10---nyAyashAstram/25---AdyapatanasamavAyikAraNaM-gurutvaM---dalasArthakyam: Difference between revisions

added spacing
(added pdf link)
(added spacing)
Line 36:
 
<big>अन्यत्‌ उदाहरणम्‌ | द्रव्यस्य किं लक्षणम्‌ ? गुणवत्त्वं द्रव्यस्य लक्षणम्‌ | नाम द्रव्यस्य सामान्यलक्षणम्‌ | अधुना पृथिवी द्रव्यम्‌ अस्ति | तर्हि को‍ऽपि प्रश्नं कुर्यात्— 'पृथिवी इति द्रव्यस्य किं लक्षणम्‌ ?' पृथिव्याः लक्षणं किम्‌ इति अपृष्ट्वा, पृथिवी-द्रव्यस्य लक्षणं किम्‌ इति | नाम पृथिव्यात्मकद्रव्यस्य लक्षणमिति तात्पर्यम्‌ | न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत्‌ जानाति सः यत्‌ पृथिवी द्रव्यम्‌ अस्ति, अतः, विचिन्त्य तादृशप्रश्नं प्रष्टुं शक्नोति | उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत्‌ अन्येभ्यः द्रव्येभ्यः व्यावर्तयति | स च विशेषः गन्धः |</big>
 
 
<big>तर्हि पृथिवी-द्रव्यस्य प्रश्ने सति, उत्तरत्वे प्रथमतया विचारयामः यत्‌ द्रव्यस्य लक्षणं गुणवत्त्वं, पृथिव्यां च गन्धः अस्ति इति कृत्वा 'गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम्‌' इति | अस्मिन्‌ लक्षणे कश्चन दोषः अस्ति वा ? अव्याप्तिः, अतिव्याप्तिः, असम्भवः इति त्रिषु दोषेषु अन्यतमदोषो वर्तते किम्‌ ? त्रिषु दोषेषु अव्याप्तिर्वा अतिव्याप्तिर्वा असम्भवो वा नास्ति | किन्तु यदा दलचिन्तनं कुर्मः, तदा पश्यामः यत्‌ वस्तुतः गन्धवत्त्वम्‌ इत्येव पर्याप्तम्‌ | गुणवत्त्वम्‌ इत्यस्य आवश्यकता नास्ति |</big>
 
 
 
teachers
746

edits