12---vyAvahArikii-shikShikA/pancasapancasad: Difference between revisions

m
Protected "पञ्चष / पञ्चषड्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "पञ्चष / पञ्चषड्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(7 intermediate revisions by 2 users not shown)
Line 1:
<big>'''विषयः - {{DISPLAYTITLE:पञ्चष / पञ्चषड्'''</big>}}
<big>'''[[पञ्चष / पञ्चषड्|विषयः - <u>पञ्चष / पञ्चषड्]]</u>'''</big>
 
<big>'''प्रश्नः'''</big>
 
<big>'''"पञ्चषाणि सस्यानि सन्ति" उत "पञ्चषड् सस्यानि सन्ति " -- कः साधुः ?'''</big>
 
<big>'''<u>प्रश्नः</u>'''</big>
<big>'''"पञ्चषाः वृक्षाः सन्ति" उत "पञ्चषड् वृक्षाः सन्ति " -- कः साधुः ?'''</big>
 
<big>'''"पञ्चषाणि सस्यानि सन्ति" उत "पञ्चषड् सस्यानि सन्ति " -- कः साधुः ?'''</big>
<big>किञ्चित्‌ चिन्तनं कृत्वा मनसि समाधानम्‌ ऊहताम्‌ |</big>
 
<big>'''"पञ्चषाः वृक्षाः सन्ति" उत "पञ्चषड् वृक्षाः सन्ति " -- कः साधुः ?'''</big>
<big>तदा उत्तरार्थं प्रतिपादनार्थञ्च अयं जालपुटः अवलोकनीयः--</big>
 
<big>'''[[पञ्चष / पञ्चषड्|विषयः - पञ्चष / पञ्चषड्]]'''</big>
 
<big>तत्र सर्वोपरि लभ्यते अद्यतनपत्रम्‌ | ततः अधोभागे क्रमेण "व्यावहारिकी शिक्षिका" इत्यस्य सर्वाणि पत्राणि लभ्यन्ते |  </big>
 
<big>धन्यवादः'''<u>उत्तरम्</u>'''</big>
 
<big>"पञ्चषाणि सस्यानि सन्ति" च "पञ्चषाः वृक्षाः सन्ति" इत्येव साधू प्रयोगौ |</big>
<big>रक्षा</big>
 
 
<big>- द्वित्राः, त्रिचतुराः, चतुःपञ्चाः, पञ्चषाः इत्यादयः सङ्ख्येयवाचकत्वेन असकृत् श्रूयन्ते | *</big>
 
<big>- पञ्चषाः इत्यनेन 'पञ्च वा षड् वा' इत्यर्थे बहुव्रीहिसमासः | अत्र 'वा' इत्यस्य संशयार्थः |</big>
 
<big>- पञ्चन्‌, षष् इति प्रातिपदिकद्वयं नित्यं बहुवचनान्तम्‌ | तदर्थं प्रथमाविभक्तौ सु-औ-जस्‌ इत्येषु बहुवचनार्थे जस्‌ इत्येव विधीयते |</big>
 
<big>- '''पञ्चन्‌ जस्‌ + षष् जस्‌''' इति अलौकिकविग्रहः |</big>
 
<big>- पञ्चन्‌-शब्दः नकारान्त-सङ्ख्यावाचकः | षष्-शब्दः षकारान्त-सङ्ख्यावाचकः |</big>
 
<big>- '''ष्णान्ता षट्‌''' (१.१.२४) इत्यनेन षान्तानां नान्तानां च सङ्ख्यावाचकानां षट्‌-संज्ञा भवति |</big>
 
<big>- पञ्चन्‌ इत्यस्य नान्तसङ्ख्यावाचकत्वात्‌ षट्‌-संज्ञा; षष्‌ इत्यस्य षान्तसङ्ख्यावाचकत्वात्‌ षट्‌-संज्ञा |</big>
 
<big>- षट्‌-संज्ञायां '''षड्भ्यो लुक्‌''' (७.१.२२) इत्यनेन षड्भ्यः परयोः जस्‌-शसोः लुक्‌ स्यात्‌ |</big>
 
<big>- तस्मात्‌ पञ्चन्‌, षष्‌ इति उभयोः जसः लुक्‌ भवति | पञ्चन्‌ जस्‌ + षष् जस्‌ '''→''' पञ्चन्‌ + षष् |</big>
 
<big>- प्रत्ययलक्षणे '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पञ्चन्‌ इत्यस्य पद-संज्ञा; '''नलोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन नकारलोपः, पञ्च इत्येव अवशिष्यते |</big>
 
<big>- तदा पञ्च + षष् '''→''' '''सङ्ख्ययाव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये''' (२.२.२५) इत्यनेन सूत्रेण बहुव्रीहिसमासः '''→''' पञ्चषष् |</big>
 
<big>- बहुव्रीहौ कृते '''बहुव्रीहौ सङ्ख्येये डजबहुगणात्''' (५.४.७३) इत्यनेन सङ्ख्येयबहुव्रीहिसमासात् डच्-प्रत्ययो विधीयते |</big>
 
<big>- पञ्चषष् + डच् इत्यस्यां स्थित्यां '''हलन्त्यम्‌''' (१.३.३), '''चुटू''' (१.३.७) इत्याभ्यां डच्-प्रत्ययस्य डकारचकारयोः इत्-संज्ञा |</big>
 
<big>- '''तस्य लोपः''' (१.३.९) इत्यनेन इत्-संज्ञकयोः डकारचकारयोः लोपः | पञ्चषष् + डच् '''→''' पञ्चषष् + अ |</big>
 
<big>- पञ्चषष् + अ '''→''' डच्-प्रत्ययस्य डित्त्वात्‌ परत्वात् च '''टेः''' (६.४.१४३) इत्यनेन, पञ्चषष् इत्यस्य 'अष्‌' इति टि-भागस्य लोपः → पञ्चष् + अ '''→''' पञ्चष</big>
 
<big>- अनेन पञ्चष इति अकारान्तं प्रातिपदिकसंज्ञकं समस्तपदं निष्पन्नं भवति |</big>
 
<big>- पञ्चष इत्यस्मिन्‌ बहुत्वम्‌ अतः बहुवचनार्थे जस्‌ इत्येव विधीयते | पञ्चष + जस्‌ '''→''' पञ्चषाः |</big>
 
<big>- एवं प्रातिपदिकसंज्ञकात् समस्तपदात् विभक्तिविहिते पुंलिङ्गे पञ्चषाः, स्त्रियां पञ्चषाः, नपुंसकलिङ्गे पञ्चषाणि इति रूपाणि |</big>
 
<big>- अनया एव प्रक्रियया द्वित्र, त्रिचतुर, चतुःपञ्च इत्यादयः सङ्ख्येयवाचकत्वेन बहुव्रीहिसमासाः, तेषाम् अकारान्तत्वं च |</big>
 
 
 
<big>रक्षा*</big>
 
<big>सङ्ख्यावाचकशब्दानां द्विधा प्रयोगो भवति-- सङ्ख्यावाचकत्वेन, सङ्ख्येयवाचकत्वेन च |</big>
 
<big>१) सङ्ख्यावाचकत्वेन शब्दस्य सङ्ख्यामात्रवाचकत्वं, तत्र शुद्धसङ्ख्या इत्येव अर्थः | एकं द्वे त्रीणि यत्र सङ्ख्या इत्यस्मिन्‌ एव अर्थे पयुज्यन्ते न तु केषाञ्चित्‌ वस्तूनां गणने, तत्र सङ्ख्यावाचकत्वम्‌ इत्युच्यते |</big>
 
<big>२) सङ्ख्येयवाचकत्वेन | सङ्ख्येय इति शब्दस्य अर्थः 'येषां विषये सङ्ख्यायाः प्रयोगं कुर्मः, ते पदार्थाः' इति सङ्ख्येयाः भवन्ति | यथा 'विंशतिः बालकाः'; अत्र बालकाः सङ्ख्येयाः | यस्य गणनं भवति, सः सङ्ख्येयः | 'विंशतिः बालकाः' इत्यस्मिन्‌ विंशति-शब्दः सङ्ख्येयवाचकत्वेन प्रयुक्तः; ततः सङ्ख्येयवाचकः विंशति-शब्दः | किमर्थम्‌ इति चेत्‌, विंशतिः इति शब्देन बालकाः बोध्यन्ते | यथा 'उन्नतः वृक्षः' इति प्रतीतौ उन्नत-शब्दः वृक्षं बोधयति, तथा |</big>
 
 
 
<big>** समासस्य विषयः नास्ति चेत्‌ षष् इति प्रातिपदिकस्य '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वम्‌ '''→''' षड्‌ '''→''' '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन चर्त्वम्‌ '''→''' षट्‌</big>
 
{{DEFAULTSORT:विषयः_-_पञ्चष_/_पञ्चषड्}}
page_and_link_managers, Administrators
5,094

edits