12---vyAvahArikii-shikShikA/prasansitaprasasta: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः— प्रशंसिता / प्रशस्ता</big>'''
<please replace this with content from corresponding Google Sites page>
 
'''<big>प्रश्नः</big>'''
 
'''<big>"पुत्री मात्रा प्रशंसिता" उत "पुत्री मात्रा प्रशस्ता" -- अनयोः कः प्रयोगः साधुः ?</big>'''
 
'''<big>उत्तरम्</big>'''
 
<big>"पुत्री मात्रा प्रशस्ता" इत्येव साधुः प्रयोगः |</big>
 
<big>- शंसु स्तुतौ इति भ्वादिगणीयः, सेट्, नोपधः धातुः | उपधायां नकारः यस्य, सः नोपधः | अयं अनिदित् धातुः; इत् इत्संज्ञकः नास्ति यस्य, सः अनिदित् |</big>
 
<big>- शंसु इत्यस्मिन् उपधायां यः अनुस्वारः दृश्यते सः अनुस्वारः मूले नकारः एव | अतः शंसु इति नोपधः धातुः | अनुबन्धलोपानन्तरं शंस् इति अवशिष्यते |</big>
 
<big>- सार्वधातुकलकारेषु अस्य प्रशंसति, प्रशंसतु इत्यादीनाम् अनुस्वारघटितरूपाणां प्रसिद्धत्वात् क्तान्तरूपं प्रशंसिता/प्रशंसितः इति भ्रान्तिर्जायेत |</big>
 
<big>- किन्तु शंस्-धातुतः क्त-प्रत्यये विहिते '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन सूत्रेण शंस्-धातोः उपधायां स्थितस्य अनुस्वारस्य(नकारस्य) लोपः |</big>
 
<big>- क्त-प्रत्ययः आर्धधातुकः, सेट् च कित् प्रत्ययः | '''क्तक्तवतू निष्ठा''' (१.१.२६) इत्यनेन सूत्रेण क्तप्रत्ययस्य क्तवतुप्रत्ययस्य च निष्ठासंज्ञा |</big>
 
<big>- प्र + शंस् + क्त इत्यस्यां दशयां क्त-प्रत्ययस्य कित्त्वात्, शंस्-धातोः अनिदित्त्वात् '''अनिदितां हल उपधाया क्ङिति''' इत्यनेन शंस्-धात्वङ्गे उपधाभूतस्य अनुस्वारस्य लोपः, प्र + शस् + त |</big>
 
<big>- शस्-धातुः च क्त-प्रत्ययः यद्यपि सेटौ तथापि '''यस्य विभाषा''' (७.२.१५) इत्यनेन सूत्रेण निष्ठासंज्ञकस्य क्त-प्रत्ययस्य इडागमः निषिद्धः, प्र + शस् + त '''→''' प्रशस्त |</big>
 
<big>- '''यस्य विभाषा''' (७.२.१५) इत्यनेन यस्य धातोः इडागमः वैकल्पिकः क्वचित्‌ अपरेषु प्रत्ययेषु, तस्य निष्ठासंज्ञकप्रत्यये परे इडागम-निषेधः | शंस्‌-धातुः तादृशः, अतः निष्ठायाम्‌ इडागमो न भवति |  </big>
 
<big>- आहत्य प्र + शंस् + क्त → प्र + शस् + त  '''→''' प्रशस्त इति प्र-उपसर्गपूर्वकस्य शंस्-धातोः क्तान्तरूपं सिद्धम् | स्त्रीलिङ्गे प्रशस्ता, पुंलिङ्गे प्रशस्तः, नपुंसकलिङ्गे प्रशस्तम् |</big>
 
<big>- अनया एव प्रक्रियया निष्ठासंज्ञके, आर्धधातुके, कित्-क्तवतु-प्रत्यये परे अपि शंस्-धातोः अनुस्वारस्य लोपः, इडागमस्य निषेधः च; प्रशस्तवान्/प्रशस्तवती इति क्तवत्वन्तं रूपम् |</big>
 
<big>- शस्-धातुतः क्त्वा-प्रत्यये परे '''न क्त्वा सेट्‌''' (१.२.१८) इत्यनेन क्त्वा-प्रत्ययस्य कित्त्वं वैकल्पिकम् इत्यनेन प्रशंसित्वा, प्रशस्त्वा इति रूपद्वयम् अपि साधु |</big>
 
<big>- अपरेषु कित्-भिन्नेषु स्थलेषु अनुस्वारः नित्यः | यत्र अर्हः तत्र इडागमः अपि | यथा तुमुन्-प्रत्यये परे प्रशंसितुं, ण्वुल्-प्रत्यये परे प्रशंसकः-प्रशंसिका इत्यादीनि रूपाणि शंस्-धातोः |</big>
 
<big>- लटि, लोटि इत्यदिषु सार्वधातुकलकारेषु शंस्-धातुतः शप्-विकरणप्रत्यये विहिते, शपः अकित्त्वात् अनुस्वारस्य लोपः न जायते, प्रशंसति इत्यादीनि रूपाणि |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits