गीतम् / गीताम्

विषयः - गीतम् / गीताम्


प्रश्नः

'गायिका गीतं गायति' उत 'गायिका गीतां गायति'- अनयोर्मध्ये कः प्रयोगः साधुः?


उत्तरम्

'गायिका गीतं गायति' इत्येव साधुप्रयोगः सामान्ये |


- गीतः, गीता, गीतम् इत्येतानि गै-धातोः क्त-प्रत्ययान्तरूपाणि वर्तन्ते किन्तु गीतम् इत्येव अस्मिन् प्रसङ्गे योग्यम् |

- गै शब्दे इति भ्वादिगणीयः परस्मैपदी अनिट् धातुः | गायति इति लटि प्रथमपुरुषैकवचनान्तरूपम् |

- निष्ठा (३.२.१०२) इत्यनेन सूत्रेण सर्वेभ्यः धातुभ्यः निष्ठासंज्ञकप्रत्ययः भूतकालर्थे विधीयते |

- क्तक्तवतू निष्ठा (१.१.२६) इत्यनेन सूत्रेण क्त-प्रत्ययस्य क्तवतु-प्रत्ययस्य च निष्ठासंज्ञा |

- गै-धातोः क्त-प्रत्यये विहिते गै + क्त, आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण अशिति प्रत्यये परे एजन्तानाम्‌ आत्त्वम्‌, गै + क्त गा + त |

- घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन गा-धातोः ईत्वं भवति हलादि-कित्‌-ङित्‌-आर्धधातुक-प्रत्यये परे, गा + त गी + त गीत इति प्रातिपदिकम् |

- तदा गीत इत्यस्य यथासामान्यं पुंलिङ्गे गीतः, स्त्रीलिङ्गे गीता, नपुंसकलिङ्गे गीतम् इति क्तान्तरूपाणि निष्पद्यन्ते भूतकालार्थे | 'ह्यः बालकेन गानं गीतम्‌ आसीत्‌' इति उदाहरणम्‌ |

- किञ्च लोके सुप्रसिद्धः प्रयोगः भावार्थे (न तु भूतकालार्थे) गीतम् इति, गानम् इत्यस्मिन् अर्थे प्रयुज्यमानं पदम् इदम् |

- यथा 'गायिका गीतं गायति' -- अत्र गीतम् इति भावार्थकः प्रयोगः न तु भूतकालार्थकः | अयं प्रयोगः नपुंसकलिङ्गे एव भवति |

- नपुंसके भावे क्तः (३.३.११४) इति सूत्रेण सर्वेभ्यः धातुभ्यः क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे च |

- भावार्थे विधीयमानस्य क्त-प्रत्ययस्य कालविशिष्टः अर्थो नास्ति | तस्मात्‌ 'भूतकालर्थे' न; भावार्थे 'कालसामान्यम्‌' इत्युच्यते |

- 'गीतं गायति' इत्यस्मिन्‌ कर्मपदत्वेन प्रयुज्यमानः गीतम् इति क्तान्तशब्दः गै इत्यस्य भावसूचकः | अस्य नित्यनपुंसकलिङ्गत्वम् |

- 'बालिकया गाथः गीतः', 'बालिकया कविता गीता', 'बालिकया सूक्तं गीतम्‌' इत्येषु प्रयोगेषु गै-धातोः भूतकालार्थकाः क्तान्तप्रयोगाः |

- 'या भगवता गीता, सा भगवद्गीता' इत्यत्र अपि भूतकालार्थकः क्तान्तप्रयोगः |

- भूतकालार्थे त्रिषु लिङ्गेषु भवति; भगवद्गीतायाः प्रसङ्गे स्त्रियाम्‌ उपनिषद्‌ विशेष्यम्‌ इति उच्यते; अनेन गीता इति विशेषणं 'गीता' अपि स्त्रियाम्‌ |

- केषुचित्‌ शब्दकोशेषु 'गीता' स्त्रियाम्‌ इति सूच्यते | अनेन 'भावार्थे स्त्रियां क्त भवति किम्‌ ?' इति प्रश्नः उदेति |

- अत्र वक्तव्यं यत्‌ गीता भावार्थे नास्ति अपि तु भूतकालार्थे एव | स्त्रीलिङ्गविशिष्ट-भावार्थक-क्तान्तरूपं न भवति | पाणिनिना अपि तदर्थकं किमपि सूत्रं न रचितम्‌ |

- कोशेषु 'गीता' इति आध्यात्मिकग्रन्थानां सूचकम्‌ इति रूढिः | 'शिवगीता, रामगीता, भगवद्गीता' इति |

- तत्र 'गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः | या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता |' इति प्रसिद्धवाक्यम्‌ |

- अनेन विशेषतया भगवद्गीता इत्यस्मिन् अर्थे प्रयुज्यते गीता-शब्दः | अपि च यथोक्तं, भूतकालार्थे न तु लिङ्गविशेष-भावार्थे |

- भावार्थे 'गीतम्' इत्येव साधु | 'गायिका गीतां गायति' इति वाक्यं भगवद्गीतायाः एव सूचकं, तत्र च गीता इति क्तान्तरूपं भूतकालार्थे |

- 'बालकः लिखितं पठति' इत्यत्र लिखितम् इति भावार्थकः क्तान्तप्रयोगः | 'बालकेन पुस्तकं लिखितम्‌' इत्यत्र भूतकालार्थकः क्तान्तप्रयोगः |