12---vyAvahArikii-shikShikA/hanti-ghnanti: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः''''''''''''—'''''''''''' हन्ति/घ्नन्ति</big>'''
<please replace this with content from corresponding Google Sites page>
 
<big>'''प्रश्नः'''</big>
 
<big>"दुर्जनाः प्राणिनं हन्ति" , "दुर्जनाः प्राणिनं घ्नन्ति", "दुर्जनः प्राणिनं हन्ति" -- एषु प्रयोगेषु कः प्रयोगः साधुः ?</big>
 
'''<big>उत्तरम्</big>'''
 
<big>"दुर्जनः प्राणिनं हन्ति", "दुर्जनाः प्राणिनं घ्नन्ति" -- इमौ द्वौ प्रयोगौ साधू स्तः |</big>
 
<big>- हन्-धातुः अदादिगणीयः | अदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन सूत्रेण धातुतः विहितस्य शपः लुक्, नाम शपः लोपः भवति |</big>
 
<big>- उदाहरणत्वेन, हन् + शप् + ति '''→''' हन् + ति इति भवति '''अदिप्रभृतिभ्यः शपः''' इत्यनेन सूत्रेण | शपः लोपे हन् इति अनुनासिकान्तम् अङ्गम् अवशिष्यते प्रत्ययात् पूर्वम् |</big>
 
<big>- लट्-लकारे प्रथमपुरुषस्य एकवचने हन् + ति इत्यस्यां दशायां धातुप्रत्यययोः मेलनं भूत्वा हन्ति इति रूपं निष्पन्नं भवति | अतः '''"दुर्जनः प्राणिनं हन्ति"''' इति साधुः प्रयोगः |</big>
 
<big>- हन् + ति '''→''' हं + ति,  '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नकारस्य अनुस्वारः | तदा '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन परसवर्णादेशः, हं + ति '''→''' हन् + ति '''→''' हन्ति |</big>
 
<big>- लट्-लकारे प्रथमपुरुषस्य बहुवचने "अन्ति" इति तिङ्-प्रत्ययः | अयम्‌ अजादिः प्रत्ययः | सार्वधातुकः च अपित् प्रत्ययः इत्यतः, ङित्‌ इव भवति |</big>
 
<big>- "अन्ति" ङिद्वत्, अजादिः इत्यतः हन् + अन्ति '''→''' ह् न् + अन्ति इति भवति '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यनेन सूत्रेण |</big>
 
<big>- '''गमहनजनखनघसां लोपः क्ङित्यनङि''' इत्यनेन सूत्रेण हन्-धात्वङ्गे उपधायां स्थितस्य अकारस्य लोपः अजादि-कित्‌ङित्‌-प्रत्यये परे |</big>
 
<big>- ह् न् + अन्ति इत्यस्यां दशायां हकारात् परे नकारः अस्ति | '''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) इत्यनेन हन्‌-धातोः हकारस्य स्थाने कवर्गादेशो भवति नकारे परे च |</big>
 
<big>- ह् न् + अन्ति '''→''' घ् न् + अन्ति '''→''' घ्नन्ति |</big>
 
<big>- '''हो हन्तेर्ञ्णिन्नेषु''' इत्यनेन हकारस्य स्थाने यदा कवर्गादेशो भवति तदा '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन तुल्यतमः आदेशः स्यात् |</big>
 
<big>- कवर्गेषु वर्णेषु घकारः हकारस्य तुल्यतमः वर्णः इत्यतः घकारः आदिष्टः भवति हकारस्य स्थाने |</big>
 
<big>- आहत्य लट्-लकारे प्रथमपुरुषस्य बहुवचने हन्-धातोः घ्नन्ति इति रूपम् | अतः '''"दुर्जनाः प्राणिनं घ्नन्ति"''' इति साधुः प्रयोगः |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits