10---nyAyashAstram/28---vyApticintanam: Difference between revisions

Added spacing
(Added text)
(Added spacing)
Line 83:
 
<big>अस्तु | व्याप्तिः भावरूपेण सखण्डरीत्या—यत्र यत्र हेतुः तत्र तत्र साध्यम्‌—वक्तुं शक्यं, पुनः सखण्डरीत्या—हेतुसत्त्वे साध्यसत्त्वम्‌—इत्यपि शक्यते | रूपद्वयमपि साधु, रूपद्वयेन अपि व्याप्तेः अर्थः सम्पूर्णरीत्या जायते | किन्तु द्वयमपि लक्षणस्य स्वरूपं नास्ति | तर्हि तस्मिन्नेव अर्थे एकम्‌ अखण्डवाक्यं रचयाम ! 'साध्याभाववदवृत्तित्वम्‌' इति यथा अभावरूपेण उक्तं, तस्यामेव शैल्यां वदामः भावरूपेण— तदा लक्षणस्य स्वरूपं सेत्स्यति | एकं‌ कृत्वा अखण्डपदम्‌ अपि भविष्यति, लक्षणसार्थख्ये कोऽपि दोषो न स्थास्यति | तर्हि साध्याभाववदवृत्तित्वम्‌ इत्यस्य विपरीतरूपं किम्‌ ? हेतुमद्वृत्तित्वम्‌ | 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति वाक्यम्‌ अखण्डरूपेण उच्यते चेत्‌, 'हेतुमद्वृत्तित्वम्‌' इति वाक्यं जायते | तच्च 'हेतुमद्वृत्तित्वं' कुत्र वर्तते ? साध्ये | अधुना अस्माभिः ज्ञायते यत्‌ अनुमितिप्रकरणे व्याप्तिः भवेत्‌ हेतौ न तु साध्ये | परन्तु अत्र अधुना अनुमितिः न इष्यते; इष्यते व्याप्तिलक्षणाम्‌ | तर्हि साध्याभाववदवृत्तित्वं हेतौ इति रीत्या हेतुमद्वृत्तित्वं साध्ये इति वदामः चेत्‌ सम्यगेव किल | हेतुमद्वृत्तित्वम्‌— यत्र यत्र हेतुः तत्र तत्र साध्यम्‌ इति अर्थे इदम्‌ अन्वयव्याप्तेः लक्षणं भवतु |</big>
 
 
<big>किन्तु अत्र एका वार्ता अस्ति यत्‌ 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति वाक्ये, सतिसप्तम्याः बलेन व्याप्यव्यापकभावः सिध्यति | यदा एकेन अखण्डपदेन परिवर्तयामः, तदानीं सतिसप्तमी नास्ति | न 'यत्र यत्र' इति अस्ति, न वा सतिसप्तमी | फलतः 'हेतुमद्वृत्तित्वम्‌' इति अखण्डपदे वस्तुतस्तु केवलं सामान्याधिकरण्यमस्ति | 'हेतुमद्वृत्तित्वम्‌' इत्युक्ते 'यत्र हेतुः अस्ति, तत्र साध्यमस्ति' | ‘हेतुमति—हेतु-अधिकरणे—वृत्तित्वम्‌ अस्ति साध्ये | अस्मिन्‌ वाक्ये किमपि नास्ति यस्य बलेन 'यत्र यत्र' इति अर्थः साध्येत |</big>
 
 
 
teachers
746

edits