12---vyAvahArikii-shikShikA/dansatidasati: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः— दंशति/दशति</big>'''
<please replace this with content from corresponding Google Sites page>
 
'''<big>प्रश्नः</big>'''
 
<big>"वृश्चिकः दशति" उत "वृश्चिकः दंशति" ? कस्साधुः ?</big>
 
'''<big>उत्तरम्</big>'''
 
<big>"वृश्चिकः दशति" इत्येव साधुः प्रयोगः |</big>
 
<big>- दंश दशने इति धातुः भ्वादिगणीयः | अनुबन्धलोपानन्तरं दंश् इति लौकिकधातुः निष्पन्नः |</big>
 
<big>- लट्लकारे, शप् विकरणप्रत्यये विहिते, प्रथमपुरुषैकवचने दंश् + शप् + तिप् इति कार्यम् |</big>
 
<big>- अधुना शपि परे '''दंशसञ्जस्वञ्जां शपि''' (६.४.२५) इत्यनेन सूत्रेण दंश्‌ इत्यस्य अङ्गस्य नकारस्य लोपः भवति |</big>
 
<big>- अतः दशति इत्येव भवति न तु दंशति | दंश् + शप् + तिप् -> दश् + अ + ति -> दशति |</big>
 
<big>- वस्तुतः दंश इत्यस्मिन् धातौ यः अनुस्वारः दृश्यते सः मूलतः नकारः एव |</big>
 
<big>- '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन सूत्रेण झलि अपदान्तस्य च नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | दन्श -> दंश |</big>
 
<big>- अतः दंश् + शप् इत्यस्यां स्थित्यां '''दंशसञ्जस्वञ्जां शपि''' (६.४.२५) इत्यनेन अनुस्वारस्य लोपः भवति | दंश् + शप् -> दश् + शप् |</big>
 
<big>- लिटि आर्धधातुकत्वात्‌ शपः अभावे अनुस्वारः तिष्ठति, ददंश | तथैव लृट्‌-लकारे अपि अनुस्वारः तिष्ठति |</big><big>- लृटि '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः, दङ्क्ष्यति |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits