12---vyAvahArikii-shikShikA/pranamyapranatya: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः—  प्रणम्य/प्रणत्य</big>'''
<please replace this with content from corresponding Google Sites page>
 
'''<big>प्रश्नः</big>'''
 
<big>"देवं प्रणम्य" उत "देवं प्रणत्य" ? कः प्रयोगः साधुः ?</big>
 
'''<big>उत्तरम्‌</big>'''
 
<big>"देवं प्रणम्य" अथवा "देवं प्रणत्य" - उभौ अपि साधू प्रयोगौ स्तः |</big>
 
<big>उपसर्गरहित नम्-धातोः क्त्वाप्रत्यये परे नम् + क्त्वा -> नत्वा इति क्त्वान्त-रूपम् |</big>
 
<big>- प्र-उपसर्गपूर्वकस्य नम्-धातोः क्त्वाप्रत्यये परे ल्यबादेशः भवति "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इति सूत्रेण |</big>
 
<big>- अतः  प्र + नम् + क्त्वा -> प्र + नम् + ल्यप् | इत्संज्ञानां लोपानन्तरं प्र + नम् + य |</big>
 
<big>- सम्प्रति "वा ल्यपि" इति सूत्रेण विकल्पेन अनुनासिकस्य लोपः ल्यपि परे | तस्मात् नम्-धातोः मकारस्य लोपः विकल्पेन | तदा प्र  + न + य |</big>
 
<big>- "ह्रस्वस्य पिति कृति तुक्" इत्यनेन तुगागामः -> प्र + न  + त्  + य |</big>
 
<big>- नस्य णत्वं भूत्वा प्र + ण + त् + य -> प्रणत्य इति रूपम् सिध्यति |</big>
 
<big>प्र + नम् + य इत्यस्यां स्तिथौ अनुनासिकस्य लोपः विकलेपेन एव भवति इत्यतः मकारस्य लोपाभावे प्रणम्य इति अपि रूपं भवितुम् अर्हति |</big>
 
<big>तस्मात् प्रणम्य प्रणत्य इति रूपद्वयेपि नास्ति दोषः |</big>
 
<big>तथैव अवगम्य-अवगत्य, प्रयम्य-प्रयत्य, प्ररम्य-प्ररत्य अपि | एषां चतुर्णां धातूनां (गम्,यम्,रम्,नम्) ल्यपि समाना व्यवस्था |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits