12---vyAvahArikii-shikShikA/sincitavatisiktavati: Difference between revisions

m
Protected "सिञ्चितवती / सिक्तवती'" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "सिञ्चितवती / सिक्तवती'" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(8 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:सिञ्चितवती / सिक्तवती'}}
<please replace this with content from corresponding Google Sites page>
 
'''<big>विषयः--'''<u>सिञ्चितवती / सिक्तवती'</u></big>
 
 
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"सा जलं सिञ्चितवती" उत "सा जलं सिक्तवती" -- अनयोः कः प्रयोगः साधुः ?</big>
'''<big>उत्तरम्</big>'''
'''<big><u>उत्तरम्</u></big>'''
 
 
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>"सा जलं सिक्तवती" इत्येव साधुः प्रयोगः |</big>
<big>- क्षरणार्थकः षिच धातुः तुदादिगणीयः, अनिट् | अनुबन्धलोपे, सत्वे च सति सिच् इति लौकिकधातुः प्राप्यते |</big>
 
 
 
<big>- क्षरणार्थकः षिच धातुः तुदादिगणीयः, अनिट् | अनुबन्धलोपे, सत्वे च सति सिच् इति लौकिकधातुः प्राप्यते |</big>
 
<big>- सिच्-धातोः लटि प्रथमपुरुषैकवचने सिञ्चति इति रूपं ज्ञात्वा अस्य क्तवत्वन्तरूपं सिञ्चितवती/सिञ्चितवान् इति सन्देहः स्यात् |</big>
 
<big>- सिञ्चितवती/सिञ्चितवान् इति असाधुः प्रयोगः | वस्तुतः श-प्रत्यये परे एव सिच्-धातोः नुमागमः विधीयते '''शे मुचादीनाम्''' (७.१.५९) इत्यनेन सूत्रेण |</big>
 
<big>- सिच्-धातुः तुदादिगणस्य मुचादि-अन्तर्गणे वर्तते | '''शे मुचादीनाम्''' इत्यनेन मुचादिगणे अन्तर्भूतानां धातूनां नुमागमः भवति, श-प्रत्यये परे |</big>
 
<big>- सः नुमागमः मित् इत्यतः '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन ''' '''सिच्-धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | सिच् '''→''' सि + न् + च् '''→''' सिञ्च् |</big>
 
<big>- अतः सिच् + तिप् '''→''' सिच् + श + तिप् '''→''' सिञ्च्‌ + अ + ति '''→''' सिञ्च्‌ + अ + ति '''→''' सिञ्चति इति प्रक्रिया लटि प्रथमपुरुषैकवचने |</big>
 
<big>- किन्तु सिच् धातुतः क्तवतु-प्रत्यये परे नुमागमः न सम्भवति | श-प्रत्यये परे एव नुमागमः सिच्-धातोः |</big>
 
<big>- यद्यपि क्तवतु प्रत्ययः सेट्, सिच्-धातुः अनिट् इत्यतः अस्मात् धातोः क्तवतु-परत्यये परे इडागमः न विधीयते |</big>
 
<big>- आहत्य, सिच् + क्तवतु इत्यस्यां स्थित्यां नुमागमः नास्ति, इडागमः नास्ति, क्तवतु-प्रत्ययस्य कित्त्वात् गुणस्य निषेधः च, केवलं सन्धिकार्यम् |</big>
 
<big>- '''चोः कुः''' (८.२.३०) इत्यनेन सिच्-धातोः चकारस्य स्थाने ककारादेशः भवति झलि परे | (क्तवतु इत्यस्य आदिम-तकारः झल्‌-प्रत्याहारे |)</big>
 
<big>- सिच् + क्तवतु '''→''' सिक् + तवत् '''→''' सिक्तवत् इति प्रातिपदिकम् | प्रथमाविभक्त्याम्‌ एकवचने, स्त्रीलिङ्गे सिक्तवती, पुंलिङ्गे सिक्तवान् |</big>
 
<big>- अनया एव प्रक्रियया अपरेषु कित्सु प्रत्ययेषु परेष्वपि रूपं सिध्यति; सन्धिकार्यमेव | सिच् + क्त '''→''' सिक्त, सिच् + क्त्वा '''→''' सिक्त्वा |</big>
 
<big>- तुमुन्-प्रत्यये परे सिच् + तुमुन् '''→''' सेक्तुम्; अत्र तुमुन् कित् नास्ति इत्यतः गुणः न निषिध्यते | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः |</big>
page_and_link_managers, Administrators
5,094

edits