शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम्

From Samskrita Vyakaranam
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

10---nyAyashAstram/26---dalasArthakya-cintanam/sabdetarodbhutavisesagunanasrayatvesatijnanakaranamanahsanyogasrayatvamindriyatvam
Jump to navigation Jump to search

(१९) ‘शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम्’ वा इन्द्रियस्य लक्षणम् |


द्वे दले :  १) शब्देतरोद्भूतविशेषगुणानाश्रयत्वम् इति विशेषणदलम् २) ज्ञानकारणमनःसंयोगाश्रयत्वम् इति विशेष्यदलम्


अस्य लक्षणस्य लक्ष्यम् इन्द्रियाणि एव -- चक्षुः, घ्राणं, रसनं, त्वक्, श्रोत्रं च मनः | इन्द्रियत्वं न जातिः पृथिवीत्वमित्यादिना सह साङ्कर्यात् |

उपात्तं दलम् दोषः कुत्र ? निवारणम्
मनःसंयोगाश्रयत्वम् अतिव्याप्तिः आत्मनि इदं लक्षणं विद्यते इत्यतः आत्मनि अतिव्याप्तिः |


ज्ञानजनिकायां प्रक्रियायां प्रथमम् आत्ममनःसंयोगः जायते, तदा मनः-इन्द्रियसंयोगः, अन्ततो गत्वा इन्द्रियार्थसंयोगः येन प्रत्यक्षज्ञानम् उदेति इतीमानि सोपानानि | आत्मनि अपि मनसः संयोगः च मनःसंयोगश्रयत्वम् | यद्यपि षट्सु इन्द्रियेषु अपि मनःसंयोगाश्रयत्वम् अस्ति इति कृत्वा न तेषु  असम्भवदोषः तथापि आत्मनि मनःसंयोगश्रयत्वस्य विद्यमानत्वात् आत्मा अपि इन्द्रियम् इति अनिष्टापत्तिः |


तन्निवरणाय आत्मभिन्नत्वे सति मनःसंयोगाश्रयत्वम् इति लक्षणपरिष्कारः कृतः चेत् त्वचि (पार्थिवत्वक्, न इन्द्रियम्) अतिव्याप्तिः | नैय्यायिकैकदेशिनः वदन्ति ज्ञानजनिकायां प्रक्रियायां त्वचा सह अपि मनसः संयोगः जायते | अनेन मनःसंयोगः त्वचि अपि वर्तते |


पुनः परिष्काररूपेण आत्मभिन्नत्वे सति त्वग्भिन्नत्वे सति मनःसंयोगाश्रयत्वम् इन्द्रियत्वम् इति चेत् तेन लाघवं नश्यति, गौरवम् एव |


अपि च कालादिषु यत्र मनःसंयोगः सर्वदा अस्ति तादृशेषु आत्मत्वग्भिन्नेषु स्थलेषु अतिव्याप्तिः |

( कालदिगाकाशेषु विभुद्रव्येषु मनसः संयोगः अस्ति इत्यतः एष्वपि अतिव्याप्तिः | तस्य निवारणम् अन्ते चर्चितम् | )


आत्मनि च त्वचि अतिव्याप्तिवारणाय विशेषगुणानाश्रयत्वम् इति विशेषणदलम् उपात्तम् |

विशेषगुणानाश्रयत्वम्

इति विशेषणदलम्  

विशेषगुणानाश्रयत्वम्

(विशेषगुणानाश्रयत्वे सति मनःसंयोगाश्रयत्वम्)

अव्याप्तिः लक्ष्यभूतेषु इन्द्रियेषु एव अव्याप्तिः |


“रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः |  बुद्ध्यादिभावनान्ताश्च शब्दो वैशिषिका गुणाः |“ -- इमे गुणाः विशेषगुणाः इत्युच्यन्ते |


आत्मनि बुद्धिः इति विशेषगुणः | त्वक् इति पृथिवी ( न त्वगिन्द्रियं तैजसम् ) | तस्मिन् रूपगन्धादयः विशेषगुणाः विद्यन्ते | आत्मनि च त्वचि अतिव्याप्तिवारणाय विशेषगुणानाश्रयत्वम् इति उक्तम् | तथा चेत् इन्द्रियेषु एव अव्याप्तिदोषः आपतति | इन्द्रियेषु विशेषगुणाः विद्यन्ते | अतः विशेषगुणानाश्रयत्वं नास्ति इन्द्रियेषु |


घ्राणं पार्थिवमिन्द्रियं यस्मिन् रूपगन्धादयः गुणाः सन्ति | रसनं जलीयमिन्द्रियम् यस्मिन् रसः अस्ति | इन्द्रियेषु विशेषगुणानाश्रयत्वं नास्ति इत्यतः इन्द्रियेषु एव अव्याप्तिः |


अनेन इन्द्रियाणि यानि लक्ष्यभूतानि तानि एव बहिष्कृतानि भवन्ति इत्यतः एतत् दलं न पर्याप्तम् | “उद्भूत” इति पदं निवेशनीयं विशेषणदले |

उद्भूत इति पदं निवेशितं विशेषणदले
उद्भूत

(उद्भूतविशेषगुणानाश्रयत्वे सति मनःसंयोगाश्रयत्वम्)

अव्याप्तिः कर्णशष्कुल्यवच्छिन्न-आकाशे श्रोत्रे अव्याप्तिः |


इन्द्रियेषु विद्यमानायाः अव्याप्तेः वारणाय विशेषणदले “उद्भूत” इति एकं पदम् उपात्तम् | इदानीं नूतनं दलमस्ति

उद्भूतविशेषगुणानाश्रयत्वे सति मनःसंयोगाश्रयत्वम् |


इन्द्रियेषु एकं वैशिष्ट्यमस्ति यत् तेषु केवलम् अनुद्भूताः गुणाः विद्यन्ते, न तु उद्भूतगुणाः | उद्भूतविशेषगुणाः एव इन्द्रियेषु न सन्ति इत्यतः उद्भूतविशेषगुण-अनाश्रयत्वम् इति धर्मः आगतम् इन्द्रियेषु |


एवं उद्भूतविशेषगुणानाश्रयत्वम् इति विशेषणदलम् उपात्तं चेत् श्रोत्रे अव्याप्तिः | पञ्चसु इन्द्रियेषु -- चक्षुषि, घ्राणे, रसने, त्वचि च मनसि च अस्य विशेषणदलस्य समन्वयः अस्ति | परंतु श्रोत्रे अस्य दलस्य समन्वयः नास्ति | श्रोत्रे अव्याप्तिः |


कर्णशष्कुल्यवच्छिन्न-आकाशे श्रोत्रे शब्दः इति विशेषगुणः उद्भूतरूपेण विद्यते इत्यस्मात् उद्भूतविशेषगुणानाश्रयत्वं श्रोत्रे नास्ति | उद्भूतविशेषगुणानाश्रयत्वम् इति वदनेन श्रोत्रं बहिष्कृतं स्यात् | तन्निवरणाय “शब्देतर” इति पदं निवेशनीयं विशेषणदले |

शब्देतर इति पदं निवेशितं विशेषणदले
शब्देतर

(शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति मनःसंयोगाश्रयत्वम्)

अतिव्याप्तिः विभुद्रव्येषु, काले, दिशि च आकाशे अतिव्याप्तिः |


विशेषणदले इतोऽपि वैशिष्ट्यम् आनीयते श्रोत्रे अव्याप्तेः वारणाय | शब्देतरोद्भूतविशेषगुणानाश्रयत्वम् इति भवेत् विशेषणदलम् | अनेन शब्दभिन्न-उद्भूतगुणानाश्रयत्वे सति मनःसंयोगाश्रयत्वम् इति लक्षणं भवति इन्द्रियस्य |


शब्देतर-इति वदनेन इतोऽपि सङ्कुचितं लक्षणम् | सर्वेषु इन्द्रियेषु अस्य लक्षणस्य समन्वयः | श्रोत्रे अतिव्याप्तिः निवारिता |


परन्तु इदानीमपि अव्याप्तिदोषग्रस्तं लक्षणम् इदम् | यतोहि विभुद्रव्येषु, काले, दिशि च आकाशे मनसः संयोगः विद्यते | काले, दिशि, आकाशे च शब्देतरोद्भूतविशेषगुणाः अपि न सन्ति | अतः यदि लक्षणं शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति मनःसंयोगश्रयत्वम् इति स्यात् तर्हि कालदिगाकाशेष्वपि  इन्द्रियत्वम् अस्ति इति आपतति | अस्मात् कालः, दिक् च आकाशः अपि इन्द्रियम् इति आपत्तिः | कालदिगाकाशेषु अतिव्याप्तिः | तन्निवरणाय “ज्ञानकारणम्” इति पदं निवेशनियं विशेष्यदले |


कालः, दिक् वा आकाशः ज्ञानकारणानि न सन्ति | आत्मा, मनः च शरीरं ज्ञानकारणानि | ज्ञानकारणमनःसंयोगाश्रयत्वं नास्ति कालदिगाकाशेषु | ज्ञानकारणमनःसंयोगाश्रयत्वम् इति विशेष्यदलं स्वीकुर्मः चेत् कालदिगाकाशेषु अतिव्याप्तिः निवारिता भवति |


शब्देतरोद्भूतविशेषगुणानाश्रयत्वम् इति विशेषणदलम् अस्ति एव | अनेन मनः-भिन्नज्ञानकारणयोः आत्मशरीरयोः तादृशम् अनाश्रयत्वं न विद्यते इति कृत्वा आत्मशरीरयोः अतिव्याप्तिः न आगच्छति | तादृशम् अनाश्रयत्वम् इन्द्रिये मनसि एव |

ज्ञानकारणम् इति पदं निवेशितं विशेष्यदले
शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम् नास्ति नास्ति नास्ति