दंशति/दशति

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/dansatidasati
Jump to navigation Jump to search

विषयः— दंशति/दशति


प्रश्नः

"वृश्चिकः दशति" उत "वृश्चिकः दंशति" ? कस्साधुः ?


उत्तरम्

"वृश्चिकः दशति" इत्येव साधुः प्रयोगः |


- दंश दशने इति धातुः भ्वादिगणीयः | अनुबन्धलोपानन्तरं दंश् इति लौकिकधातुः निष्पन्नः |

- लट्लकारे, शप् विकरणप्रत्यये विहिते, प्रथमपुरुषैकवचने दंश् + शप् + तिप् इति कार्यम् |

- अधुना शपि परे दंशसञ्जस्वञ्जां शपि (६.४.२५) इत्यनेन सूत्रेण दंश्‌ इत्यस्य अङ्गस्य नकारस्य लोपः भवति |

- अतः दशति इत्येव भवति न तु दंशति | दंश् + शप् + तिप् -> दश् + अ + ति -> दशति |

- वस्तुतः दंश इत्यस्मिन् धातौ यः अनुस्वारः दृश्यते सः मूलतः नकारः एव |

- नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन सूत्रेण झलि अपदान्तस्य च नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति |दन्श-> दंश |

- अतः दंश् + शप् इत्यस्यां स्थित्यां दंशसञ्जस्वञ्जां शपि (६.४.२५) इत्यनेन अनुस्वारस्य लोपः भवति | दंश् + शप् -> दश् + शप् |

- लिटि आर्धधातुकत्वात्‌ शपः अभावे अनुस्वारः तिष्ठति, ददंश | तथैव लृट्‌-लकारे अपि अनुस्वारः तिष्ठति |- लृटि अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः, दङ्क्ष्यति |