12---vyAvahArikii-shikShikA/RukAraH-ityanena-Rukarah-rakaraRukarau: Difference between revisions
12---vyAvahArikii-shikShikA/RukAraH-ityanena-Rukarah-rakaraRukarau (view source)
Revision as of 04:47, 22 May 2021
, 2 years agono edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ") |
No edit summary |
||
Line 1:
'''<big>विषयः'''—''' (ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ</big>'''
<big>'''प्रश्नः'''</big>
<big>'रकारः' इति प्रयोगः साधुः ?</big>
<big>'ऋकारः' इत्यनेन 'ऋकारः' एव गृह्यते अथवा रकारऋकारौ ?</big>
<big>पितॄणाम् इत्यस्मिन् णत्वं कथं सिध्यति ?</big>
<big>'''उत्तरम्'''</big>
<big>'रकारः' इति प्रयोगः भवति | ऋकारः 'ऋकारः' एव, एकेन मतेन | ऋकारः इत्यनेन 'ऋकारः' च 'रकारः' गृह्येते अपरेण मतेन | मतमवलम्ब्य पितॄणाम् इत्यस्मिन् णत्वस्य विधानं चिन्तनीयम् |</big>
<big>- सर्वेभ्यः वर्णेभ्यः कार-प्रत्ययः भवति, '''वर्णात् कारः''' इति वार्तिकेन (३।३।१०८ इति सूत्रस्य पार्श्वे) | (वार्तिकं कात्यायनस्य अष्टाध्याय्याः उपरि आलोचनम् |)</big>
<big>- अकारः, इकारः, उकारः इत्यादीनि रूपाणि | '''वर्णात् कारः''' इति वार्तिकेन सर्वे वर्णाः अन्तर्भूताः इति कृत्वा रकारः अपि भवति |</big>
<big>- केचन वैयाकरणाः वदन्ति यत् यद्यपि भवति, किन्तु 'रकारः' साधुप्रयोगो नास्ति, तस्मिन् साधुत्वं नास्ति | 'रकारः' विरलतया एव दृश्यते; एषां कथनं यत् 'रेफः' इत्येव साधुप्रयोगः |</big>
<big>- शिष्टप्रयोगः अस्ति न वा इति विवादास्पदं स्यात्, किन्तु '''वर्णात् कारः''' इत्यनेन रकारः तु विधीयते एव |</big>
<big>- रवर्णात् इफ-प्रत्ययोऽपि भवति '''रादिफः''' (रात् इफः) इति वार्तिकेन (३।३।१०८ इति सूत्रस्य पार्श्वे) | र + इफ → '''आद्गुणः''' (६.१.८७) इत्येनन गुणसन्धिः → 'रेफः' निष्पन्नः |</big>
<big>- अधुना ऋकारः इत्यस्य कः अर्थः, इति विषये बहुकालात् महती चर्चा | एकस्मिन् पक्षे ऋकारः इत्यनेन 'ऋकारः' एव गृह्यते, अपरस्मिन् पक्षे 'रकारः' अपि, ऋकारः अपि गृह्येते |</big>
<big>- अधुना '''रषाभ्यां नो णः समानपदे''' (८.४.१) इति प्रमुखं णत्वविधायकसूत्रम् |</big>
<big>- अनेन रेफात् षकाराच्च, समानपदे परस्य नकारस्य णत्वं भवति | काशिकाकारेण "रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति" |</big>
<big>- अत्र 'रेफात्' इत्यनेन कः वर्णः गृह्यते इति प्रश्नः | 'रकारः' एव, अथवा 'रकारः' अपि, 'ऋकारः' अपि |</big>
<big>- काशिकाकारः वदति यत् "श्रुतिसामान्यनिर्देशात् सिद्धम्" | नाम ''''रषाभ्यां'''<nowiki/>' इत्यस्मिन् 'र' इत्युक्ते र-ध्वनिः | स च र-ध्वनिः रकारेऽपि अस्ति, ऋकारेऽपि | यतोहि ऋकारस्य श्रवणेन रकारोऽपि अन्तरभवति | </big>
<big>- यथा एकारस्य अन्तर्गते अकार-इकारौ स्तः, इति द्वयोः वर्णयोः मेलनेन एकारः इति सन्धिवर्णः उत्पद्यते, इति अयम् एकः पक्षः अस्ति |</big>
<big>- तद्वत् ऋकारस्य मध्ये द्वौ रवर्णौ स्तः इति एकः पक्षः | ऋकारः रवर्णऋवर्णयोः सूचकः इति तेषां मतम् |</big>
<big>- अतः पक्षद्वयम् | वर्णेषु वर्णान्तरसदृशाः ये वर्णाः सन्ति, तेषां तद्वद्वर्णत्वेन ग्रहणम् अस्ति न वा इति विचारः क्रियते महाभाष्ये |</big>
<big>- वर्णग्रहणेन वर्णान्तरग्रहणम् अस्ति इति पक्षे तु ऋकारे रकारः अन्तर्भवति |</big>
<big>- अस्मिन् पक्षे '''रषाभ्यां नो णः समानपदे''' (८.४.१) इति सूत्रेण न केवलं 'रकारात्' अपि तु ऋकारात् अपि परस्य नकारस्य णत्वं भवति | यथा पितॄणां, मातॄणां, भ्रातॄणाम् इत्यादिषु स्थलेषु |</big>
<big>- वर्णग्रहणेन सदृशवर्णान्तरग्रहणं नास्ति इति पक्षे तु पितॄणाम् इत्यादिषु स्थलेषु '''रषाभ्यां नो णः समानपदे''' (८.४.१) इति सूत्रेण णत्वं न भवति |</big>
<big>- तदानीं '''ऋवर्णान्नस्य णत्वं वाच्यम्''' इति वार्तिकेन पितॄणाम् इत्यादिषु स्थलेषु णत्वं भवति |</big>
|