कर्तृ-पितृ-शब्दयो: भेदः
कर्तृ-पितृ-शब्दयो: भेदः
भ्राता भ्रातरौ भ्रातरः
पिता पितरौ पितरः
माता मातरौ मातरः
परन्तु—
कर्ता कर्तारौ कर्तारः
नेता नेतारौ नेतारः
द्रष्टा द्रष्टारौ द्रष्टारः
किमर्थं कतृ-शब्दादिषु स्वरः दीर्घः ?
एते सर्वे कृदन्तशब्दाः, विशेषतश्च तृच्-प्रत्ययान्ताः |
भ्रातृ, पितृ, मातृ, कर्तृ, नेतृ, द्रष्टृ इत्येतानि सर्वाणि तृजन्तप्रातिपदिकानि | भ्रातृ, पितृ, मातृ इति अपि तथा, कर्तृ, नेतृ, द्रष्टृ अपि तथा | समूहद्वयेऽपि सर्वे सदस्याः तृजन्ताः | सर्वे ऋकारान्तशब्दाः, निर्मिताश्च तृच्-प्रत्ययेन सह |
द्वयोः समूहयोः मध्ये भेदः कः इति चेत्, अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृ̄णाम् (६.४.११) इति सूत्रेण एकस्मिन् समूहे सदस्यीभूतशब्दानाम् उपधा-स्वरः दीर्घो भवति विशिष्ट-सुप्-प्रत्ययेषु परेषु | ते च सुप्-प्रत्ययाः के इति चेत्, प्रथमाविभक्तिसम्बद्धाः सर्वे, पुनः द्वितीयाविभक्तिसम्बद्धाः द्विवचनपर्यन्तम् | आहत्य सु, औ, जस्, अम्, औट् इति पञ्च् सुप्-प्रत्ययाः; एषां च सङ्गृह्य नामकरणञ्च कृतम् अस्ति 'सर्वनामस्थानम्' | एते सर्वे पञ्च सुप्-प्रत्ययाः सर्वनामस्थानसंज्ञकाः; इत्युक्तौ एषां सर्वनामस्थानसंज्ञा अस्ति |
भ्रातृ, पितृ, मातृ इति शब्दाः उणादिपाठे निर्मिताः; ते च अस्मिन् सूत्रे नान्तर्भूताः अतः एषाम् उपाधादीर्घो न भवति | केचन परिगणिताः उणादिपाठे निर्मिताः शब्दाः उपधादीर्घादेशं गृण्हन्ति, ते च अस्मिन्नेव सूत्रे उक्ताः | यथा स्वसृ-शब्दः— स्वसा स्वसारौ स्वसारः | स्वसृ-शब्दारभ्य ये शब्दाः उक्ताः अस्मिन् सूत्रे, तेषां दीर्घादेशो भवति | भ्रातृ, पितृ, मातृ इति शब्दाः अस्मिन् सूत्रे न पठिताः अतः तेषां दैर्घ्यं न भवति |
Swarup – May 2018