10---nyAyashAstram/26---dalasArthakya-cintanam/sabdetarodbhutavisesagunanasrayatvesatijnanakaranamanahsanyogasrayatvamindriyatvam: Difference between revisions

m
(added text)
 
(5 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम्}}
<big>'''(१९) ‘शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम्’ वा इन्द्रियस्य लक्षणम् |'''</big>
 
Line 13 ⟶ 14:
|'''<big>निवारणम्</big>'''
|-
|<big>मनःसंयोगाश्रयत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big><nowiki>आत्मनि इदं लक्षणं विद्यते इत्यतः आत्मनि अतिव्याप्तिः |</nowiki></big>
 
<big>ज्ञानजनिकायां प्रक्रियायां प्रथमम् आत्ममनःसंयोगः जायते, तदा मनः-इन्द्रियसंयोगः, अन्ततो गत्वा इन्द्रियार्थसंयोगः येन प्रत्यक्षज्ञानम् उदेति इतीमानि सोपानानि | आत्मनि अपि मनसः संयोगः च मनःसंयोगश्रयत्वम् | यद्यपि षट्सु इन्द्रियेषु अपि मनःसंयोगाश्रयत्वम् अस्ति इति कृत्वा न तेषु  असम्भवदोषः तथापि आत्मनि मनःसंयोगश्रयत्वस्य विद्यमानत्वात् आत्मा अपि इन्द्रियम् इति अनिष्टापत्तिः |</big>
 
 
<big>तन्निवरणाय आत्मभिन्नत्वे सति मनःसंयोगाश्रयत्वम् इति लक्षणपरिष्कारः कृतः चेत् त्वचि (पार्थिवत्वक्, न इन्द्रियम्) अतिव्याप्तिः | नैय्यायिकैकदेशिनः वदन्ति ज्ञानजनिकायां प्रक्रियायां त्वचा सह अपि मनसः संयोगः जायते | अनेन मनःसंयोगः त्वचि अपि वर्तते |</big>
 
 
<big>पुनः परिष्काररूपेण आत्मभिन्नत्वे सति त्वग्भिन्नत्वे सति मनःसंयोगाश्रयत्वम् इन्द्रियत्वम् इति चेत् तेन लाघवं नश्यति, गौरवम् एव |</big>
 
<big>पुनः परिष्काररूपेण आत्मभिन्नत्वे सति त्वग्भिन्नत्वे सति मनःसंयोगाश्रयत्वम् इन्द्रियत्वम् इति चेत् तेन लाघवं नश्यति, गौरवम् एव |</big>
 
<big>अपि च कालादिषु यत्र मनःसंयोगः सर्वदा अस्ति तादृशेषु आत्मत्वग्भिन्नेषु स्थलेषु अतिव्याप्तिः |</big>
 
<big>( कालदिगाकाशेषु विभुद्रव्येषु मनसः संयोगः अस्ति इत्यतः एष्वपि अतिव्याप्तिः | तस्य निवारणम् अन्ते चर्चितम् | )</big>
 
 
<big>आत्मनि च त्वचि अतिव्याप्तिवारणाय विशेषगुणानाश्रयत्वम् इति विशेषणदलम् उपात्तम् |</big>
Line 37 ⟶ 44:
|<big>अव्याप्तिः</big>
|<big><nowiki>लक्ष्यभूतेषु इन्द्रियेषु एव अव्याप्तिः |</nowiki></big>
 
 
<big>“रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः |  बुद्ध्यादिभावनान्ताश्च शब्दो वैशिषिका गुणाः |“ -- इमे गुणाः विशेषगुणाः इत्युच्यन्ते |</big>
 
 
<big>आत्मनि बुद्धिः इति विशेषगुणः | त्वक् इति पृथिवी ( न त्वगिन्द्रियं तैजसम् ) | तस्मिन् रूपगन्धादयः विशेषगुणाः विद्यन्ते | आत्मनि च त्वचि अतिव्याप्तिवारणाय विशेषगुणानाश्रयत्वम् इति उक्तम् | तथा चेत् इन्द्रियेषु एव अव्याप्तिदोषः आपतति | इन्द्रियेषु विशेषगुणाः विद्यन्ते | अतः विशेषगुणानाश्रयत्वं नास्ति इन्द्रियेषु |</big>
 
 
 
<big>घ्राणं पार्थिवमिन्द्रियं यस्मिन् रूपगन्धादयः गुणाः सन्ति | रसनं जलीयमिन्द्रियम् यस्मिन् रसः अस्ति | इन्द्रियेषु विशेषगुणानाश्रयत्वं नास्ति इत्यतः इन्द्रियेषु एव अव्याप्तिः |</big>
 
 
<big>अनेन इन्द्रियाणि यानि लक्ष्यभूतानि तानि एव बहिष्कृतानि भवन्ति इत्यतः एतत् दलं न पर्याप्तम् | “उद्भूत” इति पदं निवेशनीयं विशेषणदले |</big>
Line 52 ⟶ 64:
|<big>अव्याप्तिः</big>
|<big><nowiki>कर्णशष्कुल्यवच्छिन्न-आकाशे श्रोत्रे अव्याप्तिः |</nowiki></big>
 
 
<big>इन्द्रियेषु विद्यमानायाः अव्याप्तेः वारणाय विशेषणदले “उद्भूत” इति एकं पदम् उपात्तम् | इदानीं नूतनं दलमस्ति</big>
Line 57 ⟶ 70:
<big>उद्भूतविशेषगुणानाश्रयत्वे सति मनःसंयोगाश्रयत्वम् |</big>
 
<big>इन्द्रियेषु एकं वैशिष्ट्यमस्ति यत् तेषु केवलम् अनुद्भूताः गुणाः विद्यन्ते, न तु उद्भूतगुणाः | उद्भूतविशेषगुणाः एव इन्द्रियेषु न सन्ति इत्यतः उद्भूतविशेषगुण-अनाश्रयत्वम् इति धर्मः आगतम् इन्द्रियेषु |</big>
 
<big>इन्द्रियेषु एकं वैशिष्ट्यमस्ति यत् तेषु केवलम् अनुद्भूताः गुणाः विद्यन्ते, न तु उद्भूतगुणाः | उद्भूतविशेषगुणाः एव इन्द्रियेषु न सन्ति इत्यतः उद्भूतविशेषगुण-अनाश्रयत्वम् इति धर्मः आगतम् इन्द्रियेषु |</big>
<big>एवं उद्भूतविशेषगुणानाश्रयत्वम् इति विशेषणदलम् उपात्तं चेत् श्रोत्रे अव्याप्तिः | पञ्चसु इन्द्रियेषु -- चक्षुषि, घ्राणे, रसने, त्वचि च मनसि च अस्य विशेषणदलस्य समन्वयः अस्ति | परंतु श्रोत्रे अस्य दलस्य समन्वयः नास्ति | श्रोत्रे अव्याप्तिः |</big>
 
<big>एवं उद्भूतविशेषगुणानाश्रयत्वम् इति विशेषणदलम् उपात्तं चेत् श्रोत्रे अव्याप्तिः | पञ्चसु इन्द्रियेषु -- चक्षुषि, घ्राणे, रसने, त्वचि च मनसि च अस्य विशेषणदलस्य समन्वयः अस्ति | परंतु श्रोत्रे अस्य दलस्य समन्वयः नास्ति | श्रोत्रे अव्याप्तिः |</big>
 
 
<big>कर्णशष्कुल्यवच्छिन्न-आकाशे श्रोत्रे शब्दः इति विशेषगुणः उद्भूतरूपेण विद्यते इत्यस्मात् उद्भूतविशेषगुणानाश्रयत्वं श्रोत्रे नास्ति | उद्भूतविशेषगुणानाश्रयत्वम् इति वदनेन श्रोत्रं बहिष्कृतं स्यात् | तन्निवरणाय “शब्देतर” इति पदं निवेशनीयं विशेषणदले |</big>
Line 69 ⟶ 86:
|<big>अतिव्याप्तिः</big>
|<big><nowiki>विभुद्रव्येषु, काले, दिशि च आकाशे अतिव्याप्तिः |</nowiki></big>
 
 
<big>विशेषणदले इतोऽपि वैशिष्ट्यम् आनीयते श्रोत्रे अव्याप्तेः वारणाय | शब्देतरोद्भूतविशेषगुणानाश्रयत्वम् इति भवेत् विशेषणदलम् | अनेन शब्दभिन्न-उद्भूतगुणानाश्रयत्वे सति मनःसंयोगाश्रयत्वम् इति लक्षणं भवति इन्द्रियस्य |</big>
 
 
<big>शब्देतर-इति वदनेन इतोऽपि सङ्कुचितं लक्षणम् | सर्वेषु इन्द्रियेषु अस्य लक्षणस्य समन्वयः | श्रोत्रे अतिव्याप्तिः निवारिता |</big>
 
 
<big>परन्तु इदानीमपि अव्याप्तिदोषग्रस्तं लक्षणम् इदम् | यतोहि विभुद्रव्येषु, काले, दिशि च आकाशे मनसः संयोगः विद्यते | काले, दिशि, आकाशे च शब्देतरोद्भूतविशेषगुणाः अपि न सन्ति | अतः यदि लक्षणं शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति मनःसंयोगश्रयत्वम् इति स्यात् तर्हि कालदिगाकाशेष्वपि  इन्द्रियत्वम् अस्ति इति आपतति | अस्मात् कालः, दिक् च आकाशः अपि इन्द्रियम् इति आपत्तिः | कालदिगाकाशेषु अतिव्याप्तिः | तन्निवरणाय “ज्ञानकारणम्” इति पदं निवेशनियं विशेष्यदले |</big>
 
 
<big>कालः, दिक् वा आकाशः ज्ञानकारणानि न सन्ति | आत्मा, मनः च शरीरं ज्ञानकारणानि | ज्ञानकारणमनःसंयोगाश्रयत्वं नास्ति कालदिगाकाशेषु | ज्ञानकारणमनःसंयोगाश्रयत्वम् इति विशेष्यदलं स्वीकुर्मः चेत् कालदिगाकाशेषु अतिव्याप्तिः निवारिता भवति |</big>
 
 
<big>शब्देतरोद्भूतविशेषगुणानाश्रयत्वम् इति विशेषणदलम् अस्ति एव | अनेन मनः-भिन्नज्ञानकारणयोः आत्मशरीरयोः तादृशम् अनाश्रयत्वं न विद्यते इति कृत्वा आत्मशरीरयोः अतिव्याप्तिः न आगच्छति | तादृशम् अनाश्रयत्वम् इन्द्रिये मनसि एव |</big>
page_and_link_managers, Administrators
5,209

edits