प्रशंसिता / प्रशस्ता

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/prasansitaprasasta
Jump to navigation Jump to search

विषयः— प्रशंसिता / प्रशस्ता


प्रश्नः

"पुत्री मात्रा प्रशंसिता" उत "पुत्री मात्रा प्रशस्ता" -- अनयोः कः प्रयोगः साधुः ?


उत्तरम्

"पुत्री मात्रा प्रशस्ता" इत्येव साधुः प्रयोगः |


- शंसु स्तुतौ इति भ्वादिगणीयः, सेट्, नोपधः धातुः | उपधायां नकारः यस्य, सः नोपधः | अयं अनिदित् धातुः; इत् इत्संज्ञकः नास्ति यस्य, सः अनिदित् |

- शंसु इत्यस्मिन् उपधायां यः अनुस्वारः दृश्यते सः अनुस्वारः मूले नकारः एव | अतः शंसु इति नोपधः धातुः | अनुबन्धलोपानन्तरं शंस् इति अवशिष्यते |

- सार्वधातुकलकारेषु अस्य प्रशंसति, प्रशंसतु इत्यादीनाम् अनुस्वारघटितरूपाणां प्रसिद्धत्वात् क्तान्तरूपं प्रशंसिता/प्रशंसितः इति भ्रान्तिर्जायेत |

- किन्तु शंस्-धातुतः क्त-प्रत्यये विहिते अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन सूत्रेण शंस्-धातोः उपधायां स्थितस्य अनुस्वारस्य(नकारस्य) लोपः |

- क्त-प्रत्ययः आर्धधातुकः, सेट् च कित् प्रत्ययः | क्तक्तवतू निष्ठा (१.१.२६) इत्यनेन सूत्रेण क्तप्रत्ययस्य क्तवतुप्रत्ययस्य च निष्ठासंज्ञा |

- प्र + शंस् + क्त इत्यस्यां दशयां क्त-प्रत्ययस्य कित्त्वात्, शंस्-धातोः अनिदित्त्वात् अनिदितां हल उपधायाः क्ङिति इत्यनेन शंस्-धात्वङ्गे उपधाभूतस्य अनुस्वारस्य लोपः, प्र + शस् + त |

- शस्-धातुः च क्त-प्रत्ययः यद्यपि सेटौ तथापि यस्य विभाषा (७.२.१५) इत्यनेन सूत्रेण निष्ठासंज्ञकस्य क्त-प्रत्ययस्य इडागमः निषिद्धः, प्र + शस् + त प्रशस्त |

- यस्य विभाषा (७.२.१५) इत्यनेन यस्य धातोः इडागमः वैकल्पिकः क्वचित्‌ अपरेषु प्रत्ययेषु, तस्य निष्ठासंज्ञकप्रत्यये परे इडागम-निषेधः | शंस्‌-धातुः तादृशः, अतः निष्ठायाम्‌ इडागमो न भवति |  

- आहत्य प्र + शंस् + क्त → प्र + शस् + त   प्रशस्त इति प्र-उपसर्गपूर्वकस्य शंस्-धातोः क्तान्तरूपं सिद्धम् | स्त्रीलिङ्गे प्रशस्ता, पुंलिङ्गे प्रशस्तः, नपुंसकलिङ्गे प्रशस्तम् |

- अनया एव प्रक्रियया निष्ठासंज्ञके, आर्धधातुके, कित्-क्तवतु-प्रत्यये परे अपि शंस्-धातोः अनुस्वारस्य लोपः, इडागमस्य निषेधः च; प्रशस्तवान्/प्रशस्तवती इति क्तवत्वन्तं रूपम् |

- शस्-धातुतः क्त्वा-प्रत्यये परे न क्त्वा सेट्‌ (१.२.१८) इत्यनेन क्त्वा-प्रत्ययस्य कित्त्वं वैकल्पिकम् इत्यनेन प्रशंसित्वा, प्रशस्त्वा इति रूपद्वयम् अपि साधु |

- अपरेषु कित्-भिन्नेषु स्थलेषु अनुस्वारः नित्यः | यत्र अर्हः तत्र इडागमः अपि | यथा तुमुन्-प्रत्यये परे प्रशंसितुं, ण्वुल्-प्रत्यये परे प्रशंसकः-प्रशंसिका इत्यादीनि रूपाणि शंस्-धातोः |

- लटि, लोटि इत्यदिषु सार्वधातुकलकारेषु शंस्-धातुतः शप्-विकरणप्रत्यये विहिते, शपः अकित्त्वात् अनुस्वारस्य लोपः न जायते, प्रशंसति इत्यादीनि रूपाणि |