12---vyAvahArikii-shikShikA/visayah-jagratijagranti: Difference between revisions

m
Protected "जाग्रति / जाग्रन्ति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "जाग्रति / जाग्रन्ति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE:जाग्रति / जाग्रन्ति}}
<please replace this with content from corresponding Google Sites page>
'''<big>विषयः - <u>जाग्रति / जाग्रन्ति</u></big>'''
 
 
 
<big>'''<u>प्रश्नः</u>'''</big>
 
<big>"प्रातःकाले सर्वे जाग्रति" उत "प्रातःकाले सर्वे जाग्रन्ति" -- अनयोः कः प्रयोगः साधुः?</big>
 
 
 
<big>'''<u>उत्तरम्</u>'''</big>
 
<big>"प्रातःकाले सर्वे जाग्रति" इति साधुः प्रयोगः |</big>
 
 
 
<big>- जागृ निद्राक्षये इति अदादिगणीयः परस्मैपदी धातुः | अस्य लटि प्रथमपुरुषस्य बहुवचने जाग्रति इति रूपम् |</big>
 
<big>- अदादिगणे एकः अन्तर्गणः वर्तते, जक्षित्यादिगणः | अस्मिन् गणे जागृ-धातुः अपि अन्तर्भूतः |</big>
 
<big>- '''जक्षित्यादयः षट्‌''' (६.१.६) इत्यनेन सूत्रेण जक्षित्यादीनां धातूनाम्‌ अभ्यस्त-संज्ञा भवति |</big>
 
<big>- अतः जक्षित्यादिगणीयस्य जगृ-धातोः '''जक्षित्यादयः षट्‌''' इत्यनेन अभ्यस्तसंज्ञा विधीयते |</big>
 
<big>- प्रथमपुरुषस्य बहुवचने झि इति मूलतिङ्प्रत्ययः | अभ्यस्तसंज्ञकधातूनां कृते तिङ्प्रत्ययः किञ्चित् विशिष्टरीत्या निर्मीयते |</big>
 
<big>- '''अदभ्यस्तात्''' (७.१.४) इत्यनेन सूत्रेण अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति |</big>
 
<big>- जागृ-धातोः अभ्यस्तसंज्ञा इत्यस्मात् प्रथमपुरुषस्य बहुवचने '''अदभ्यस्तात्''' इत्यनेन झि '''→''' झ् + इ '''→''' अत् + इ '''→''' अति इति तिङ्प्रत्ययः सिध्यति |</big>
 
<big>- जागृ-धातुः अदादिगणीयः इत्यतः अस्मात् सार्वधातुकप्रत्यये परे विहितस्य शपः लुक् '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन |</big>
 
<big>- अतः जागृ + शप् + अति '''→''' जागृ + अति | अस्यां दशायाम्‌ '''इको यणचि''' (६.१.७७) इत्यनेन यण्-आदेशः जागृ + अति '''→''' जाग्रति |</big>
 
<big>- लट्-लकारस्य प्रथमापुरुषे जागृ-धातोः एकवचने जागर्ति, द्विवचने जागृतः, बहुवचने जाग्रति इति रूपाणि |</big>
 
<big>- एकवचने जागृ + तिप् , गुणकार्यं कृत्वा जागर् + ति '''→''' जागर्ति | द्विवचने जागृ +तः, गुणाभावे वर्णमेलनमेव जागृतः इति रूपम् |</big>
page_and_link_managers, Administrators
5,152

edits