वस्तुम्/वसितुम्/उषितुम्

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/vastumvasitumusitum
Jump to navigation Jump to search

विषयः-- वस्तुम्/वसितुम्/उषितुम्



प्रश्नः

"सः नूतनगृहे वस्तुम् इच्छति" , "सः नूतनगृहे वसितुम् इच्छति", "सः नूतनगृहे उषितुम् इच्छति" '—' एषु प्रयोगेषु कः साधुः ?


उत्तरम्

"सः नूतनगृहे वस्तुम् इच्छति" इत्येव साधुः प्रयोगः |


- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |

- वस्-धातुतः तुमुन्-प्रत्यये परे वस् + तुमुन् इत्यस्यां दशायाम्‌ इडागमस्य विचारः करणीयः |

- तुमुन्-प्रत्ययः वलादिः, आर्धधातुकः प्रत्ययः; अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सूत्रेण तस्य इडागमः विधीयते |

- वस्-धातुः अनिट् इत्यतः इडानुकूल्यम् अस्य धातोः नास्ति | यत्र धातु-प्रत्यययोः मध्ये एकोऽपि इडनुकूलो नास्ति, तत्र इडागमो न भवति |  

- एतदर्थं वस् + तुमुन् वस् + इ + तुम् वसितुम् इति रूपं दोषपूर्णम्‌ |

- वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सूत्रेण किति प्रत्यये परे वस्-धातौ सम्प्रसारणं भवति |

- सम्प्रसारणं नाम यणः स्थाने इक्‌-आदेशः | वस्‌-धातोः यत्र सम्प्रसारणं भवति, तत्र वस्‌ उस्‌ इति परिवर्तनं विद्यते |

- तुमुन्-प्रत्ययः कित् नास्ति | अतः तुमुन्-प्रत्यये परे वस्-धातोः सम्प्रसारणं न भवति |

- सम्प्रसारणाभावे वस्-धातोः वकारस्य स्थाने उकारादेशो न भवति तुमुन्-प्रत्यये परे |

- तर्हि इडननुकूलत्वात्‌, सम्प्रसारणानौचित्यात्‌ उषितुम् इत्यपि रूपं दोषपूर्णम्‌ |

- आहत्य वस् + तुमुन् → वस् + तुम् → वस्तुम् इत्येव वस्-धातोः तुमुनन्तरूपम् |