प्रणम्य/प्रणत्य

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/pranamyapranatya
Jump to navigation Jump to search

विषयः—  प्रणम्य/प्रणत्य


प्रश्नः

"देवं प्रणम्य" उत "देवं प्रणत्य" ? कः प्रयोगः साधुः ?


उत्तरम्‌

"देवं प्रणम्य" अथवा "देवं प्रणत्य" - उभौ अपि साधू प्रयोगौ स्तः |


उपसर्गरहित नम्-धातोः क्त्वाप्रत्यये परे नम् + क्त्वा -> नत्वा इति क्त्वान्त-रूपम् |


- प्र-उपसर्गपूर्वकस्य नम्-धातोः क्त्वाप्रत्यये परे ल्यबादेशः भवति "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इति सूत्रेण |

- अतः  प्र + नम् + क्त्वा -> प्र + नम् + ल्यप् | इत्संज्ञानां लोपानन्तरं प्र + नम् + य |

- सम्प्रति "वा ल्यपि" इति सूत्रेण विकल्पेन अनुनासिकस्य लोपः ल्यपि परे | तस्मात् नम्-धातोः मकारस्य लोपः विकल्पेन | तदा प्र  + न + य |

- "ह्रस्वस्य पिति कृति तुक्" इत्यनेन तुगागामः -> प्र + न  + त्  + य |

- नस्य णत्वं भूत्वा प्र + ण + त् + य -> प्रणत्य इति रूपम् सिध्यति |


प्र + नम् + य इत्यस्यां स्तिथौ अनुनासिकस्य लोपः विकलेपेन एव भवति इत्यतः मकारस्य लोपाभावे प्रणम्य इति अपि रूपं भवितुम् अर्हति |

तस्मात् प्रणम्य प्रणत्य इति रूपद्वयेपि नास्ति दोषः |


तथैव अवगम्य-अवगत्य, प्रयम्य-प्रयत्य, प्ररम्य-प्ररत्य अपि | एषां चतुर्णां धातूनां (गम्,यम्,रम्,नम्) ल्यपि समाना व्यवस्था |