ग्रहीष्यति/ग्रहिष्यति
विषयः— ग्रहीष्यति/ग्रहिष्यति
प्रश्नः
"बालः कन्दुकं ग्रहीष्यति" उत "बालः कन्दुकं ग्रहिष्यति" ? कस्साधुः ?
उत्तरम्
"बालः कन्दुकं ग्रहीष्यति" इत्येव साधुः प्रयोगः |
- ग्रह्-धातोः लृट्-लकारस्य विवक्षायां स्य-प्रत्ययः विहितः भवति स्यतासी लृलुटोः (३.१.३३) इत्यनेन सूत्रेण |
- स्य-प्रत्ययः आर्धधातुकः वालादिः प्रत्ययः च | स्य-प्रत्ययस्य आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सूत्रेण इडागमः भवति |
- ग्रह्-धातुः अपि सेट्, अर्थात् इडागमानुकूलः | अतः ग्रह्-धातुतः स्य-प्रत्यये विहिते इडागमः -- ग्रह + इ + स्य + ति इति भवति |
- ग्रहोऽलिटि दीर्घः (७.२.३७) इत्यनेन सूत्रेण ग्रह्-धातुतः विहितस्य इडागमस्य धीर्घत्वं भवति लिट्-भिन्नेषु प्रसङ्गेषु |
- अतः लृटि प्रथमपुरुषैकवचने ग्रह + इ + स्य + ति → ग्रह + ई + स्य + ति → ग्रहीष्यति इति रूपम् |
- आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्, इकारः इण्-प्रत्याहारे इति कारणेन सकारः → षकारः |
- तथैव अन्येषु पुरुषेषु वचनेषु च, ग्रहीष्यतः, ग्रहीष्यन्ति, ग्रहीष्यसि, ग्रहीष्यथः इत्यादीनि रूपाणि भवन्ति लृट्-लकारे |
- अनया एव प्रक्रियया ग्रह्-धातुतः तुमुन्-प्रत्यये विहिते अपि इटः धीर्गत्वम् | ग्रह् + तुमुन् → ग्रह् + इ + तुमुन् → ग्रह् + ई + तुमुन् → ग्रहीतुम् |
- यत्र यत्र ग्रह्-धातोः विहितस्य प्रत्ययस्य इडागमो भवति, तत्र तत्र स च इडागमः दीर्घः स्यात् |
- तृच् = ग्रहीता, स्य + शानच् = ग्रहीष्यमाणः, क्त = गृहीतः, क्तवतु = गृहीतवान्, तव्यत् = ग्रहीतव्यम्, क्तिन् = गृहीतिः, क्त्वा = गृहीत्वा