उषित्वा/वसित्वा/'वस्त्वा
'विषयः-'उषित्वा/वसित्वा/वस्त्वा
प्रश्नः
"छात्रः विदेशे उषित्वा विद्याभ्यासं करोति", "छात्रः विदेशे वसित्वा विद्याभ्यासं करोति", "छात्रः विदेशे वस्त्वा विद्याभ्यासं करोति" -- एषु प्रयोगेषु कः साधुः ?
उत्तरम्
"छात्रः विदेशे उषित्वा विद्याभ्यासं करोति" इत्येव साधुः प्रयोगः |
वस्-धातोः किति प्रत्यये परे इडागमः, सम्प्रसारणं च
- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |
- वस्-धातुतः क्त्वा-प्रत्यये परे वस् + क्त्वा इत्यस्यां दशायाम् इडागमस्य विचारः करणीयः |
- क्त्वा-प्रत्ययः वलादिः, आर्धधातुकः प्रत्ययः; अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सूत्रेण तस्य इडागमः विधीयते |
- क्त-प्रत्ययोऽपि, क्तवतु-प्रत्ययोऽपि च वलादी, अतः अनयोः अपि प्रत्यययोः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सूत्रेण इडागमः विधीयते |
- वस्-धातुः अनिट् इत्यतः इडानुकूल्यम् अस्य धातोः नास्ति | यत्र धातु-प्रत्यययोः मध्ये एकोऽपि इडनुकूलो नास्ति, तत्र इडागमो न भवति |
- किन्तु वस्-धातोः क्त्वा-प्रत्यये परे उषित्वा, क्त-प्रत्यये परे उषितः, क्तवतु-प्रत्यये परे उषितवान्, इति इडागमघटितानि रूपाणि सन्ति |
- वस्-धातुः इडननुकूलः | तथापि इडनुकूलेषु क्त्वा, क्त, क्तवतु इत्यादिषु प्रत्ययेषु परेषु इडागमः दृश्यते |
- अस्य कारणं किम् इति प्रश्ने कृते उत्तरम् अधः |
- वसतिक्षुधोरिट् (७.२.५२) इत्यनेन वस्-धतूत्तरस्य क्त्वा, क्त, क्तवतु इत्येषाम् इडागमः नित्यः | अनेन वस्-धातुः अनिट् चेदपि एषाम् इडागमो भवति |
- वस् + क्त्वा → वस् + इ + क्त्वा, वस् + क्त → वस् + इ + क्त, वस् + क्तवतु → वस् + इ + क्तवतु |
- क्त्वा, क्त, क्तवतु -- एते प्रत्ययाः कितः | क् इत् यस्य सः कित् | कित्-प्रत्यये परे वस्-धातोः सम्प्रसारणं विधीयते |
- किति प्रत्यये परे वस्-धातौ वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सूत्रेण सम्प्रसारणं भवति |
- सम्प्रसारणं नाम यणः स्थाने इक्-आदेशः | वस्-धातोः यत्र सम्प्रसारणं भवति, तत्र वस् → उस् इति परिवर्तनं विद्यते |
- वस् + इ + क्त्वा → उस् + इ + क्त्वा, वस् + इ + क्त → उस् + इ + क्त, वस् + इ + क्तवतु → उस् + इ + क्तवतु |
- सम्प्रसारणे जाते, शासिवसिघसीनाम् च (८.३.६०) इत्यनेन वस्-धातोः इण्-प्रत्याहारे स्थितस्य उकारोत्तरस्य सकारस्य षत्वम् |
- उष् + इ + क्त्वा → उषित्वा, उष् + इ + क्त → उषितः, उष् + इ + क्तवतु → उषितवान् |
- कर्मणि प्रयोगे यः यक्-प्रत्ययः, सोऽपि कित्; कित्त्वात् सम्प्रसारणम् | अस्य इडागमः किन्तु न भवति, यतोहि प्रथमतया यक्-प्रत्ययः वलादिः एव नास्ति |
- ततः अग्रे च यक्कृते किमपि अपवादभूतसूत्रं नास्ति | (वसतिक्षुधोरिट् (७.२.५२) इति सूत्रेण वस्-धतूत्तरस्य क्त्वा, क्त, क्तवतु इत्येषाम् एव इडागमः |)
- अतः यकि परे केवलं सम्प्रसारणं, षत्वं च | वस् + यक् + ते → उस् + य + ते → उष्यते |
क्त्वा-प्रत्यये विहिते प्रक्रिया काचित् भिन्ना
- वस्-धातोः विहितस्य क्त्वा-प्रत्ययस्य वसतिक्षुधोरिट् (७.२.५२) इत्यनेन सूत्रेण इडागमः नित्यः |
- न क्त्वा सेट् (१.२.१८) इत्यनेन यदा क्त्वा सेट्, नाम यदा तस्य इडागमो भवति, तदा अयं क्त्वा कित् नास्ति इति आरोपो भवति | इदम् अतिदेशसूत्रम् |
- किमर्थम् इदं कृतम् इति चेत्, यत्र इडागमो नास्ति तत्र क्त्वा-प्रत्ययस्य कित्त्वम् अपेक्षितं गुणस्य निवारणार्थम् | कृ → कृत्वा, हु → हुत्वा |
- किन्तु यत्र क्त्वा-प्रत्ययस्य इडागमो भवति, तत्र गुणः अपेक्षितः | गुणस्य रक्षणार्थं कित्त्वं बाधितं न क्त्वा सेट् (१.२.१८) इत्यनेन सूत्रेण |
- उदाहरणत्वेन एषु प्रसङ्गेषु गुणः अपेक्षितः, कित्त्वं बाधितं च -- स्विद् → स्वेदित्वा | दिव् → देवित्वा | वृत् → वर्तित्वा | **
- किन्तु मृड-मृद-गुध-कुष-क्लिश-वद-वसः क्त्वा (१.२.७) इत्यनेन इडागमे विहितेऽपि क्त्वा-प्रत्यये कित्त्वम् आरोपितम् |
- कित्त्वम् आरोपितम् येन वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सूत्रेण किति प्रत्यये परे वस्-धातौ सम्प्रसारणं स्यात् |
- सम्प्रसारणे जाते, उकारोत्तरवर्तिनः सकारस्य शासिवसिघसीनाम् च (८.३.६०) इत्यनेन षत्वम् |
- वस् + क्त्वा → वस् + इ + त्वा → उस् + इ + त्वा → उष् + इ + त्वा → उषित्वा |
- आहत्य वस्-धातोः क्त्वान्तरूपम् उषित्वा इति | न तु वसित्वा, वस्त्वा वा |
**
- पुनः कुत्रचित् इदं कित्त्वं वैकल्पिकम् | रलो व्युपधाद् हलादेः संश्च (१.२.२६) इत्यनेन हलन्तधातोः उपधायाम् इकारः अथवा उकारः चेत्, अपि च अन्ते यकारं वकारं वर्जयित्वा कोऽपि हल्-वर्णः चेत्, तस्य क्त्वा-प्रत्ययस्य कित्त्वं, गुणकार्यं च वैकल्पिकम् | यथा लिख्-धातुतः क्त्वा-प्रत्ययः एकवारं कित्, एकवारं च अकित् | अनेन रूपद्वयं सिध्यति, लिखित्वा, लेखित्वा च |