10---nyAyashAstram/26---dalasArthakya-cintanam/dhvansabhinnatvesatidhvansapratiyogitvamnityatvamathavanityasyalaksanam: Difference between revisions

added text
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
(added text)
Line 1:
<big>(२०) ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वं नित्यत्वम् अथवा नित्यस्य लक्षणम् |</big>
<please replace this with content from corresponding Google Sites page>
 
 
<big>द्वे दले :  १) ध्वंसभिन्नत्वम् इति विशेषणदलम्    २) ध्वंसाऽप्रतियोगित्वम् इति विशेष्यदलम्</big>
 
{| class="wikitable"
|'''<big>उपात्तं दलम्</big>'''
|'''<big>दोषः</big>'''
|'''<big>कुत्र ?</big>'''
|'''<big>निवारणम्</big>'''
|-
|<big>ध्वंसाऽप्रतियोगित्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big><nowiki>ध्वंसे अतिव्याप्तिः | ध्वंसे ध्वंस-अप्रतियोगित्वम् अस्ति |</nowiki></big>
 
<big>अनेन ध्वंसाऽप्रतियोगित्वं ध्वंसस्य लक्षणम् इति आपतति |  </big>
 
<big>ध्वंसः, नाम प्रध्वंसाभावः नित्यः | एकस्य पदार्थस्य ध्वंसे जाते सः एव पदार्थः पुनः न उत्पद्यते |</big>
 
<big>ध्वंसस्य ध्वंसः न कदापि जायते | यस्य ध्वंसः एव न भवति तस्य ध्वसं प्रति प्रतियोगित्वं नैव भवति |</big>
 
<big>अतः ध्वंसस्य ध्वसं प्रति अप्रतियोगित्वम् इति कृत्वा ध्वंसे ध्वंसाऽप्रतियोगित्वम् इति अनिष्टापत्तिः |</big>
 
<big>घटध्वंसे जाते पुनः सः एव घटः नैव उत्पद्यते | अतः अयं घटध्वंसः सर्वदा भवति |</big>
 
<big>पुनः नूतनः घटः | घटध्वंसस्य अथवा घटप्रध्वंसाभावस्य ध्वंसः न कदापि जायते |</big>
 
<big>ध्वंसे ध्वंसाऽप्रतियोगित्वम् इति न इष्टम् | तन्निवरणाय विशेषणदलम् उपात्तं ध्वंसभिन्नत्वम् इति |</big>
|<big>ध्वंसभिन्नत्वम् इति विशेषणदलम्</big>
|-
|<big>ध्वंसभिन्नत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big><nowiki>सर्वेषु ध्वंसभिन्नपदार्थेषु, घटपटादिषु अतिव्याप्तिः | ध्वंसभिन्नेषु अस्ति ध्वंसभिन्नत्वम् | तन्नेष्टम् |</nowiki></big>
 
<big>तन्निवरणाय विशेषणदलम् उपात्तं ध्वंसाऽप्रतियोगित्वम् इति | ध्वंस-अप्रतियोगित्वं केवलं नित्ये वर्तते |</big>
 
<big>यस्य ध्वंसः न भवति तादृशः पदार्थः ध्वंसस्य प्रतियोगी नैव भवति | यथा आकाशः, न ध्वंसप्रतियोगी | आकाशे ध्वंसाऽप्रतियोगित्वम् अस्ति | आकाशः ध्वंसभिन्नः च | आकाशे ध्वंसभिन्नत्वम् अस्ति |</big>
 
<big>अतः ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वम् इति दलद्वयोपादानेन न कुत्रापि कोऽपि दोषः |</big>
|<big>ध्वंसाऽप्रतियोगित्वम् इति विशेष्यदलम्</big>
|-
|<big>'''ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वम्'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|}
<big>* ध्वंसप्रतियोगित्वम् अथवा प्रागभावप्रतियोगित्वम् अनित्यत्वम् | ध्वंसप्रतियोगित्वप्रागभावप्रतियोगित्वाऽन्यतरत्वम् अनित्यत्वम् इति उच्यते |</big>
 
<big>* प्रागभावस्य अपि ध्वंसः भवति | प्रागभावे अपि ध्वंसप्रतियोगित्वम् अस्ति | अतः प्रागभावः अनित्यः | घटे जाते घटप्रागभावस्य ध्वंसः जायते |</big>
teachers
746

edits