12---vyAvahArikii-shikShikA/usitvavasitvavastva: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः''''''''''''—'''''''''''' उषित्वा/वसित्वा/'''वस्त्वा'''</big>'''
<please replace this with content from corresponding Google Sites page>
 
'''<big>प्रश्नः</big>'''
 
<big>"छात्रः विदेशे उषित्वा विद्याभ्यासं करोति", "छात्रः विदेशे वसित्वा विद्याभ्यासं करोति", "छात्रः विदेशे वस्त्वा विद्याभ्यासं करोति" -- एषु प्रयोगेषु कः साधुः ?</big>
 
'''<big>उत्तरम्</big>'''
 
<big>"छात्रः विदेशे उषित्वा विद्याभ्यासं करोति" इत्येव साधुः प्रयोगः |</big>
 
'''<big>वस्-धातोः किति प्रत्यये परे इडागमः, सम्प्रसारणं च</big>'''
 
<big>- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |</big>
 
<big>- वस्-धातुतः क्त्वा-प्रत्यये परे वस् + क्त्वा इत्यस्यां दशायाम्‌ इडागमस्य विचारः करणीयः |</big>
 
<big>- क्त्वा-प्रत्ययः वलादिः, आर्धधातुकः प्रत्ययः; अतः '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन सूत्रेण तस्य इडागमः विधीयते |</big>
 
<big>- क्त-प्रत्ययोऽपि, क्तवतु-प्रत्ययोऽपि च वलादी, अतः अनयोः अपि प्रत्यययोः '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन सूत्रेण इडागमः विधीयते |</big>
 
<big>- वस्-धातुः अनिट् इत्यतः इडानुकूल्यम् अस्य धातोः नास्ति | यत्र धातु-प्रत्यययोः मध्ये एकोऽपि इडनुकूलो नास्ति, तत्र इडागमो न भवति |  </big>
 
<big>- किन्तु वस्-धातोः क्त्वा-प्रत्यये परे उषित्वा, क्त-प्रत्यये परे उषितः, क्तवतु-प्रत्यये परे उषितवान्‌, इति इडागमघटितानि रूपाणि सन्ति |</big>
 
<big>- वस्-धातुः इडननुकूलः | तथापि इडनुकूलेषु क्त्वा, क्त, क्तवतु इत्यादिषु प्रत्ययेषु परेषु इडागमः दृश्यते |  </big>
 
<big>- अस्य कारणं किम् इति प्रश्ने कृते उत्तरम् अधः |</big>
 
<big>- '''वसतिक्षुधोरिट्‌''' (७.२.५२) इत्यनेन वस्-धतूत्तरस्य क्त्वा, क्त, क्तवतु इत्येषाम्‌ इडागमः नित्यः | अनेन वस्-धातुः अनिट्‌ चेदपि एषाम्‌ इडागमो भवति |</big>
 
<big>- वस् + क्त्वा '''→''' वस् + इ + क्त्वा, वस् + क्त '''→''' वस् + इ + क्त, वस् + क्तवतु '''→''' वस् + इ + क्तवतु |</big>
 
<big>- क्त्वा, क्त, क्तवतु -- एते प्रत्ययाः कितः | क् इत् यस्य सः कित् | कित्-प्रत्यये परे वस्‌-धातोः सम्प्रसारणं विधीयते |</big>
 
<big>- किति प्रत्यये परे वस्-धातौ '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सूत्रेण सम्प्रसारणं भवति |</big>
 
<big>- सम्प्रसारणं नाम यणः स्थाने इक्‌-आदेशः | वस्‌-धातोः यत्र सम्प्रसारणं भवति, तत्र वस्‌ '''→''' उस्‌ इति परिवर्तनं विद्यते |</big>
 
<big>- वस् + इ + क्त्वा '''→''' उस् + इ + क्त्वा, वस् + इ + क्त '''→''' उस् + इ + क्त, वस् + इ + क्तवतु '''→''' उस् + इ + क्तवतु |</big>
 
<big>- सम्प्रसारणे जाते, '''शासिवसिघसीनाम्‌ च''' (८.३.६०) इत्यनेन वस्‌-धातोः इण्‌-प्रत्याहारे स्थितस्य उकारोत्तरस्य सकारस्य षत्वम्‌ |</big>
 
<big>- उष् + इ + क्त्वा '''→''' उषित्वा, उष् + इ + क्त '''→''' उषितः, उष् + इ + क्तवतु '''→''' उषितवान् |</big>
 
<big>- कर्मणि प्रयोगे यः यक्-प्रत्ययः, सोऽपि कित्; कित्त्वात्‌ सम्प्रसारणम्‌ | अस्य इडागमः किन्तु न भवति, यतोहि प्रथमतया यक्‌-प्रत्ययः वलादिः एव नास्ति |</big>
 
<big>- ततः अग्रे च यक्कृते किमपि अपवादभूतसूत्रं नास्ति | ('''वसतिक्षुधोरिट्‌''' (७.२.५२) इति सूत्रेण वस्-धतूत्तरस्य क्त्वा, क्त, क्तवतु इत्येषाम्‌ एव इडागमः |)</big>
 
<big>- अतः यकि परे केवलं सम्प्रसारणं, षत्वं च | वस् + यक् + ते → उस् + य + ते → उष्यते |</big>
 
'''<big>क्त्वा-प्रत्यये विहिते प्रक्रिया काचित् भिन्ना</big>'''
 
<big>- वस्-धातोः विहितस्य क्त्वा-प्रत्ययस्य '''वसतिक्षुधोरिट्‌''' (७.२.५२) इत्यनेन सूत्रेण इडागमः नित्यः |</big>
 
<big>- '''न क्त्वा सेट्‌''' (१.२.१८) इत्यनेन यदा क्त्वा सेट्‌, नाम यदा तस्य इडागमो भवति, तदा अयं क्त्वा कित्‌ नास्ति इति आरोपो भवति | इदम् अतिदेशसूत्रम्‌ |</big>
 
<big>- किमर्थम्‌ इदं कृतम्‌ इति चेत्‌, यत्र इडागमो नास्ति तत्र क्त्वा-प्रत्ययस्य कित्त्वम्‌ अपेक्षितं गुणस्य निवारणार्थम्‌ | कृ → कृत्वा, हु → हुत्वा |</big>
 
<big>- किन्तु यत्र क्त्वा-प्रत्ययस्य इडागमो भवति, तत्र गुणः अपेक्षितः | गुणस्य रक्षणार्थं कित्त्वं बाधितं '''न क्त्वा सेट्‌''' (१.२.१८) इत्यनेन सूत्रेण |</big>
 
<big>- उदाहरणत्वेन एषु प्रसङ्गेषु गुणः अपेक्षितः, कित्त्वं बाधितं च -- स्विद्‌ '''→''' स्वेदित्वा | दिव्‌ '''→''' देवित्वा | वृत्‌ '''→''' वर्तित्वा | **</big>
 
<big>- किन्तु '''मृड-मृद-गुध-कुष-क्लिश-वद-वसः क्त्वा''' (१.२.७) इत्यनेन इडागमे विहितेऽपि क्त्वा-प्रत्यये कित्त्वम् आरोपितम् |</big>
 
<big>- कित्त्वम् आरोपितम् येन '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सूत्रेण किति प्रत्यये परे वस्-धातौ सम्प्रसारणं स्यात्‌ |</big>
 
<big>- सम्प्रसारणे जाते, उकारोत्तरवर्तिनः सकारस्य '''शासिवसिघसीनाम्‌ च''' (८.३.६०) इत्यनेन षत्वम्‌ |</big>
 
<big>- वस् + क्त्वा → वस् + इ + त्वा → उस् + इ + त्वा → उष् + इ + त्वा '''→''' उषित्वा |</big>
 
<big>- आहत्य वस्-धातोः क्त्वान्तरूपम्‌ उषित्वा इति | न तु वसित्वा, वस्त्वा वा |</big>
 
<big>**</big>
 
<big>- पुनः कुत्रचित्‌ इदं कित्त्वं वैकल्पिकम्‌ | '''रलो व्युपधाद्‌ हलादेः संश्च''' (१.२.२६) इत्यनेन हलन्तधातोः उपधायाम्‌ इकारः अथवा उकारः चेत्‌, अपि च अन्ते यकारं वकारं वर्जयित्वा कोऽपि हल्‌-वर्णः चेत्‌, तस्य क्त्वा-प्रत्ययस्य कित्त्वं, गुणकार्यं च वैकल्पिकम्‌ | यथा लिख्‌-धातुतः क्त्वा-प्रत्ययः एकवारं कित्‌, एकवारं च अकित्‌ | अनेन रूपद्वयं सिध्यति, लिखित्वा, लेखित्वा च |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits