जागृतवान् / जागरितवान्

12---vyAvahArikii-shikShikA/jagrtavanjagaritavan

विषयः--जागृतवान् / जागरितवान्


प्रश्नः

"शिशुः जागृतवान्" उत "शिशुः जागरितवान्" - अनयोः कः प्रयोगः साधुः ?


उत्तरम्

"शिशुः जागरितवान्" इत्येव साधुः प्रयोगः |


- जागृ, निद्राक्षयार्थे इति अदादिगणीयः सेट् धातुः | जागृ-धातोः क्तवतु-प्रत्यये परे जागरितवान् इति पुंलिङ्गे रूपम् |

- वस्तुतः क्तवतु कित् प्रत्ययः इत्यतः क्तवतु-प्रत्यये परे जागृ इत्यस्मिन् अङ्गे गुणः निषिध्यते क्क्ङिति च (१.१.५) इति सूत्रेण |

- किन्तु जागृ-धातोः किति प्रत्यये परे गुणः भवति जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन सूत्रेण |

- जाग्रोऽविचिण्णल्ङित्सु इत्यनेन जागृ-धातौ ऋकारस्य वृद्धिप्राप्तिः चेत्‌, गुणनिषेधः अथवा वृद्धिनिषेधः चेत्‌, तस्य ऋकारस्य गुणः भवति |

- जागृ + क्तवतु इत्यस्यां स्थित्यां, क्तवतु-प्रत्ययस्य कित्त्वात् गुणनिषेधे सति जाग्रोऽविचिण्णल्ङित्सु इत्यनेन गुणकार्यं; जागृ + क्तवतु → जागर् + क्तवतु |

- क्तवतु इति प्रत्ययः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सेट् | जागृ-धातुः अपि सेट् | अतः इडागमः भवति |

- आहत्य, जागृ + क्तवतु जागृ + इ + तवत् जागर् + इ + तवत् जागरितवत् इति प्रातिपदिकम् | एकवचने, पुंलिङ्गे जागरितवान्, स्त्रीलिङ्गे जागरितवती |

- तथैव अपरेषु कित्सु प्रत्ययेषु परेष्वपि जागृ-धातौ गुणकार्यम् | यथा, जागृ + क्त जागर् + इ + त जागरित, जागृ + क्त्वा जागर् + इ + त्वा जागरित्वा |

- कित्‌ङित्‌-भिन्नेषु प्रत्ययेषु, यदि केनापि सूत्रेण गुणस्य निषेधः न विधीयते तर्हि सामान्यरीत्या जागृ-धातौ ऋकारस्य गुणः |

- यथा, जागृ + तुमुन् इत्यस्मिन् सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः | जागृ + तुमुन् जागर् + इ + तुम् जागरितुम् |