जाग्रति / जाग्रन्ति
विषयः - जाग्रति / जाग्रन्ति
प्रश्नः
"प्रातःकाले सर्वे जाग्रति" उत "प्रातःकाले सर्वे जाग्रन्ति" -- अनयोः कः प्रयोगः साधुः?
उत्तरम्
"प्रातःकाले सर्वे जाग्रति" इति साधुः प्रयोगः |
- जागृ निद्राक्षये इति अदादिगणीयः परस्मैपदी धातुः | अस्य लटि प्रथमपुरुषस्य बहुवचने जाग्रति इति रूपम् |
- अदादिगणे एकः अन्तर्गणः वर्तते, जक्षित्यादिगणः | अस्मिन् गणे जागृ-धातुः अपि अन्तर्भूतः |
- जक्षित्यादयः षट् (६.१.६) इत्यनेन सूत्रेण जक्षित्यादीनां धातूनाम् अभ्यस्त-संज्ञा भवति |
- अतः जक्षित्यादिगणीयस्य जगृ-धातोः जक्षित्यादयः षट् इत्यनेन अभ्यस्तसंज्ञा विधीयते |
- प्रथमपुरुषस्य बहुवचने झि इति मूलतिङ्प्रत्ययः | अभ्यस्तसंज्ञकधातूनां कृते तिङ्प्रत्ययः किञ्चित् विशिष्टरीत्या निर्मीयते |
- अदभ्यस्तात् (७.१.४) इत्यनेन सूत्रेण अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति |
- जागृ-धातोः अभ्यस्तसंज्ञा इत्यस्मात् प्रथमपुरुषस्य बहुवचने अदभ्यस्तात् इत्यनेन झि → झ् + इ → अत् + इ → अति इति तिङ्प्रत्ययः सिध्यति |
- जागृ-धातुः अदादिगणीयः इत्यतः अस्मात् सार्वधातुकप्रत्यये परे विहितस्य शपः लुक् अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन |
- अतः जागृ + शप् + अति → जागृ + अति | अस्यां दशायाम् इको यणचि (६.१.७७) इत्यनेन यण्-आदेशः जागृ + अति → जाग्रति |
- लट्-लकारस्य प्रथमापुरुषे जागृ-धातोः एकवचने जागर्ति, द्विवचने जागृतः, बहुवचने जाग्रति इति रूपाणि |
- एकवचने जागृ + तिप् , गुणकार्यं कृत्वा जागर् + ति → जागर्ति | द्विवचने जागृ +तः, गुणाभावे वर्णमेलनमेव जागृतः इति रूपम् |