सिञ्चितवती / सिक्तवती'
विषयः--सिञ्चितवती / सिक्तवती'
प्रश्नः
"सा जलं सिञ्चितवती" उत "सा जलं सिक्तवती" -- अनयोः कः प्रयोगः साधुः ? उत्तरम् उत्तरम्
उत्तरम्
"सा जलं सिक्तवती" इत्येव साधुः प्रयोगः | - क्षरणार्थकः षिच धातुः तुदादिगणीयः, अनिट् | अनुबन्धलोपे, सत्वे च सति सिच् इति लौकिकधातुः प्राप्यते |
- क्षरणार्थकः षिच धातुः तुदादिगणीयः, अनिट् | अनुबन्धलोपे, सत्वे च सति सिच् इति लौकिकधातुः प्राप्यते |
- सिच्-धातोः लटि प्रथमपुरुषैकवचने सिञ्चति इति रूपं ज्ञात्वा अस्य क्तवत्वन्तरूपं सिञ्चितवती/सिञ्चितवान् इति सन्देहः स्यात् |
- सिञ्चितवती/सिञ्चितवान् इति असाधुः प्रयोगः | वस्तुतः श-प्रत्यये परे एव सिच्-धातोः नुमागमः विधीयते शे मुचादीनाम् (७.१.५९) इत्यनेन सूत्रेण |
- सिच्-धातुः तुदादिगणस्य मुचादि-अन्तर्गणे वर्तते | शे मुचादीनाम् इत्यनेन मुचादिगणे अन्तर्भूतानां धातूनां नुमागमः भवति, श-प्रत्यये परे |
- सः नुमागमः मित् इत्यतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन सिच्-धातोः अच्-वर्णेषु अन्त्यात् परः आयाति | सिच् → सि + न् + च् → सिञ्च् |
- अतः सिच् + तिप् → सिच् + श + तिप् → सिञ्च् + अ + ति → सिञ्च् + अ + ति → सिञ्चति इति प्रक्रिया लटि प्रथमपुरुषैकवचने |
- किन्तु सिच् धातुतः क्तवतु-प्रत्यये परे नुमागमः न सम्भवति | श-प्रत्यये परे एव नुमागमः सिच्-धातोः |
- यद्यपि क्तवतु प्रत्ययः सेट्, सिच्-धातुः अनिट् इत्यतः अस्मात् धातोः क्तवतु-परत्यये परे इडागमः न विधीयते |
- आहत्य, सिच् + क्तवतु इत्यस्यां स्थित्यां नुमागमः नास्ति, इडागमः नास्ति, क्तवतु-प्रत्ययस्य कित्त्वात् गुणस्य निषेधः च, केवलं सन्धिकार्यम् |
- चोः कुः (८.२.३०) इत्यनेन सिच्-धातोः चकारस्य स्थाने ककारादेशः भवति झलि परे | (क्तवतु इत्यस्य आदिम-तकारः झल्-प्रत्याहारे |)
- सिच् + क्तवतु → सिक् + तवत् → सिक्तवत् इति प्रातिपदिकम् | प्रथमाविभक्त्याम् एकवचने, स्त्रीलिङ्गे सिक्तवती, पुंलिङ्गे सिक्तवान् |
- अनया एव प्रक्रियया अपरेषु कित्सु प्रत्ययेषु परेष्वपि रूपं सिध्यति; सन्धिकार्यमेव | सिच् + क्त → सिक्त, सिच् + क्त्वा → सिक्त्वा |
- तुमुन्-प्रत्यये परे सिच् + तुमुन् → सेक्तुम्; अत्र तुमुन् कित् नास्ति इत्यतः गुणः न निषिध्यते | सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः |