14---samAsaH/01---samAsaparicayaH: Difference between revisions

no edit summary
No edit summary
No edit summary

(3 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE: 01 - समासपरिचयः}}
{| class="wikitable mw-collapsible mw-collapsed"
!२०२० ध्वनिमुद्राणि -
Line 24:

|११) [https://archive.org/download/samAsaH-pANini-dvArA/11_samAsaH-prakriyA-abhyAsaH_%202020-05-30.mp3 samAsaH-prakriyA-abhyAsaH_ 2020-05-30]

Line 76 ⟶ 78:

=== '''3) अष्टाध्यायांअष्टाध्याय्यां समासप्रकरणम्''' ===

समासप्रकरणस्य पाठनार्थं यानि यन्त्राणि आवश्यकानि तानि आदौ एव मातारः वदन्ति येन अस्माकं मनसि एका समग्रहदृष्टिः निर्मिता भवति | मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिध्यति | मातुः पाठ्यक्रमे सम्पूर्णसमासप्रकरणस्य एकं मानचित्रं निर्मितं भवति येन  ज्ञानं दृढं भवति | एतादृशः समग्रं समाससम्बद्धसूत्राणि अष्टाध्यायांअष्टाध्याय्यां यत्र कुत्रापि भवन्तु, तेषां विवरणम् अग्रे दीयते येन यत् किञ्चित् समस्तपदं भवतु तस्य प्रक्रिया सिद्ध्यति | मातुः पद्धत्यनुसारं सम्प्रति अष्टाध्यायांअष्टाध्याय्यां समाससम्बद्धसूत्राणां विवरणं दीयते |

==== '''a) समाससम्बद्धसूत्राणि''' ====
* समास-सम्बद्धसूत्राणि (२.१.१. – २.२.३८) – अष्टाध्यायांअष्टाध्याय्यां द्वितीयाध्याये समास-विधायक-सूत्राणि सन्ति |

* समास-वचननिर्णय-सम्बद्धसूत्राणि (२.४.१ – २.४.१६) – अत्र समासस्य वचनस्य निर्णयः क्रियते | द्वितीयाध्यायस्य तृतीयपादे कारक-सम्बद्धसूत्राणि सन्ति | एतस्मिन् विषये  कारकप्रकरणे पठिष्यामः |
Line 139 ⟶ 141:
सामर्थ्यं द्विप्रकारकं भवति – १) व्यपेक्षासामर्थ्यम्, २) एकार्थीभावसमार्थ्यं चेति |

१) व्यपेक्षासामर्थ्यम् - वाक्ये पदानां मध्ये विद्यमानः परस्परान्वयः एव व्यपेक्षा नाम्ना ज्ञायते | अर्थात् वाक्ये पदानि स्वस्य अर्थं प्रतिपादयित्वाप्रतिपाद्य परस्पर सम्बन्धम् अपि अपेक्षन्ते | वाक्ये पदानि न केवलं स्वस्य अर्थं बोधयन्ति, अपि च अन्यैः पदैः सह सम्बन्धम् अपि दर्शयन्ति | वाक्येषु वयं नूतनपदानि योजयितुम् अपि शक्नुमः, पदानि निष्कासयितुम् अपि शक्नुमः | प्रत्येकं पदं स्वतन्त्रं वर्तते इत्यतः अत्र न कोपि नियमः | एतादृशसामर्थ्यम् एव व्यपेक्षासामर्थ्यम् इति उच्यते | वाक्येषु एव व्यपेक्षासामर्थ्यम् उपलब्धं भवति |

यथा रामः  ग्रामं गच्छति इति वाक्ये यद्यपि प्रत्येकं पदस्य भिन्नार्थः; प्रत्येकं पदं स्वतन्त्रम् अस्ति, तथापि तयोः मध्ये सम्बन्धः अस्ति|  रामः इति भिन्नं पदं, ग्रामं इति  भिन्नं पदं, गच्छति इति भिन्नं पदं, वाक्ये तयोः मध्ये सम्बन्धः अस्ति | गच्छति इति क्रियापदम् | कः गच्छति रामः इति कर्ता गच्छति| किं फलं प्राप्तुं रामः गच्छति? गमनक्रियायाः फलं किम् | ग्रामं प्राप्तुं  एव रामः गमनक्रियां करोति |अत्र ग्रामम् इति कर्मपदम् अस्ति | अस्मिन् वाक्ये व्यपेक्षासामर्थ्यं वर्तते यतोहि पदानां मध्ये सम्बन्धः अस्ति |
Line 251 ⟶ 253:
=== '''6) उपसर्जनसंज्ञा -''' ===
समासे सामान्यतया द्वयोः पदयोः मेलनं भवति इति ज्ञातमेव | तर्हि समासे द्वयोः पदयोः मध्ये किं पदं पूर्वं स्यात्, किं पदं परं स्यात् इति कथं निर्णीयते?  तदर्थं पाणिनिना एका सुन्दरव्यवस्था कृता  येन वयं सुलभतया ज्ञातुं शक्नुमः किं पदं पूर्वं स्यात् किं पदं परं स्यात् इति | समासे उपसर्जनम् इति काचित्संज्ञा वर्तते | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं प्रयोक्तव्यम् | अतः समासे उपसर्जनस्य अभिज्ञानम् अत्यावश्यकम् | समासे कस्य उपसर्जनसंज्ञा भवति इति विवरणम् अग्रे दीयते |
अष्टाध्यायाम्अष्टाध्याय्याम् उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते- १) '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)  २) '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) चेति | सूत्रस्य विवरणम् अधः लिखितम् अस्ति |

अष्टाध्यायाम्अष्टाध्याय्याम् उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते- १) '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)  २) '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) चेति | सूत्रस्य विवरणम् अधः लिखितम् अस्ति |

Line 475 ⟶ 477:

समासे पूर्वपदम् उत्तरपदञ्च भवतः इत्युक्तम् | समासे पूर्वपदस्य, उत्तरपदस्य च अर्थः अस्ति  | कदाचित् पूर्वपदार्थस्य, कदाचित् उत्तरपदार्थस्य, कदाचित् अन्यपदार्थस्य , कदाचित् उभयपदार्थस्य च प्राधान्यं भवति | यस्य पदस्य अर्थः प्रायः क्रियया नो चेत् गुणेन वा अन्वितो भवति सः अर्थः प्रधानः इति उच्यते | यद्यपि अष्टाध्यायांअष्टाध्याय्यां प्राधान्यम् इति विषयः न उक्तः तथापि व्याकरणग्रन्थेषु प्राधान्यम् इति विषयः प्रसिद्धः एव | समस्तपदे किं पदं प्रधानम् इति द्रष्टुं किञ्चित् क्रियापदम् उच्चारणीयम् नो चेत् कश्चित् गुणः उच्चारणीयः | ततः पूर्वोत्तरपदार्थयोः मध्ये किं पदं क्रियया अन्वितं भवति इति परिशील्य प्रधान-अप्रधानयोः निर्णयः कर्तव्यः |

Line 524 ⟶ 526:

सामन्यतत्पुरुषसमासे पूर्वपदे षड् विभक्तयः भवितुम् अर्हन्ति | तदनुसृत्य समान्यतत्पुरुषसमासः षड्विधः — द्वितीयातत्पुरुषसमासः, तृतीयातत्पुरुषसमासः, चतुर्थीतत्पुरुषसमासः पञ्चमीतत्पुरुषसमासः, षष्ठीतत्पुरुषसमासः, सप्तमीतत्पुरुषसमासः चेति | अष्टाध्यायांअष्टाध्याय्यां प्रथमातत्पुरुषसमासः नास्ति यद्यपि तादृशव्यवहारः लोके दृश्यते | लोके यः प्रथमातत्पुरुषसमासः इति उच्यते सः वस्तुतः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | एतेषां विवरणं तत्तपाठे वक्ष्यते |

Line 610 ⟶ 612:

२) समासविधानम् =  समासस्य विधानार्थं विधायकं सूत्रं अस्ति वा इति दृश्यताम् | समासविधायकं सूत्रं नास्ति चेत् अस्माभिः समासः न करणीयः | परन्तु काव्येषु  तादृशः समासः अस्ति चेत् '''सह सुपा''' (२.१.४) इति सूत्रेण समर्थनीयः | अष्टाध्यायांअष्टाध्याय्यां चत्वारः अधिकाराः सन्ति - अव्ययीभाव-अधिकारः, तत्पुरुष-अधिकारः, बहुव्रीहि-अधिकारः, द्वन्द्व-अधिकारः चेति | प्रत्येकस्मिन् अधिकारे समासविधायकसूत्राणि सन्ति | समाससम्बद्धसूत्रे सुप् इत्युक्ते सुबन्तं पदं, सुपा इत्युक्ते सुबन्तेन पदेन इत्यर्थः |

page_and_link_managers, Administrators
5,097

edits