10---nyAyashAstram/29---lakShaNam-ekam-akhaNDapadaM-kimartham: Difference between revisions

spacing done
(Added texts)
(spacing done)
Line 27:
 
<big>अन्य रीत्या अपि इयं समस्या प्रदिपादयितुं शक्यते | अव्याप्ति-अतिव्याप्ति-असम्भवरूपदोषत्रयरहितो धर्मः असाधारणधर्मः | अखण्डः एकः धर्मः नोच्यते चेत्, तद्‌ अव्याप्ति-अतिव्याप्ति-असम्भवरूपदोषत्रयराहित्यम्‌ इति दर्शयितुं न शक्यते | दलत्रयं वा दलचतुष्टयं वा भवतु, परन्तु विशिष्टः एकः धर्मः अपेक्षितः |</big>
 
 
<big>चक्षुर्ग्राह्यत्वविशिष्टचक्षुर्भिन्नेन्द्रियाग्राह्यत्वविशिष्टगुणत्वरूपधर्मः रूपस्य लक्षणम्‌ | चक्षुर्ग्राह्यत्वविशिष्टचक्षुर्भिन्नेन्द्रियाग्राह्यत्वविशिष्टगुणत्वं रूपे अस्ति इति प्रदर्शयितुं शक्नुमः | अपि च केवलं रूपे अस्ति | सर्वेषु रूपेषु अस्ति; रूपं विहाय अन्यत्र कुत्रापि नास्ति | जानीमः यतोहि एकस्मात्‌ अखण्डरूपधर्मत्वात्‌ अस्य परीक्षणं कर्तुं शक्यते | यदि अखण्डः एकः धर्मः न भवति, तर्हि 'अव्याप्तिः न भवति', ‘अतिव्याप्तिः न भवति' इति दर्शयितुं न शक्यते |</big>
teachers
746

edits