12---vyAvahArikii-shikShikA/grahisyatigrahisyati: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः'''—''' ग्रहीष्यति/ग्रहिष्यति</big>'''
<please replace this with content from corresponding Google Sites page>
 
'''<big>प्रश्नः</big>'''
 
<big>"बालः कन्दुकं ग्रहीष्यति" उत "बालः कन्दुकं ग्रहिष्यति" ? कस्साधुः ?</big>
 
'''<big>उत्तरम्</big>'''
 
<big>"बालः कन्दुकं ग्रहीष्यति" इत्येव साधुः प्रयोगः |</big>
 
<big>- ग्रह्-धातोः लृट्-लकारस्य विवक्षायां स्य-प्रत्ययः विहितः भवति  '''स्यतासी लृलुटोः''' (३.१.३३) इत्यनेन सूत्रेण |</big>
 
<big>- स्य-प्रत्ययः आर्धधातुकः वालादिः प्रत्ययः च | स्य-प्रत्ययस्य '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन सूत्रेण इडागमः भवति |</big>
 
<big>- ग्रह्-धातुः अपि सेट्, अर्थात् इडागमानुकूलः | अतः ग्रह्-धातुतः स्य-प्रत्यये विहिते इडागमः -- ग्रह + इ + स्य + ति इति भवति |</big>
 
<big>- '''ग्रहोऽलिटि दीर्घः''' (७.२.३७) इत्यनेन सूत्रेण ग्रह्-धातुतः विहितस्य इडागमस्य धीर्घत्वं भवति लिट्-भिन्नेषु प्रसङ्गेषु |</big>
 
<big>- अतः लृटि प्रथमपुरुषैकवचने ग्रह + '''इ''' + स्य + ति '''→''' ग्रह + '''ई''' + स्य + ति '''→''' ग्रहीष्यति इति रूपम् |</big>
 
<big>- '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌, इकारः इण्‌-प्रत्याहारे इति कारणेन सकारः '''→''' षकारः |</big>
 
<big>- तथैव अन्येषु पुरुषेषु वचनेषु च, ग्रहीष्यतः, ग्रहीष्यन्ति, ग्रहीष्यसि, ग्रहीष्यथः इत्यादीनि रूपाणि भवन्ति लृट्-लकारे |</big>
 
<big>- अनया एव प्रक्रियया ग्रह्-धातुतः तुमुन्-प्रत्यये विहिते अपि इटः धीर्गत्वम् | ग्रह् + तुमुन् '''→''' ग्रह् + इ + तुमुन् '''→''' ग्रह् + ई + तुमुन् '''→''' ग्रहीतुम् |</big>
 
<big>- यत्र यत्र ग्रह्‌-धातोः विहितस्य प्रत्ययस्य इडागमो भवति, तत्र तत्र स च इडागमः दीर्घः स्यात्‌ |</big>
 
<big>- तृच्‌ = ग्रहीता, स्य + शानच्‌ = ग्रहीष्यमाणः, क्त = गृहीतः, क्तवतु = गृहीतवान्‌, तव्यत्‌ = ग्रहीतव्यम्‌, क्तिन्‌ = गृहीतिः, क्त्वा = गृहीत्वा</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits