10---nyAyashAstram/26---dalasArthakya-cintanam/adyapatanasamavayikaranamgurutvam: Difference between revisions

added text
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
(added text)
Line 1:
<big>'''(४) तर्कसङ्ग्रहे''' '''मूलवाक्यम् 'आद्यपतनासमवायिकारणं गुरुत्वम्' |'''</big>
<please replace this with content from corresponding Google Sites page>
 
'''<big>आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् |</big>'''
 
<big>त्रीणि दलानि : १) आद्यपतनत्वावच्छिन्नकार्यता    २) समवायसम्बन्धावच्छिन्नकार्यता '''*''' ३) समवायसम्बन्धावच्छिन्नकारणता</big>
{| class="wikitable"
|<big>उपात्तं दलम्</big>
|<big>दोषः</big>
|<big>कुत्र ?</big>
|<big>निवारणम्</big>
|-
|<big>समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>सर्वेषु असमवायिकारणेषु  </big>
|<big>आद्यपतनत्वावच्छिन्नकार्यता</big>
|-
|<big>आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>आद्यपतनस्य समवायिकारणे</big>
|<big>समवायसम्बन्धावच्छिन्नकारणता</big>
|-
|'''<big>आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् **</big>'''
|<big>नास्ति</big>
|<big>नास्ति</big>
|<big>नास्ति</big>
|}
<big>'''*'''  '''आद्यपतनासमवायिकारणं गुरुत्वम्''' इति तर्कसङ्ग्रहस्य मूलवाक्यम् | तस्मिन् असमवायिकारणम्‌ इति उल्लिखितम् | समवायिकारणे च निमित्तकारणे अतिव्याप्तिवारणाय असमवायिकारणम्‌ इत्यस्य वदनम् आवश्यकञ्च | समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति असमवायिकारणस्य लक्षणम् |</big>
 
 
<big>'''**''' तर्कसङ्ग्रहस्य मूलवाक्यम् अनुसृत्य यद्यपि आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति गुरुत्वस्य तटस्थलक्षणवाक्यस्य कथनावसरे दलत्रयं स्वाभाविकतया प्रविष्टं स्यात् तथापि कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वम् इति विशेषदलस्य उपादानेन सर्वेषु असमवायिकारणेषु अव्याप्तिदोषस्य वारणत्वात् समवायसम्बन्धावच्छिन्नकार्यता इत्यस्य दलस्य व्यर्थता सिध्यति | अतः तत् दलं त्यक्तव्यम् एव | कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् इति दलं न उपात्तं चेदपि '''आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं''' '''गुरुत्वस्य लक्षणम्''' इत्यनेन न क्वचित् दोषः |</big>
teachers
759

edits