12---vyAvahArikii-shikShikA/upavesyaupavesya: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः—  उपावेश्य/उपवेश्य</big>'''
<please replace this with content from corresponding Google Sites page>
 
'''<big>प्रश्नः</big>'''
 
<big>"बालकम् उपवेश्य धर्मं बोधयति" उत "बालकम् उपाविश्य धर्मं बोधयति" इति प्रयोक्तव्यम् ?</big>
 
'''<big>उत्तरम्</big>'''
 
<big>"बालकम् '''उपवेश्य''' धर्मं बोधयति" इत्येव साधुः |</big>
 
<big>- उप-उपसर्गपूर्वकः णिजन्तविश्-धातोः क्त्वाप्रत्यये -> उप + विश् + णिच् + क्त्वा |</big>
 
<big>- णिच् प्रत्ययस्य णकार-इकारयोः इत्संज्ञालोपे -> उप + विश् + इ + क्त्वा | "चुटू", "हलन्त्यम्" , "तस्य लोपः" इत्येभिः सूत्रैः |</big>
 
<big>- "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इत्यनेन सूत्रेण क्त्वा स्थाने ल्यबादेशः -> उप + विश् + इ + ल्यप्</big>
 
<big>- "पुगन्तलघूपधस्य च" इत्यनेन सूत्रेण विश्धातोः उपधायां स्थितस्य इकारस्य गुणे -> उप + वेश् + इ + ल्यप्</big>
 
<big>- ल्यपि इत्संज्ञकयोः लकारपकारयोः लोपे -> उप + वेश् + इ + य | "लशक्वतद्धिते" , "हलन्त्यम्" , "तस्य लोपः" इत्येभिः सूत्रैः |</big>
 
<big>- "णेरनिटि" इत्यनेन सूत्रेण णिचः इकारस्य लोपे -> उप + वेश् + य -> उपवेश्य |</big>
 
<big>अतः उपवेश्य इति भवति परन्तु लोके उपाविश्य इति प्रेरणार्थे (णिच्) प्रयोगः दृश्यते तन्न स्यात् |</big>
deletepagepermission, page_and_link_managers, teachers
2,637

edits