः | साध्याभावं प्रति हेत्वभावः व्यापकः, तस्य च प्रतियोगी हेतुः | तस्मिन्‌ प्रतियोगिनि यत्‌ प्रतियोगित्वं, तदेव 'व्याप्तिः' भवति; एषा व्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः | अनेन साध्यस्य व्यतिरेकव्याप्तिः कुत्र आगता ? इयं व्याप्तिः हेतौ एव आगता | यया रीत्या अन्वयव्याप्तिस्थले 'तादृशं सामानाधिकरण्यम्‌' इति व्याप्तिः हेतौ, तया एव रीत्या व्यतिरेकस्थले 'तादृशं प्रतियोगित्वम्‌' इति व्याप्तिः हेतौ | उभयत्र साध्यं प्रति व्याप्यहेतुः इत्येव, परन्तु अत्र सा व्यतिरेकव्याप्तिः | व्याप्यः हेतुः एव; हेतुः व्याप्यः भवति चेत्‌, तस्य व्यापकं भवति साध्यम्‌ इति | व्याप्येन व्यापकः सिध्यति |</big>
 
 
 
Line 257 ⟶ 285:
 
<big>उपरि त्रिषु वाक्येषु द्वितीयवाक्यम्‌ उदाहरणवाक्यं; तृतीयवाक्यं भवति उपनयवाक्य-निगमनवाक्ययोः मेलनेन |</big>
 
 
 
Line 263 ⟶ 292:
 
<big>अन्वयदृष्टान्तः केषुचित्‌ स्थलेषु अप्रसिध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ उच्यते | तथा च अत्रापि हेतुः व्याप्यः जातः | व्याप्तिः व्यतिरेकव्याप्तिः परन्तु | तर्हि अत्र हेतुरेव व्याप्यः जातः, साध्यं प्रति | नाम साध्यनिरूपितव्याप्तिः हेतौ | का व्याप्तिः ? व्यतिरेकव्याप्तिः | तथा चा हेतुः व्याप्यः जातश्चेत्, तं प्रति व्यापकं भवति साध्यम्‌ | एवं च व्याप्यव्यापकभावः सिध्यति— व्याप्येन हेतुना साध्यं व्यापकं सिध्यति | तथा च साध्याभावव्यापकीभूताभावप्रतियोगी हेतुः, तादृशहेतुमान्‌ पक्षः | इत्यनेन परामर्शः जातः | साध्यव्याप्यहेतुमान्‌ पक्षः | 'साध्यव्याप्य' नाम साध्यनिरूपित-व्यतिरेकव्याप्तिमान्‌-हेतुमान्‌ पक्षः | इति परामर्शः | अनेन परामर्शेन व्यापकः सिध्यति पक्षे | व्यापकः कः ? साध्यमेव |</big>
 
 
 
Line 269 ⟶ 299:
 
<big>अधुना हेतुः पक्षभिन्नस्थले यत्र न भवति, तत्र व्यतिरेकव्याप्त्याः चिन्तनं परिशीलयाम | 'वह्निः उष्णः वह्नित्वात्‌' इत्यस्मिन्‌ यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते, तदर्थम्‌ अन्वयव्याप्तिदृष्टान्तः न सम्भवति | अतः व्यतिरेकव्याप्तिदृष्टान्तः एव सम्भवति | चिन्तनक्रमः एवम्‌— 'यत्र यत्र उष्णत्वं नास्ति, तत्र तत्र वह्नित्वमपि नास्ति' | 'यत्र यत्र साध्यं नास्ति, तत्र तत्र हेतुरपि नास्ति' इति | नाम यः साध्याभाववान्‌, सः हेत्वभाववान्‌ | तदा अग्रे यः हेत्वभाववान्‌ न भवति, सः साध्याभाववान्‌ न भवति | यः हेत्वभावाभाववान्‌, सः साध्याभावाभाववान्‌ | प्रकृते यः वह्नित्वाभाववान्‌ न भवति, नाम वह्नित्वाभावाभाववान्‌ भवति, सः साध्याभावाभाववान्‌, नाम उष्णत्वाभाववान्‌ न भवति, उष्णत्वाभावाभाववान्‌ भवति | आहत्य यः वह्नित्वाभावाभाववान्‌, सः उष्णत्वाभावाभाववान्‌ | तस्माच्च 'वह्निः उष्णः वह्नित्वात्‌' |</big>
 
 
 
Line 287 ⟶ 318:
 
<big>आहत्य अनुमानप्रयोगः एतादृशः— वह्निः उष्णः वह्नित्वात्‌ यन्नैवं तन्नैवं यथा जलम्‌ | अस्मिन्‌ अनुमानप्रयोगे 'यन्नैवं तन्नैवं यथा जलम्‌' इति व्यतिरेकदृष्टान्तः दीयते | यन्नैवं = यत्‌ उष्णत्ववान्‌ न | तन्नैवं = तत्‌ वह्नित्ववान्‌ न | 'यन्नैवं तन्नैवं यथा जलम्‌' इत्यनेन व्यतिरेकव्याप्तिः; यन्नैवं तन्नैवम्‌ इत्यनेन 'यो य उष्णत्वाभाववान्‌ स सर्वोपि वह्नित्वाभाववान्‌' इति अन्तर्गतम्‌ | परन्तु पक्षे वह्नौ वह्नित्वाभावस्य प्रतियोगी हेतुः ''अस्ति,'' तस्माच्च 'यत्र यत्र हेत्वभावाभावः तत्र तत्र साध्याभावाभावः' इति अस्माकं तृतीयं वक्तव्यं भवति | नाम पक्षे साध्याभावाभावः, अथवा साध्यम्‌, अस्ति |</big>
 
 
 
Line 293 ⟶ 325:
 
<big>तर्हि अधुना प्रकृतविषयः द्रष्टव्यः | विद्याधर्याम्‌ अनुमानप्रयोगः एतादृशः— 'आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌' | यथोक्तं पूर्वम्‌, आश्रयनाशाजन्यगुणनाशः इति पक्षः, समानाधिकरणगुणजन्यत्वम्‌ इति साध्यम्‌, आश्रयनाशाजन्यगुणनाशत्वम्‌ इति हेतुः, पाकजरूपनाशवत्‌ इति दृष्टान्तः |</big>
 
 
 
Line 299 ⟶ 332:
 
<big>'समानाधिकरणगुणजन्यः' इति गुणनाशस्य विधेयः, उद्देश्यविधेयभावः— समानाधिकरणगुणजन्यः गुणनाशः | उद्देश्यविधेयभावः इति न ज्ञायते चेत्‌, विशेषणविशेष्यभावः इति चिन्त्यतां; प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः | समानाधिकरणगुणेन जन्यगुणनाशः; अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः | समानाधिकरणगुणः इति विभागः | संयोगनाशः घटे पटे च, विभागः अपि तथा घटे पटे इत्यस्मात्‌ विभाग-संयोगनाशौ समानाधिकरणौ |</big>
 
 
 
Line 305 ⟶ 339:
 
<big>अग्रे पाकजरूपनाशवत्‌ इति दृष्टान्तः | 'पाकेन रूपनाशः, तद्वत्‌' इत्यर्थः | अयं च दृष्टान्तः कीदृशः इति परिशीलनीयम्‌ अस्ति | प्रथमतया अस्माकं पर्वत-वह्नि-धूम-प्रसङ्गे चिन्तनं कीदृशम्‌ आसीत्‌ इति स्मर्यताम्‌ | 'पर्वतः वह्निमान्‌ धूमात्‌ यथा महानसम्‌' इत्यस्मिन्‌ अनुमानप्रयोगे, यया रीत्या महानसे हेतुसाध्ययोः सम्बन्धः अनुभूतः अस्माभिः— महानसे धूमः अस्ति चेत्‌ वह्निः अस्त्येव इति सर्वजनसिद्धप्रत्ययः— तथैव पर्वतेऽपि धूमः अस्ति चेत्‌ वह्निः भवेत् | इति चिन्तनम्‌ अस्माकम्‌ आसीत्‌ तत्र |</big>
 
 
 
Line 311 ⟶ 346:
 
<big>तदा अस्मिन्‌ पाकजरूपनाशे साध्यम्‌ अपि अस्ति— समानाधिकरणगुणजन्यत्वम्‌ | रूपं घटे अस्ति; तस्मिन् एव घटे पाकः, नाम तेजःसंयोगः अपि अस्ति | समानाधिकरणगुणः इत्युक्ते तेजःसंयोगः | रूपं घटे इत्यस्मात्‌ रूपनाशः अपि घटे | अनेन रूपनाशः च तेजःसंयोगः च समानाधिकरणौ | अपि च तेन समानाधिकरणतेजःसंयोगेन रूपनाशः जन्यते | तस्मात्‌ पाकजरूपनाशे समानाधिकरणगुणजन्यत्वम्‌ अस्ति |</big>
 
 
 
Line 317 ⟶ 353:
 
<big>एवञ्च प्रकृते पक्षे, आश्रयनाशाजन्यगुणनाशः संयोगनाशः इत्यस्मिन्‌ आश्रयनाशाजन्यगुणनाशत्वम्‌ अपि अस्ति, समानाधिकरणगुणजन्यत्वम्‌ अपि अस्ति | इत्थञ्च "आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌” |</big>
 
 
 
Line 323 ⟶ 360:
 
<big>वस्तुतः पाकजरूपनाशः इति तु आश्रयनाशाजन्यगुणनाशः इति पक्षस्य एकदेशः | अपि च तस्मिन्नेव पक्षस्य एकदेशे अन्वयदृष्टान्तः दत्तः | तर्हि अत्र किम्‌ ? अस्माकं सिद्धन्तस्य विरुद्धे जातम्‌ | नाम एतावता अस्माभिः वारं वारं किमुक्तम्‌ ? यत्र हेतुः पक्षभिन्नस्थले लभ्यते, तत्रैव अन्वयदृष्टान्तः सम्भवति | यत्र च पक्षभिन्नस्थले हेतुः न लभ्यते, तत्र व्यतिरेकदृष्टान्तः एव सम्भवति | किन्तु अत्र प्रकृतौ किं जातं— हेतुः पक्षभिन्नस्थले न भवति, किन्तु अन्वयदृष्टान्तः दत्तः | स च अन्वयदृष्टान्तः पक्षस्य एव एकदेशः | कथम्‌ इदम्‌ ?</big>
 
 
 
Line 329 ⟶ 367:
 
<big>यत्र सर्वत्र पक्षे वह्निः अस्ति इति साध्यते, तत्र पक्षे एकदेशः अपि दृष्टान्तः भवितुम्‌ अर्हति | सर्वत्र पक्षे वह्निः अस्ति इति तादृश्यां विवक्षायां 'यत्र यत्र धूमः' इत्यनेन क्वचित्‌ धूमः दृष्टः वह्निः अपि दृष्टः, प्रत्यक्षेण | प्रदर्शयितुम्‌ इष्यते यत्‌ सर्वेषु पर्वतेषु वह्निः अस्ति, तस्य च प्रदर्शने एकस्मिन्‌ पर्वते धूमः दृष्टः तत्रापि वह्निः दृष्टः इत्युक्तौ स च पर्वतः उभयवान्‌, अयम्‌ उभयवान्‌ पर्वतः तादृशानुमानस्य दृष्टान्तः भवति | सर्वत्र पर्वते वह्निरस्ति इति न ज्ञातं, कुत्रचित्‌ पर्वते वह्निरस्ति इत्येव ज्ञातम्‌ | तदानीं यः पर्वतः उभयवान्‌ (धूमवान्‌ वह्निमान्‌ च) इति ज्ञातं, सः दृष्टान्तः भवितुम्‌ अर्हति |</big>
 
 
 
Line 335 ⟶ 374:
 
<big>अत्र प्रश्नः उदेति 'सर्वस्मिन्‌ पर्वते' इत्यनेन सर्वेषु पर्वतेषु कुत्रचित्‌ वह्निः, अथवा सर्वेषु पर्वतेषु सर्वपर्वते वह्निः इति | उत्तरत्वेन वक्तव्यं भवति यत्‌ एकैकस्मिन्‌ पर्वते कुत्रचित्‌ वह्निः इति साधयितुम्‌ इच्छा अस्ति, न तु एकैकस्मिन्‌ पर्वते सर्वत्र वह्निः | एकैकस्मिन्‌ पर्वते सर्वत्र वह्निः इति चेत्‌ सर्वावयवावच्छेदेन वह्निज्ञानम्‌ इति विशेषः | अत्र किन्तु तथा नास्ति अपि तु कस्मिंश्चित्‌ भागे सर्वस्मिन्‌ पर्वते वह्निरस्ति इति विवक्षा |</big>
 
 
 
<big>तर्हि अनुमानं द्विविधम्‌ इत्युक्तं— सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम्‌, अथवा केषुचित्‌ पर्वतेषु वह्निः अस्ति इति साधनम्‌ | अत्र द्वयोः कृते नामकरणमपि वर्तते— पक्षतावच्छेदकावच्छेदेन साध्यम्‌ इति, पक्षतावच्छेदकसामानाधिकरण्येन साध्यम्‌ इति | एकेन पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः उद्दिष्टा, अपरेण पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिः उद्दिष्टा |</big>
 
 
 
<big>पक्षतावच्छेदकावच्छेदेन इत्यनेन सर्वस्मिन्‌ पर्वते, कस्मिंश्चित्‌ भागे वह्निरस्ति इति साध्यानुमितिः उद्दिष्टा | पक्षतावच्छेदकम्‌ इत्यनेन अत्र पर्वतत्वम्‌ | येन रूपेण पक्षः, तद्रूपं पक्षतावच्छेदकम्‌ | नाम पर्वतरूपपक्षस्य पर्वतत्वेन रूपेण पक्षत्वम्‌ अस्ति इति अङ्गीक्रियते | अतः 'पर्वतः' इति पदप्रयोगः क्रियते | अनेन पर्वतः पक्षः, पक्षता पर्वतनिष्ठा, पक्षतावच्छेदकं पर्वते भासमानः धर्मः पर्वतत्वम्‌ |</big>
 
 
 
<big>तदा पक्षतावच्छेदकावच्छेदेन इत्यस्मिन्‌ 'अवच्छेदेन' इति भागः | अत्र अवच्छेदनम्‌ इति कोऽर्थः ? यथा आत्मनि ज्ञानं जायते इत्युच्यते | आत्मनि ज्ञानं कुत्र जायते ? वस्तुतः आत्मा इति विभुपदार्थः, सर्वत्र वर्तते | यथा आकाशः सर्वत्र वर्तते, तथा आत्मा अपि सर्वत्र | किन्तु आत्मनः यः भागः शरीरे वर्तते, तस्मिन्‌ भागे एव ज्ञानं जायते | तदर्थम्‌ उच्यते यत्‌ शरीरावच्छेदेन आत्मनि ज्ञानं जायते | तदवच्छेदकदेशः | आत्मनि ज्ञानोत्पत्तौ यः अवच्छेदकः देशः, तदन्तर्भावेण आत्मनि ज्ञानं जायते |</big>
 
 
 
<big>एवमेव वृक्षे कपिसंयोगः | वृक्षे कपिसंयोगः कुत्र भवति ? शाखायाम्‌ | तदर्थं शाखावच्छेदेन वृक्षे कपिसंयोगः जायते इत्युच्यते | वृक्षे कपिसंयोगसत्त्वे शाखावच्छेदकः देशः | तथैव अत्रापि पक्षतावच्छेदकावच्छेदेन, पर्वतत्वावच्छेदेन | नाम पर्वतत्वं कुत भवति ? निखिलपर्वतेषु | तत्र सर्वत्रापि वह्निरस्ति इति ज्ञानम्‌ | पर्वते कुत्र ? 'इह पर्वते नितम्बे हुताशनः न शिखरे' | नितम्बः इत्यनेन पर्वतस्य कूलं प्रवणः वा, मध्यदेशः | हुताश्नः इत्युक्ते वह्निः | नितम्बदेशावच्छेदेन पर्वते हुताशनः, वह्निः वर्तते | न तु शिखरे— शिखरावच्छेदेन नास्ति | पर्वतस्य सर्वोपरितने भागे शिखरे, वह्निः न भवति वृक्षाणाम्‌ अभावात्‌ | पर्वतस्य मध्यदेशे यत्र वृक्षाः सन्ति, शुष्कतृणानि भवन्ति, तत्र वह्न्युत्पत्तिः भवति, मध्यदेशावच्छेदेन |</big>
 
 
 
<big>तर्हि पक्षतावच्छेदकावच्छेदेन साध्यम्‌ इति स्थले, पर्वतत्वावच्छेदेन वह्निरनुमितिः | अत्र केन सम्बन्धेन वह्निः साध्यते पर्वते ? संयोगसम्बन्धेन साध्यते | तत्र च वह्निप्रतियोगिकः संयोगः | वह्निप्रतियोगिकसंयोगे पक्षः पर्वतः, पक्षतावच्छेदकं पर्वतत्वम्‌ | तादृशपक्षतावच्छेदकव्यापकत्वं संयोगे भासते | तथा च पर्वतत्वव्यापक-वह्निप्रतियोगिक-संयोगः इति सम्बन्धः | एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आधेयः; अनुयोगी इत्युक्तौ आधारः, अधिकरणम्‌ | अत्र च व्याप्यव्यापकभावः; पर्वतत्वं व्याप्यं, संयोगः व्यापकः | यथा धूमः वह्निः च— धूमः व्याप्यः, वह्निः व्यापकः; व्याप्ये सति व्यापकः सन्‌ अतः धूमः अस्ति चेत्‌, वह्निः अवश्यम्‌ अस्ति | एवेमेव पर्वतत्वव्यापक-वह्निप्रतियोगिक-संयोगः इत्यस्मिन्‌ पर्वतत्वं व्याप्यं, संयोगः व्यापकः | पर्वतत्वं सर्वेषु पर्वतेषु किन्तु पर्वतेषु एव; वह्निः सर्वेषु पर्वतेषु साधयितुम्‌ इच्छा इति चेत्‌, वह्निसंयोगः अपि सर्वेषु पर्वतेषु | किन्तु वह्निसंयोगः महानसे अपि अस्ति, अन्यत्र च बहुत्र अस्ति |</big>
 
 
 
<big>आहत्य पक्षतावच्छेदकावच्छेदेन अनुमितिः इत्यत्र पक्षतावच्छेदकव्यापकत्वं साध्यांशे अथवा साध्यप्रतियोगिकसंसर्गांशे वा भासते | नाम पर्वतत्वव्यापकत्वं वह्नौ, अथवा पर्वतत्वव्यापकत्वं वह्निप्रतियोगिकसंयोगे भासते | यथोक्तं पक्षतावच्छेदकम्‌ इत्यनेन अत्र पर्वतत्वम्‌ | तादृशपर्वतत्वव्यापक-वह्निप्रतियोगिक-संयोगः अत्र सम्बन्धः | तेन सम्बन्धेन वह्नेः साध्यत्वम्‌ | सर्वस्मिन्नपि पर्वते वह्निरस्तु इति अनुमितिः जायते, एतादृशं ज्ञानम्‌ | सर्वोऽपि पर्वतः वह्निमान्‌ इति ज्ञानम्‌ |</big>
 
 
 
<big>पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इत्यत्र, पक्षतावच्छेदकसामानाधिकरण्यमात्रं सम्बन्धे भासते | व्यापकत्वं न भासते | क्वचिदेव पर्वते वह्निरस्ति इति | सर्वस्मिन्नपि पर्वते वह्निरस्ति इति न; केषुचिदेव वह्निरस्ति इति ज्ञानं चेदपि तत्र पक्षतावच्छेदकसामानाधिकरण्येन वह्न्यनुमितिः इति भवति | द्वित्रेषु पर्वतेषु एव वह्निरस्ति इत्यपि ज्ञानं पक्षतावच्छेदकसामानाधिकरण्येन वह्न्यवगाहि-अनुमितिः | अत्र सामानाधिकरण्यं कयोः ? पक्षतावच्छेदकेन सह वह्नेः, अथवा वह्निप्रतियोगिसंयोगस्य | नाम पर्वतत्ववह्न्योः, अथवा पर्वतत्ववह्निसंयोगयोः |</big>
 
 
 
<big>यथा पक्षतावच्छेदकव्यापकत्वं वह्नौ अथवा वह्निप्रतियोगिकसंयोगे, तद्वत्‌ अत्रापि परन्तु तत्स्थाने पर्वतत्वसामानाधिकरण्यं— पर्वतत्वाधिकरणवृत्तित्वम्‌ | एकस्मिन्नपि पर्वते पर्वतत्वाधिकरणवृत्तित्वं भवति चेत्‌, पर्याप्तम्‌ | पर्वतत्वं सर्वेषु पर्वतेषु इति भवतु; तेषु एकस्मिन्‌ अथवा एकाधिकेषु वह्निः | अत्र व्यापकत्वं नोच्यते | सामानाधिकरण्यं नाम एकत्र पर्वते वह्निः अस्ति इति ज्ञानमपि पर्वतत्वसामानाधिकरण्येन वह्न्यवगाहिज्ञानम्‌ | पर्वतत्वाधिकरणम्‌ इत्यत्र यत्किञ्चित्‌ पर्वतः स्वीकर्तुं शक्यते | सामानाधिकरण्यम्‌ इत्यस्य कथनेन क्वचित्‌ भवति चेत्‌ पर्याप्तम्‌ | सर्वत्र सामानाधिकरण्यं भवेत्‌ इति नास्ति | सर्वत्र सामानाधिकरण्यं भवति चेत्‌ व्यापकत्वं जातं; सामानाधिकरण्यम्‌ इत्यनेन व्यापकत्वं नोच्यते— स एव भेदः | इत्थञ्च व्यापकत्वम्‌ उच्यते वा, सामानाधिकरण्यम्‌ इत्युच्यते वा इति पृच्छ्यते | अतः कुत्रचित्‌ वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति यथा महानसे, कुत्रचित्‌ वह्निसंयोगः भवति यत्र पर्वतत्वम् अस्ति यथा पर्वते, तस्यां दशायां पर्वतत्ववह्निसंयोगयोः सामानाधिकरण्यं वर्तते |</big>
 
 
 
<big>तर्हि पर्वतत्वावच्छेदेन, नाम यत्र यत्र पर्वतत्वम्‌ अस्ति तत्र सर्वत्र वह्निरस्ति इति यदा साध्यते धूमेन हेतुना— तदानीं कश्चित्‌ एकः पर्वतः दृष्टान्तः भवितुं शक्यते | तद्वत्‌ 'वह्निः उष्णः वह्नित्वात्‌' इत्यत्र कश्चन वह्निः उष्णत्ववान्‌ इति प्रत्यक्षेण ज्ञातम्‌ | कस्मिंश्चित्‌ वह्नौ उष्णत्वम्‌ अस्ति इति ज्ञातम्‌ | सः वह्निः दृष्टान्तः भवितुम्‌ अर्हति | सर्वत्र वह्निः उष्णः अस्ति न वा इति न ज्ञातं तेन; केवलम्‌ एकः वह्निः उष्णः इति प्रत्यक्षेण ज्ञायते | सर्वत्र वह्नौ उष्णत्वम्‌ अस्ति इति साधनवेलायां यः वह्निः पूर्वं प्रत्यक्षेण उष्णः इति ज्ञातं, सः वह्निः 'पक्षः सर्वत्र साध्यवान्‌' इत्यस्य प्रदर्शनार्थं दृष्टान्तः भवति | अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले, यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यम्‌ |</big>
 
 
 
<big>प्रकृतौ 'आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌' | अत्र पाकजरूपनाशः पक्षे एकदेशः अस्ति चेदपि सर्वत्र आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम्‌ इति साधनवेलायां पक्षे एकदेशोऽपि दृष्टान्तः भवति | अतः यद्यपि हेतुः पक्षभिन्नस्थले न लभ्यते तथापि अत्र अन्वयदृष्टान्तः सम्भवति | आश्रयनाशाजन्यगुणनाशः इत्यस्य एकदेशः पाकजरूपनाशः, एतादृशः अन्वयदृष्टान्तः भवति सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं चेत्‌ |</big>
 
 
 
<big>अत्र कश्चन प्रश्नः उदेति | पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति स्थले, पक्षे सर्वत्र साध्यं भवतु इति अनुमित्तिः नास्ति; तथा सति किमर्थं पक्षस्य एकदेशः दृष्टान्तो न भवति ? तत्र एकदेशः दृष्टान्तो न भवति इत्युक्तं—किन्तु किमर्थम्‌ ?</big>
 
 
 
<big>अस्य समाधानार्थं चिन्तनीयं भवति यत्‌ अस्माकं पक्षस्य स्वभावः कः | 'पर्वतः वह्निमान्‌ धूमात्‌' इति स्थले पर्वतः विशिष्टं द्रव्यम्‌ | पर्वतः अपि विशिष्टं द्रव्यम्‌, महानसम्‌ अपि विशिष्टं द्रव्यम्‌ | द्वौ अपि कस्यचित्‌ एकस्य सङ्ग्रहस्य सदस्यौ | 'आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌' इति स्थले आश्रयनाशाजन्यगुणनाशः इति विशिष्टं द्रव्यं नास्ति, विशिष्टवस्तु नास्ति; आश्रयनाशाजन्यगुणनाशः इति काचन श्रेणी अस्ति यस्यां बहवः सदस्याः सन्ति | पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति स्थले किमर्थं पक्षस्य एकदेशः दृष्टान्तो न भवति इत्यस्य बोधनार्थं, विशिष्टपक्षस्य सामान्यपक्षस्य च भेदः अवगन्तव्यः |</big>
 
 
 
<big>अधुना महानसम्‌ इति दृष्टान्तस्य प्रसङ्गे किञ्चित्‌ चिन्तनं कुर्मः | पूर्वम्‌ अस्माभिः उक्तं यत्‌ महानसम्‌ इति पक्षभिन्नस्थलम्‌ | किन्तु वस्तुतः इदं महानसमपि पक्षस्य एकदेशः | अत्र पक्षः कः ? 'यत्र धूमः अस्ति, वह्निः अपि अस्ति', तादृशस्थलस्य सङ्ग्रहः स्वयं यत्र पक्षः भवति, तत्र महानसम्‌ एकदेशः | एतदर्थं वस्तुतः अन्वयदृष्टान्तः सर्वदा एव एकदेशः अस्ति | एतादृशसङ्ग्रहरूपपक्षः 'सामान्यपक्षः' इति नामकरणं भवतु | अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत्‌, तस्य किमपि मूल्यं नास्ति; वस्तुतः सामान्यपक्षस्य एकदेशः नास्ति चेत् अन्वयदृष्टान्तः एव नास्ति |</big>
 
 
 
<big>यावन्ति हेतुमन्ति साध्यवन्ति स्थलानि भवन्ति, तेषां सङ्ग्रहः अथवा समूहः सामान्यपक्षः | हेतुसाध्यस्थलम्‌ इति सामान्यपक्षः | तस्मिन्‌ च अन्वयदृष्टान्तः तस्य एकदेशः, यः कोऽपि विशिष्टपक्षः सोऽपि तस्य एकदेशः | नाम तादृशपक्षः यत्र 'धूमः अस्ति, वह्निः अपि अस्ति' इति स्थलानां सङ्ग्रहः, तस्य सदस्येषु महानसम्‌ अन्यतमः | अपि च यथा महानसं, तथा पर्वतः अपि सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः | एतादृशः च पक्षः कीदृशः ? तादृशः एव, यस्मिन्‌ साध्यं सर्वत्र अस्ति | तादृशपक्षस्य सदस्यः पर्वतः अपि, महानसम्‌ अपि, वनम्‌ अपि—यत्र यत्र तादृशस्थलं वर्तते यस्मिन्‌ धूमः अस्ति चेत्‌ वह्निः अपि अस्ति, तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव | अतः अस्मिन्‌ प्रसङ्गे पर्वतः अत्र पक्षः नास्ति अपि तु तादृशसङ्ग्रहस्य एकदेशः | महानसम्‌ अपि तथा सङ्ग्रहस्य एकदेशः | दृष्टान्ते तदानीं शक्तिः वर्तते, यदा सम्पूर्णगुच्छे पक्षतावच्छेदकावच्छेदेन साध्यम्‌ अस्ति | तथा नास्ति चेत्‌, नाम अस्मिन्‌ स्थलसङ्ग्रहे कुत्रचित्‌ हेतुः अस्ति यत्र साध्यं नास्ति इति चेत्‌, दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति | यतोहि कुत्रचित्‌ हेतुः अस्ति यत्र साध्यं नास्ति इति स्थितिः |</big>
 
 
 
<big>चिन्तयामः चेत्‌, पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र व्याप्यव्यापकभावः, अतः यथा सामान्यानुमानप्रयोगे हेतुः व्याप्यः, साध्यः व्यापकः इति वदामः, तथैव अत्रापि कर्तुं शक्नुमः | नाम पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इति स्थले पर्वतत्वव्यापकवह्निः इति सिध्यति किल | वह्निः व्यापकः, पर्वतत्वं व्याप्यम्‌ इति | तदर्थम्‌ अनुमानप्रयोगं कुर्मः चेत्‌ 'पर्वतः वह्निमान्‌ पर्वतत्वात्‌' | पर्वतत्वं निश्चयेन सर्वेषु पर्वतेषु एव, अपि च पर्वतत्वं वह्निं प्रति व्याप्यम्‌ अतः वह्निः अपि निश्चयेन अस्ति | तदर्थं पर्वत-शब्दस्य स्थले अयं पक्षः कीदृशः इति चेत्‌, पर्वतत्ववह्निस्थलम्‌ | नाम सामान्यपक्षः— यत्र यत्र पर्वतत्वम्‌ अस्ति, तत्र वह्निरस्ति इति स्थलानां सङ्ग्रहः | तत्र च यः कोऽपि एकः पर्वतः तस्य दृष्टान्तः भवति | यथा अ-पर्वतः, इ-पर्वतः, उ-पर्वतः, ऋ-पर्वतः च इति सन्ति चेत्‌, सर्वेषु पर्वतत्वम्‌ अस्ति वह्निरपि अस्ति, तत्र इ-पर्वते धूमः वह्निः च दृष्टः चेत्‌, पक्षस्य एकदेशदृष्टान्तो भवति | आहत्य 'पर्वतः वह्निमान्‌ पर्वतत्वात्‌ यथा इ-पर्वतः' इति अनुमानप्रयोगः | अथवा 'पर्वतत्ववह्निस्थलं वह्निमान्‌ पर्वतत्ववह्निस्थलत्वात्‌ यथा इ-पर्वतः' इति | अत्र च 'पर्वतः वह्निमान्‌ पर्वतत्वात्‌' इति अनुमानप्रयोगः 'पर्वतः वह्निमान्‌ धूमात्‌' इत्यस्य उपगणः इति मनसि सर्वदा भवेत्‌; 'पर्वतः वह्निमान्‌ पर्वतत्वात्‌' इति अनुमानप्रयोगः शून्यतः नानीतः— अपि तु विशिष्टप्रसङ्गे, विशिष्टसन्दर्भे अयम्‌ अनुमानप्रयोगो भवति |  </big>
 
 
 
<big>एवं च दृष्टान्तः सामान्यपक्षस्य एकदेशः भवेदेव | 'यत्र यत्र धूमः तत्र तत्र वह्निः' इत्यनेन तादृशस्थलं यत्र धूमः अपि अस्ति, वह्निः अपि अस्ति, तादृशस्थलानां सङ्ग्रहे एकदेशः इत्येव दृष्टान्तः | तादृशदृष्टान्तः—यः तादृशस्थलसङ्ग्रहस्य एकदेशः—तस्य दृष्टान्तस्य बलेन, तस्य शक्त्या साधयामः यत्‌ पक्षे साध्यम्‌ अस्ति |</big>
 
 
 
<big>तादृशस्य च सामान्यपक्षस्य स्वस्मिन्‌ पक्षता इति विद्यमानः धर्मः | यथा येषु स्थलेषु धूमः अस्ति वह्निश्च अस्ति, तेषां स्थलानां सङ्ग्रहस्य नामकरणं 'धूमवह्निस्थलम्‌' इति चिन्तयतु | तत्र पक्षतावच्छेदकं धूमवह्निस्थलत्वम्‌ | धूमवह्निस्थलत्वव्यापक-वह्निप्रतियोगिक-संयोगः; अत्र धूमवह्निस्थलत्वं व्याप्यं, वह्निः च व्यापकः | अत्र महानसं तस्य पक्षस्य एकदेशः; पर्वतः अपि तस्य एकदेशः | अतः यद्यपि वदामः यत्‌ 'पक्षभिन्नस्थले एव अन्वयदृष्टान्तः भवति', वस्तुतः यत्र तादृशसामान्यपक्षः भवति—यथा धूमवह्निस्थलं—तत्र अन्वयदृष्टान्तः एकदेशः | अनया दृष्ट्या एकदेशात्‌ विहाय कोऽपि अन्वयदृष्टान्तः न भवति एव |</big>
 
 
 
<big>यथा 'पर्वतः वह्निमान्‌ धूमात्‌ यथा महानसम्‌' इति स्थितौ, वास्तविकसामान्यपक्षः अस्ति धूमवह्निस्थलम्‌ | तस्मिन्‌ सामान्यपक्षे महानसम्‌ इति एकदेशः, पर्वतः अपि एकदेशः | महानसस्य, सामान्यपक्षे एकदेशत्वात्‌ एव अस्मिन्‌ दृष्टान्ते शक्तिः अस्ति यस्य बलेन वक्तुं शक्नुमः यत्‌ यतः महानसे धूमः अस्ति वह्निः अपि अस्ति, अतः पर्वते धूमः अस्ति चेत्‌ वह्निः अपि अस्ति | अत्र धूमवह्निस्थलत्वं व्याप्यं, वह्निसाध्यं च व्यापकम्‌ | पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः, तस्माच्च दृष्टान्तस्य बलेन साध्यं सिध्यति |</big>
 
 
 
<big>यया रीत्या धूमवह्निस्थलं, तया एव रीत्या 'वह्निः उष्णः वह्नित्वात्‌' इत्यस्मिन्‌ वह्निः अपि तथैव सामान्यपक्षः; तस्मिन्‌ विद्यमानः धर्मः वह्नित्वं व्याप्य‌म्‌, उष्णत्वं च व्यापकम्‌ | पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यनेन व्याप्यव्यापकभावः, तदर्थं च अन्वयदृष्टान्तः इति एकदेशः | वह्नित्वोष्णत्वस्थलम्‌ इत्यत्र वह्निशब्दस्थाने सामान्यपक्षस्य नामान्तरम्‌ | तर्हि 'वह्नित्वोष्णत्वस्थलम्‌ उष्णत्ववत्‌ वह्नित्वोष्णत्वस्थलत्वात्‌ यथा इ-वह्निः' इति भवति | कुत्रचित्‌ एकस्मिन्‌ वह्नौ वह्नित्वम्‌ अस्ति, उष्णत्वं च अस्ति इति दृष्टं चेत्‌, स च वह्निः एकदेशदृष्टान्तः |</big>
 
 
 
<big>अपि च आश्रयनाशाजन्यगुणनाशः अपि तथैव सामान्यपक्षः | आश्रयनाशाजन्यगुणनाशत्वम्‌ इति पक्षता व्याप्यं, समानाधिकरणगुणजन्यत्वं च व्यापकम्‌ | पाकजरूपनाशः इति एकदेशदृष्टान्तः; विभागजसंयोगनाशः अपि तथैव एकदेशदृष्टान्तः |</big>
 
 
 
<big>एवं च यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति, तत्र एकदेशदृष्टान्तः न भवति—नाम अन्वयदृष्टान्तः एव न भवति | सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः | कश्चन दृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत्‌, सः तु दृष्टान्तः एव नास्ति | यथा यत्र पर्वतत्ववह्निस्थलम्‌ इव सामान्यपक्षः नास्ति, इत्युक्ते यत्र तादृशवस्तूनां सङ्ग्रहः एव नास्ति येषु पर्वतत्वम्‌ अपि अस्ति, वह्निरपि निश्चयेन अस्ति, तत्र अन्वयदृष्टान्तः न भवति | पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति तादृशस्थलम्‌ | अत्र व्याप्यव्यापकभावः नास्ति अतः सामान्यपक्षः एव नास्ति | कुत्रचित्‌ पर्वतत्वं भवति यत्र वह्निसंयोगो नास्ति | तस्मात्‌ सामान्यपक्षः एव नास्ति (इत्युक्ते यस्मिन्‌ पक्षतावच्छेदकं व्याप्यं, साध्यं च व्यापकम्‌), तस्माच्च एकदेशदृष्टान्तः नास्ति, अन्वयदृष्टान्तश्च नास्ति | केषुचित्‌ पर्वतेषु वह्निरस्ति, केषुचिच्च वह्निर्नास्ति—तस्यां दशायां धूमवान्‌ वह्निमान्‌ पर्वतः एकः अस्ति चेदपि न किमपि बलं लभ्यते येन अपरेषु पर्वतेषु वह्निः भवेत्‌ |</big>
 
 
 
<big>अस्माकं जीवने अनुमानस्य निर्माणसमये 'अस्मिन्‌ अनुमाने पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः वर्तते' इति मनसि निधाय प्रायः वयम्‌ अग्रे सरामः लौकिकज्ञानप्राप्तेः पथि | विज्ञानप्रयोगक्षेत्रे, सामान्यजीवनक्षेत्रे च | यथा प्राचीनकाले गुरुत्वनामकसिद्धान्तस्य प्रतिष्ठायाः पूर्वं, केचन वैज्ञानिकाः प्रयोगं कुर्वन्ति स्म | तत्र तेषु कश्चन शीलाखण्डं विमोचितवान्‌ | शीलाखण्डः पतितवान् | पुनः पञ्चवारं विमोचितवान्‌; एकैकवारं शीलाखण्डः पतितवान् | स च वैज्ञानिकः मनसि चिन्तितवान्‌ यत्‌ पञ्च घटनाः सामान्यपक्षस्य एकदेशाः; तदाधारेण चिन्तितवान्‌ यत्‌ 'अहो, गुरुत्वं सर्वत्र अस्ति— यत्र कुत्रापि शीलाखण्डं विमोचयामि, तत्र सर्वत्र शीलाखण्डः पतिष्यति' | तथा च कुर्मः सर्वत्र | शिशुः अग्निं स्पृशति; हस्तः दग्धः | तदाधारेण मनसि चिन्तयति यत्‌ 'पुनः अग्निं न स्प्रक्ष्यामि' | यतोहि मनसि अयमेव विचारः अस्ति चेत्‌ सामान्यपक्षः प्राप्तः, स्वस्य अनुभवः च तस्य एकदेशदृष्टान्तः अस्ति— यदा कदाचित्‌ पुनः स्वस्य हस्तम्‌ अग्नौ स्थापयति, तस्य हस्तः पुनः दग्धः भविष्यति | एवं रीत्या अनुमानप्रयोगे सामान्यपक्षस्य महत्त्वम्‌ अतीवमूल्यञ्च | पक्षतावच्छेदकावच्छेदेन साध्यानुमितेः बलेन बहुकिमपि व्यावहारिकज्ञानं प्राप्नुमः जीवने |</big>
 
 
 
Line 406 ⟶ 468:
 
<nowiki>---------------------------------</nowiki>
 
Subpages (1): [[10---nyAyashAstram/23---anumAnapramANam---vibhAgaH-atiriktaH-guNAH/sAmAnyapakShaH-tasya-ca-ekadeshadRuShTAntaH|सामान्यपक्षः तस्य च एकदेशदृष्टान्तः]]
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/2/2e/%E0%A5%A8%E0%A5%A9_-_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%82%E2%80%94_%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_%E0%A4%85%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%83_%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A4%83.pdf २३ - अनुमानप्रमाणं— विभागः अतिरिक्तः गुणः.pdf]
deletepagepermission, page_and_link_managers, teachers
2,632

edits