14---samAsaH/01---samAsaparicayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 39:
__NOEDITSECTION__
 
<big>समासज्ञानं विना समस्त-संस्कृत-वाङ्ग्मय-ज्ञानं भवितुं एव न अर्हति|संस्कृतभाषायां समासस्य प्रयोगः शास्त्रेषु, काव्येषु, वाक्येषु सर्वत्र दृश्यते |संस्कृतभाषायाः सम्यगवगमनार्थं समासस्य अध्ययनम् अत्यावश्यकम् |</big>
 
 
 
[[#1) समासः नाम कः? | <big>1) समासः नाम कः?</big>]]
 
[[#2) विग्रहवाक्यं नाम किम्?| <big>2) विग्रहवाक्यं नाम किम्?</big>]]
 
 
 
 
==='''<big>1) समासः नाम कः?</big>'''===
 
<big>'''अनेकस्य पदस्य एकपदीभवनं''' समासः इत्युच्यते | द्वयोः अथवा बहूनां पदानां मेलनेन यदा एकं पदं निष्पन्नं भवति तदा समासः इत्युच्यते |अर्थात् द्वयोः अथवा बहूनां पदनां मेलनेन एकार्थीभावः उत्पद्यते चेत् समासः इति कथ्यते |एकार्थीभाव-रूप सामर्थ्यम् अस्ति चेत् एव समासः भवति |यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभाव-रूप-सामर्थ्यम् अस्ति इति वदामः | एकार्थी-भाव-सामार्थ्यस्य अभावे समासः न भवति, केवलं संहिता एव |</big>
 
<big>यथा– सीतायाः पतिः</big>
 
 
<big>सीतायाः इति षष्ठ्यन्तं पदम् अस्ति , पतिः इति प्रथमान्तं पदम् अस्ति | एतयोः पदयोः मेलनेन सीतापतिः इति समासः भवति|सीता इति पदस्य कश्चित् अर्थः अस्ति, पतिः इति पदस्य अपि कश्चित् अर्थः अस्ति | अधुना यदा अनयोः पदयोः योजनेन समासः क्रियते तदा नूतनार्थः निष्पद्यते | सीतापतिः नाम कश्चन पुरुषः यः सीतायाः पतिः अस्ति | एतदेव एकार्थीभावसामर्थ्यम् इति उच्यते|समासे क्रियमाणे पदद्वयम् एकपदी भूत्वा विशिष्टम् अर्थं बोधयति, तदेव एकार्थी-भाव-रूप सामर्थ्यम् इति कथ्यते | '''ऐकपद्यमैकस्वर्यं च समासस्य लक्षणं भवति''' |</big>
 
 
<big>समासः इति पदस्य विग्रहवाक्यम् अस्ति समसनम् इति समासः |  सम् +असुँ क्षेपने इति धातुतः घञ् इति प्रत्ययं योजयित्वा समासः इति पदं निष्पन्नं भवति| सम् +असुँ क्षेपणे इति धातुतः ल्युट् इति प्रत्ययं योजयित्वा समसनम् इति पदं निष्पन्नं भवति |</big>
 
 
<big>सुबन्तानाम् एव समासः भवति|वेदेषु तिङन्तानाम् अपि समासः भवति | परन्तु लोके सामान्यतया सुबन्तानामेव समासः भवति|समासः युगपत् द्वयोः द्वयोः सुबन्तयोः एव भवति |द्वन्द्वसमासे, बहुव्रीहिसमासे च युग्पत् बहूनां पदानाम् अपि समासः भवति | परस्परान्वितयोः सुबन्तयोः एव समासः भवति|समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदमिति, उत्तरत्र श्रूयमाणं पदम् उत्तरपदमिति च व्यवह्रियते |समासे जाते पूर्वपदम् उत्तपदं च प्रातिपदिकरूपेण स्थितं भवति|ततः समस्तात् पदात् विभक्तिः योजनीया |समासप्रक्रिया अग्रे प्रदर्श्यते |</big>
 
 
<big>समासे सर्वदा अर्थस्य प्राधान्यम् अस्ति |समासस्य अर्थं बोधयितुं विग्रहवाक्यम् उच्यते |समासस्य अर्थंम् अवलम्ब्य एव विग्रहवाक्यं वक्तव्यम् |अर्थस्य ज्ञानं विना समासं वक्तुं न शक्यते| सर्वदा प्रसङ्गम् अवलम्ब्य विग्रहः वक्तव्यः | तर्हि  समासाध्ययने अस्माकं प्रथमं कार्यम् अस्ति समासस्य अर्थावगमनम् |अर्थं ज्ञात्वा समाससूत्राणां साहाय्येन सुलभतया विग्रहवाक्यं कथं भवति, समासः कः इति ज्ञातुं शक्नुमः |</big>
 
 
==='''<big>2) विग्रहवाक्यं नाम किम्?</big>'''===
 
<big>वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति उच्यते|समासे अर्थं बोधयितुं यद् वाक्यं उच्यते तद् वाक्यं विग्रहः इति व्यवह्रियते | विग्रहः द्विविधा भवति - लौकिकविग्रहः, अलौकिकविग्रहः चेति| येन वाक्येन समस्तपदस्य अर्थः अवगम्यते तद्वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते | यथा – सीतापतिः इति समासे, सीतायाः पतिः इति लौकिक-विग्रहवाक्यम् अस्ति |लोके प्रयोक्तुम् अर्हाणां पदानाम् अभावे अलौकिक-विग्रहवाक्यम् इति कथयामः |सीता +ङस् + पति+सु इति अलौकिक-विग्रहवाक्यम् |यत्र प्रकृति-प्रत्ययविभागः क्रियते तत्र अलौकिक-विग्रहः अथवा शास्त्रीयविग्रहः इति कथ्यते | अलौकिक-विग्रहवाक्यं समासप्रक्रियायां प्रयुज्यते न तु लोके | लोके अलौकिक-विग्रहवाक्यस्य अर्थबोधः न जायते | व्याकरणे एव अलौकिक-विग्रहवाक्यस्य प्रयोगः क्रियते |अलौकिकविग्रहवाक्ये प्रकृति-प्रत्यय-विभागः क्रियते समस्तपदस्य रूपसाधनार्थम् |</big>
 
 
<big>विग्रहः स्वपदविग्रहः अस्वपदविग्रहः इति द्वेधा विभज्यते| स्वपदविग्रहः नाम समासस्य अर्थः समासघटकैः पदैः वर्ण्यते तदा स्वपदविग्रहः इति उच्यते| समासघटकपदसहितं वाक्यं स्वपदविग्रहः इत्यर्थः|यथा - ग्रामगतः इति समासः|ग्रामं गतः इति स्वपदविग्रहः|अस्वपदविग्रहः नाम समास्स्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते|समासघटकपदरहितं वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा उपकृष्णम् इति अव्ययीभावसमासः|कृष्णस्य समीपम् इति अस्वपदविग्रहः|अत्र समीपम् इति पदं समासघटकं पदं नास्ति|एतादृशविग्रहः अस्वपदविग्रहः इति उच्यते|</big>
 
<big>एतेषु समास: अस्ति वा सन्धिः अस्ति वा इति वक्तव्यम् -१) मनोरथः, २) सूर्यदर्शनम्, ३) पुस्तकं, ४) नदीप्रवाहः, ५) शुद्धता, ६) गमनम् . ७) गङ्गायमुने, ८) देवकीनन्दः, ९) जलेऽस्मिन् , १०) ममाशा,  ११) कार्यालयं, १२) लोकनाथः, १३) बहुफलः , १४) दर्शनं,  १५) बन्धुर्गच्छति, १६ ) पुनस्स्मरणं, १७) देशसेवा, १८) साधुर्श्रूयते, १९) प्रतिनिधिरस्ति, २०) रामश्जयति  |</big>