हन्ति/घ्नन्ति

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/hanti-ghnanti
Jump to navigation Jump to search

विषयः-- हन्ति/घ्नन्ति


प्रश्नः

"दुर्जनाः प्राणिनं हन्ति" , "दुर्जनाः प्राणिनं घ्नन्ति", "दुर्जनः प्राणिनं हन्ति" -- एषु प्रयोगेषु कः प्रयोगः साधुः ?


उत्तरम्

"दुर्जनः प्राणिनं हन्ति", "दुर्जनाः प्राणिनं घ्नन्ति" -- इमौ द्वौ प्रयोगौ साधू स्तः |


- हन्-धातुः अदादिगणीयः | अदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन सूत्रेण धातुतः विहितस्य शपः लुक्, नाम शपः लोपः भवति |

- उदाहरणत्वेन, हन् + शप् + ति हन् + ति इति भवति अदिप्रभृतिभ्यः शपः इत्यनेन सूत्रेण | शपः लोपे हन् इति अनुनासिकान्तम् अङ्गम् अवशिष्यते प्रत्ययात् पूर्वम् |

- लट्-लकारे प्रथमपुरुषस्य एकवचने हन् + ति इत्यस्यां दशायां धातुप्रत्यययोः मेलनं भूत्वा हन्ति इति रूपं निष्पन्नं भवति | अतः "दुर्जनः प्राणिनं हन्ति" इति साधुः प्रयोगः |

- हन् + ति हं + ति,  नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन नकारस्य अनुस्वारः | तदा अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन परसवर्णादेशः, हं + ति हन् + ति हन्ति |

- लट्-लकारे प्रथमपुरुषस्य बहुवचने "अन्ति" इति तिङ्-प्रत्ययः | अयम्‌ अजादिः प्रत्ययः | सार्वधातुकः च अपित् प्रत्ययः इत्यतः, ङित्‌ इव भवति |

- "अन्ति" ङिद्वत्, अजादिः इत्यतः हन् + अन्ति ह् न् + अन्ति इति भवति गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यनेन सूत्रेण |

- गमहनजनखनघसां लोपः क्ङित्यनङि इत्यनेन सूत्रेण हन्-धात्वङ्गे उपधायां स्थितस्य अकारस्य लोपः अजादि-कित्‌ङित्‌-प्रत्यये परे |

- ह् न् + अन्ति इत्यस्यां दशायां हकारात् परे नकारः अस्ति | हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यनेन हन्‌-धातोः हकारस्य स्थाने कवर्गादेशो भवति नकारे परे च |

- ह् न् + अन्ति घ् न् + अन्ति घ्नन्ति |

- हो हन्तेर्ञ्णिन्नेषु इत्यनेन हकारस्य स्थाने यदा कवर्गादेशो भवति तदा स्थानेऽन्तरतमः (१.१.५०) इत्यनेन तुल्यतमः आदेशः स्यात् |

- कवर्गेषु वर्णेषु घकारः हकारस्य तुल्यतमः वर्णः इत्यतः घकारः आदिष्टः भवति हकारस्य स्थाने |

- आहत्य लट्-लकारे प्रथमपुरुषस्य बहुवचने हन्-धातोः घ्नन्ति इति रूपम् | अतः "दुर्जनाः प्राणिनं घ्नन्ति" इति साधुः प्रयोगः |