12---vyAvahArikii-shikShikA/vastumvasitumusitum: Difference between revisions

m
Protected "वस्तुम्/वसितुम्/उषितुम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "वस्तुम्/वसितुम्/उषितुम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(7 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE:वस्तुम्/वसितुम्/उषितुम्}}
<please replace this with content from corresponding Google Sites page>
<big>'''विषयः-- <u>वस्तुम्/वसितुम्/उषितुम्</u>'''</big>
 
 
 
 
<big>'''<u>प्रश्नः</u>'''</big>
 
<big>"सः नूतनगृहे वस्तुम् इच्छति" , "सः नूतनगृहे वसितुम् इच्छति", "सः नूतनगृहे उषितुम् इच्छति" ''''''—'''''' एषु प्रयोगेषु कः साधुः ?</big>
 
 
 
<big>'''<u>उत्तरम्</u>'''</big>
 
<big>"सः नूतनगृहे वस्तुम् इच्छति" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |</big>
 
<big>- वस्-धातुतः तुमुन्-प्रत्यये परे वस् + तुमुन् इत्यस्यां दशायाम्‌ इडागमस्य विचारः करणीयः |</big>
 
<big>- तुमुन्-प्रत्ययः वलादिः, आर्धधातुकः प्रत्ययः; अतः '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन सूत्रेण तस्य इडागमः विधीयते |</big>
 
<big>- वस्-धातुः अनिट् इत्यतः इडानुकूल्यम् अस्य धातोः नास्ति | यत्र धातु-प्रत्यययोः मध्ये एकोऽपि इडनुकूलो नास्ति, तत्र इडागमो न भवति |  </big>
 
<big>- एतदर्थं वस् + तुमुन् '''→''' वस् + इ + तुम् '''→''' वसितुम् इति रूपं दोषपूर्णम्‌ |</big>
 
<big>- '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सूत्रेण किति प्रत्यये परे वस्-धातौ सम्प्रसारणं भवति |</big>
 
<big>- सम्प्रसारणं नाम यणः स्थाने इक्‌-आदेशः | वस्‌-धातोः यत्र सम्प्रसारणं भवति, तत्र वस्‌ '''→''' उस्‌ इति परिवर्तनं विद्यते |</big>
 
<big>- तुमुन्-प्रत्ययः कित् नास्ति | अतः तुमुन्-प्रत्यये परे वस्-धातोः सम्प्रसारणं न भवति |</big>
 
<big>- सम्प्रसारणाभावे वस्-धातोः वकारस्य स्थाने उकारादेशो न भवति तुमुन्-प्रत्यये परे |</big>
 
<big>- तर्हि इडननुकूलत्वात्‌, सम्प्रसारणानौचित्यात्‌ उषितुम् इत्यपि रूपं दोषपूर्णम्‌ |</big>
 
<big>- आहत्य '''वस् + तुमुन् → वस् + तुम् → वस्तुम्''' इत्येव वस्-धातोः तुमुनन्तरूपम् |</big>
page_and_link_managers, Administrators
5,094

edits