पञ्चष / पञ्चषड्
विषयः - पञ्चष / पञ्चषड्
प्रश्नः
"पञ्चषाणि सस्यानि सन्ति" उत "पञ्चषड् सस्यानि सन्ति " -- कः साधुः ?
"पञ्चषाः वृक्षाः सन्ति" उत "पञ्चषड् वृक्षाः सन्ति " -- कः साधुः ?
उत्तरम्
"पञ्चषाणि सस्यानि सन्ति" च "पञ्चषाः वृक्षाः सन्ति" इत्येव साधू प्रयोगौ |
- द्वित्राः, त्रिचतुराः, चतुःपञ्चाः, पञ्चषाः इत्यादयः सङ्ख्येयवाचकत्वेन असकृत् श्रूयन्ते | *
- पञ्चषाः इत्यनेन 'पञ्च वा षड् वा' इत्यर्थे बहुव्रीहिसमासः | अत्र 'वा' इत्यस्य संशयार्थः |
- पञ्चन्, षष् इति प्रातिपदिकद्वयं नित्यं बहुवचनान्तम् | तदर्थं प्रथमाविभक्तौ सु-औ-जस् इत्येषु बहुवचनार्थे जस् इत्येव विधीयते |
- पञ्चन् जस् + षष् जस् इति अलौकिकविग्रहः |
- पञ्चन्-शब्दः नकारान्त-सङ्ख्यावाचकः | षष्-शब्दः षकारान्त-सङ्ख्यावाचकः |
- ष्णान्ता षट् (१.१.२४) इत्यनेन षान्तानां नान्तानां च सङ्ख्यावाचकानां षट्-संज्ञा भवति |
- पञ्चन् इत्यस्य नान्तसङ्ख्यावाचकत्वात् षट्-संज्ञा; षष् इत्यस्य षान्तसङ्ख्यावाचकत्वात् षट्-संज्ञा |
- षट्-संज्ञायां षड्भ्यो लुक् (७.१.२२) इत्यनेन षड्भ्यः परयोः जस्-शसोः लुक् स्यात् |
- तस्मात् पञ्चन्, षष् इति उभयोः जसः लुक् भवति | पञ्चन् जस् + षष् जस् → पञ्चन् + षष् |
- प्रत्ययलक्षणे सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन पञ्चन् इत्यस्य पद-संज्ञा; नलोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन नकारलोपः, पञ्च इत्येव अवशिष्यते |
- तदा पञ्च + षष् → सङ्ख्ययाव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये (२.२.२५) इत्यनेन सूत्रेण बहुव्रीहिसमासः → पञ्चषष् |
- बहुव्रीहौ कृते बहुव्रीहौ सङ्ख्येये डजबहुगणात् (५.४.७३) इत्यनेन सङ्ख्येयबहुव्रीहिसमासात् डच्-प्रत्ययो विधीयते |
- पञ्चषष् + डच् इत्यस्यां स्थित्यां हलन्त्यम् (१.३.३), चुटू (१.३.७) इत्याभ्यां डच्-प्रत्ययस्य डकारचकारयोः इत्-संज्ञा |
- तस्य लोपः (१.३.९) इत्यनेन इत्-संज्ञकयोः डकारचकारयोः लोपः | पञ्चषष् + डच् → पञ्चषष् + अ |
- पञ्चषष् + अ → डच्-प्रत्ययस्य डित्त्वात् परत्वात् च टेः (६.४.१४३) इत्यनेन, पञ्चषष् इत्यस्य 'अष्' इति टि-भागस्य लोपः → पञ्चष् + अ → पञ्चष
- अनेन पञ्चष इति अकारान्तं प्रातिपदिकसंज्ञकं समस्तपदं निष्पन्नं भवति |
- पञ्चष इत्यस्मिन् बहुत्वम् अतः बहुवचनार्थे जस् इत्येव विधीयते | पञ्चष + जस् → पञ्चषाः |
- एवं प्रातिपदिकसंज्ञकात् समस्तपदात् विभक्तिविहिते पुंलिङ्गे पञ्चषाः, स्त्रियां पञ्चषाः, नपुंसकलिङ्गे पञ्चषाणि इति रूपाणि |
- अनया एव प्रक्रियया द्वित्र, त्रिचतुर, चतुःपञ्च इत्यादयः सङ्ख्येयवाचकत्वेन बहुव्रीहिसमासाः, तेषाम् अकारान्तत्वं च |
*
सङ्ख्यावाचकशब्दानां द्विधा प्रयोगो भवति-- सङ्ख्यावाचकत्वेन, सङ्ख्येयवाचकत्वेन च |
१) सङ्ख्यावाचकत्वेन शब्दस्य सङ्ख्यामात्रवाचकत्वं, तत्र शुद्धसङ्ख्या इत्येव अर्थः | एकं द्वे त्रीणि यत्र सङ्ख्या इत्यस्मिन् एव अर्थे पयुज्यन्ते न तु केषाञ्चित् वस्तूनां गणने, तत्र सङ्ख्यावाचकत्वम् इत्युच्यते |
२) सङ्ख्येयवाचकत्वेन | सङ्ख्येय इति शब्दस्य अर्थः 'येषां विषये सङ्ख्यायाः प्रयोगं कुर्मः, ते पदार्थाः' इति सङ्ख्येयाः भवन्ति | यथा 'विंशतिः बालकाः'; अत्र बालकाः सङ्ख्येयाः | यस्य गणनं भवति, सः सङ्ख्येयः | 'विंशतिः बालकाः' इत्यस्मिन् विंशति-शब्दः सङ्ख्येयवाचकत्वेन प्रयुक्तः; ततः सङ्ख्येयवाचकः विंशति-शब्दः | किमर्थम् इति चेत्, विंशतिः इति शब्देन बालकाः बोध्यन्ते | यथा 'उन्नतः वृक्षः' इति प्रतीतौ उन्नत-शब्दः वृक्षं बोधयति, तथा |
** समासस्य विषयः नास्ति चेत् षष् इति प्रातिपदिकस्य झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वम् → षड् → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन चर्त्वम् → षट्