14---samAsaH/02C---avyayiibhAvasamAsaH-sArAmshaH: Difference between revisions

no edit summary
No edit summary
Tag: Manual revert
No edit summary
 
(5 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">02C - अव्ययीभावसमासः सारांशः</span>}}
 
 
 
=== <big>पञ्च उपाङ्गनि —</big> ===
 
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य अलौकिकविग्रहात् समासप्रक्रिया आरभ्यते | समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण |</big>
 
==== <big>२) '''पूर्वनिपातः'''</big> ====
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्'''‌ (२.२.३०) इति सूत्रेण |</big>
 
==== <big>३) '''लिङ्गवचनयोः निर्णयः'''</big> ====
<big>समासस्य लिङ्गस्य, वचनस्य च निर्णयः |</big>
 
==== <big>४) '''समासान्तप्रत्ययाः'''</big> ====
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्याय्यां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति |</big>
 
==== <big>५) '''उत्तरपदाधिकारः'''</big> ====
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्याय्याम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३९) इति सूत्रपर्यन्तम् अस्ति | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  | कुत्रचित् किञ्चित् उत्तरपदे परे पूर्वपदस्य विभक्तेः अलुक् अपि भवति | एतादृशकार्याणि उत्तरपदाधिकारे लभ्यन्ते |</big>
 
 
 
=== '''<big>अव्ययीभावासमासः</big>''' ===
<big>अव्ययीभावसमासे पूर्वपदम् अव्ययम्, उत्तरपदं च सुबन्तं पदं भवति | अनव्ययम् अव्ययं सम्पद्यते इति अव्ययीभावः | अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति  | यथा- उपवृक्षम् इति अव्ययीभावसमासः, तस्य विग्रहवाक्यम् अस्ति वृक्षस्य समीपम् इति | उपवृक्षम् इति समासस्य अव्ययसंज्ञा भवति '''अव्ययीभावश्च''' (१.१.४१) इति सूत्रेण | अव्ययीभावसमासः नपुंसकलिङ्गे भवति  | उपवृक्षम् इति अव्ययं, नपुंसकलिङ्गे अस्ति |</big>
 
 
==== <big>'''अव्ययीभावः''' (२.१.५)</big> ====
<big>अधिकारसूत्रम् इदम्   | नाम अस्मिन् अधिकारे यत् उच्यते तत् सर्वम् अव्ययीभावसमासः भवति | अव्ययीभाव-समास-सम्बद्धसूत्राणि (२.१.६) इत्यस्मात् सूत्रात् आरभ्य (२.१.२१) इति सूत्रपर्यन्तं सन्ति |   '''सूत्रं स्वयं सम्पूर्णम्'''  |</big>
 
 
==== <big>'''अव्ययीभावश्च''' (१.१.४१)</big> ====
<big>अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च अव्ययम् |'''</big>
 
 
<big>'''अव्ययम्'''  —</big>
 
<big>अव्ययस्य लक्षणं कौमुद्यां दीयते यत् -</big>
 
'''<big>सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु |</big>'''
 
<big>'''वचनेषु च सर्वेषु यन्न व्येति (परिवर्तते) तत् अव्ययम्''' ॥ इति</big>
 
 
<big>व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इति सूत्रेण | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  |</big>
 
 
 
<big>'''अव्ययीभावश्च''' (२.४.१८) = अव्ययीभावसमासः नपुंसकलिङ्गे भवति | अनुवृत्ति-सहित-सूत्रम् — '''अव्ययीभावः च नपुंसकम् |'''</big>
 
 
<big>वस्तुतस्तु अव्ययीभावश्च इति सूत्रं स्थलद्वये वर्तते | '''अव्ययीभावश्च''' (१.१.४१) इति एकं सूत्रं तु अव्ययप्रकरणे प्रथमाध्याये अस्ति यत्र अव्ययसंज्ञा क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इति अपरसूत्रं द्वितीयाध्याये अस्ति यत्र अव्ययीभावसमासस्य नपुंसकलिङ्गविधानं क्रियते |</big>
 
 
 
==== '''<big>अव्ययीभावसमासे समासान्तप्रत्ययाः</big>''' ====
<big>अव्ययीभावसमासे यत्र समासान्तप्रत्ययः विधीयते तत्र टच् इति प्रत्ययः एव विधीयते | कुत्रचित् नित्यरूपेण विधीयते, कुत्रचित् विकल्पेन विधीयते | टच् इति प्रत्ययस्य विधानेन प्रक्रियायाम् अव्ययीभावसमासः अदन्तः भवति येन '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इत्यनेन सुप्प्रत्ययस्य स्थाने अमादेशः सिद्ध्यति |</big>
{| class="wikitable sortable mw-collapsible mw-collapsed"
|+
|'''<big>सूत्रक्रमाङ्कः</big>'''
|'''<big>सूत्रं</big>'''
|'''<big>प्रत्ययविधानम्</big>'''
|'''<big>उपप्रकरणम्</big>'''
|-
|<big>५.४.१०७</big>
|'''<big>अव्ययीभावे शरत्प्रभृतिभ्यः</big>'''
|'''<big>टच्</big>'''
|<big>अव्ययीभावसमासः</big>
|-
|<big>५.४.१०८</big>
|'''<big>अनश्च</big>'''
|'''<big>टच्</big>'''
|<big>अव्ययीभावसमासः</big>
|-
|<big>५.४.१०९</big>
|'''<big>नपुंसकादन्यतरस्याम्</big>'''
|'''<big>वैकल्पिकः टच्</big>'''
|<big>अव्ययीभावसमासः</big>
|-
|<big>५.४.११०</big>
|'''<big>नदीपौर्णमास्याग्रहायणीभ्यः</big>'''
|'''<big>वैकल्पिकः टच्</big>'''
|<big>अव्ययीभावसमासः</big>
|-
|<big>५.४.१११</big>
|'''<big>झयः</big>'''
|'''<big>वैकल्पिकः टच्</big>'''
|<big>अव्ययीभावसमासः</big>
|-
|<big>५.४.११२</big>
|'''<big>गिरेश्च सेनकस्य</big>'''
|'''<big>वैकल्पिकः टच्</big>'''
|<big>अव्ययीभावसमासः</big>
|}
<big>'''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे यानि सूत्राणि पठितानि तानि सर्वाणि विकल्पेन विधीयन्ते | समासः विकल्पेन विधीयते इति सामान्यः नियमः परन्तु कुत्रचित् '''विभाषा''' (२.१.११) इत्यस्य अधिकारः चेत् अपि  समासः नित्यरूपेण विधीयते | यत्र समासः नित्यः तत्र '''विभाषा''' (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि समासविधायकसूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति | अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र '''विभाषा''' (२.१.११) इत्यस्य अधिकारः नास्ति, अत एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति |</big>
 
=== '''<big>अव्ययीभावसमास-सम्बद्ध-मुख्यसूत्राणि</big>''' ===
<big>'''१) ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७)</big>
 
<big>नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः |'''</big>
 
 
<big>'''२)नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big>
 
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | अनुवृत्ति-सहितसूत्रम्‌—'''अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |'''</big>
 
 
<big>'''३)तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big>
 
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | बहुलम् इत्युक्ते बहून् अर्थान् लाति( गृह्णाति) इति बहुलम् | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अव्ययीभावाद् अतः अम् बहुलम्''' |</big>
 
 
<big>'''४) अमि पूर्वः''' (६.१.१०५)</big>
 
<big>अक् वर्णात् अम्-सम्बन्धि-अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति सहितसूत्रम् — '''अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |'''</big>
 
 
<big>'''५) प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)</big>
 
<big>समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञकं स्यात् | समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति, तत् पदम् उपसर्जन-संज्ञकं स्यात् | समासशास्त्रे इत्यनेन समासविधायकसूत्रं, वार्तिकं वा स्यात् | इदं संज्ञा-सूत्रम् अस्ति | अनुवृत्ति-सहित-सूत्रम्‌ — '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' |</big>
 
 
<big>'''५) उपसर्जनं पूर्वम्‌''' (२.२.३०)</big>
 
<big>समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तव्यः | अनेन सूत्रेण यत् कार्यं भवति तस्य नाम पूर्वनिपातः अथवा पूर्वप्रयोगः इति कथ्यते |</big>
 
=== <big>'''सम्प्रति अष्टाध्यायीक्रमेण अव्ययीभाव-समास-सूत्राणि पठिष्यामः-'''</big> ===
 
==== 1) <big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६)  </big> ====
<big>विभक्ति - समीप - समृद्धि - व्यृद्धि (ऋद्धेः अभावः) - अर्थाभाव - अत्यय (नाशनम्) - असम्प्रति (अयोग्यं) - शब्दप्रादुर्भाव (शब्दस्य प्रसिद्धिः) - पश्चाद् - यथा (योग्यता, वीप्सा, पदार्थानतिवृत्ति अपि च सादृश्यम्) - आनुपूर्व्य (क्रमशः) - यौगपद्य (एकत्र भवनं) - सादृश्य  - सम्पत्ति - साकल्य (सम्पूर्णता) - अन्तवचनेषु (समाप्तिः) इत्यस्मिन् अर्थे विद्यमानस्य अव्ययस्य समर्थेन सुबन्तेन सह नित्यसमासः भवति, अव्ययीभावश्च समासः भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु | अनुवृत्ति-सहित-सूत्रम्‌—'''अव्ययं सुप् सुपा सह''' '''विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु अव्ययीभावः समासः |'''</big>
 
{| class="wikitable"
|+
!<big><nowiki>अस्मिन् सूत्रे अव्ययस्य षोडश अर्थाः दृश्यन्ते | अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति इति उक्तमेव | अधुना एते अर्थाः दृश्यन्ते –</nowiki></big>
|-
|
===== <big>'''i)'''  '''सूत्रे विभक्त्यर्थे अव्ययम् –'''</big> =====
<big>अस्मिन् सूत्रे '''विभक्त्यर्थे''' वर्तमानम् अव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः | विभक्त्यर्थः नाम कारकम् इति अर्थः | कारकेषु अपि अधिकरणकारकमेव अत्र इष्यते |  विभक्त्यर्थे अधि,अन्तर् इति अव्ययं समस्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तमीविभक्तेः अधिकरणम् इति अर्थः अस्ति | अस्य उदाहरणम् अस्ति अधिहरि | यथा – हरौ इति = अधिहरि | नाम हरेः विषये इति | वयम् अधिहरि वसामः | शिवः अधिकैलासं वसति</big>
{| class="wikitable sortable mw-collapsible mw-collapsed"
|+
!
====== अधिहरि ( उत्तरपदम अनदन्तं चेत्) ======
|-
|<big>अलौकिकविग्रहवाक्यम् -</big>
<big>हरि + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |</big>
 
<big>हरि + ङि + अधि '''→'''  समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>हरि + ङि + अधि '''→  '''इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः हरि + ङि + अधि '''→''' इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति '''→''' हरि + अधि |</big>
 
<big>हरि + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌  न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक् अभवत् '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
<big>हरि + अधि → अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमाविभक्त्या यत्  पदं निर्दिश्यते समासविधायकसूत्रे तत् उपसर्जनसंज्ञकं भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययम् अस्ति, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
<big>अधिहरि '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अधिहरि इति शब्दः अव्ययसंज्ञकः भवति |</big>
 
<big>अधिहरि '''→''' इदानीं लिङ्गस्य निर्णयः क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
<big>अधिहरि '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य हस्वः भवति | अतः अधिहरि इति भवति|</big>
 
<big>अधिहरि + सु '''→''' अधिहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः '''ङ्याप्प्रातिपदिकात्‌''' ( ४.१.१),</big>
 
<big>'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इत्याभ्यां सूत्राभ्याम् |</big>
 
<big>अधिहरि + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति | '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन सूत्रेण अधिहरि इति अव्ययम् अस्ति इत्यतः सु प्रत्ययस्य लोपः भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अधिहरि''' इति समस्तपदं निष्पन्नम् | अत्र अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति अतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३), '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) च, अनयोः सूत्रयोः प्रसक्तिः नास्ति | एतस्मिन् विषये अग्रे वक्ष्यते |</big>
 
<big>'''वयं सर्वे अधिहरि वसामः''' | '''अधिहरि जगतः सृष्टिः भवति |'''</big>
 
<big>सर्वासु विभक्तिषु अधिहरि इत्येव रूपं भवति |</big>
|}
{| class="wikitable sortable mw-collapsible mw-collapsed"
|+
!अधिगोपम् ( उत्तरपदम् अदन्तं चेत् )
|-
|<big><nowiki>गोपि इति = अधिगोपम् | गाः पाति इति गोपाः, तस्मिन् इति अधिगोपाः | पा-धातुः रक्षणार्थे अस्ति |</nowiki></big>
 
 
<big>अलौकिकविग्रहवाक्यम्</big>
 
<big>गोपा + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन गोपा इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |</big>
 
<big>गोपा + ङि + अधि '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>गोपा + ङि + अधि '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतःगोपा + ङि + अधि '''→'''इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति '''→''' गोपा + अधि</big>
 
<big>गोपा + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
<big>गोपा + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
<big>अधिगोपा '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अधिगोपा इत्यस्य अव्ययसंज्ञा भवति |</big>
 
<big>अधिगोपा'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अधिगोपा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
<big>अधिगोपा '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः अधिगोप इति भवति |</big>
 
<big>अधिगोप + सु '''→''' अधिगोप इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण |</big>
 
<big>अधिगोप + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात्  सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अधिगोपात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>अधिगोप + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु '''अधिगोपम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति'''→''' अधिगोपम् / अधिगोपेन, अधिगोपम् / अधिगोपे | अन्यासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति |</big>
 
<big>पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण | तर्हि प्रक्रिया अधो भागे प्रदर्शिता –</big>
 
<big>अधिगोप + ङसि '''→ टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति |</big>
 
<big>अधिगोप + आत् '''→ अकः सवर्णे दीर्घः''' (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अधिगोपात् इति रूपं निष्पन्नं भवति |</big>
 
<big>अधः सर्वासु विभक्तिषु रूपाणि प्रदर्शितानि |</big>
|}
{| class="wikitable sortable mw-collapsible mw-collapsed"
|+
!अध्यात्मम् ( उत्तरपदं हलन्तं चेत्)
|-
|<big><nowiki>आत्मनि इत्येव = अध्यात्मम्|</nowiki></big>
<big>अलौकिकविग्रहवाक्यम्</big>
 
<big>आत्मन् + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)  इति सूत्रेण अधि इति अव्ययं समर्थेन आत्मनि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |</big>
 
<big>आत्मन् + ङि + अधि '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>आत्मन् + ङि + अधि '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतःआत्मन् + ङि + अधि '''→'''इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति→ आत्मन् + अधि इति |</big>
 
<big>आत्मन् + अधि'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
<big>आत्मन् + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big> <big>अधि + आत्मन् → '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |</big>
 
<big>अधि + आत्मन् → '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |</big>
 
<big>अधि + आत्मन् → अत्र '''इको यणचि''' (६.१.७६) इति सूत्रेण यण् सन्धिं कृत्वा → अध्यात्मन् इति भवति, तस्य अव्ययसंज्ञा भवति |</big>
 
<big>अध्यात्मन् '''→''' इदानीम् '''अनश्च''' (५.४.१०८) इति सूत्रेण अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः भवति |</big>
 
<big>अध्यात्मन् + टच् '''→''' टच् इति समासान्तप्रत्ययः समासस्य अवयवः भवति | टच् इति प्रत्यये इतसंज्ञकवर्णयोः लोपानन्तरम् अकारः अवशिष्यते | अध्यात्मन् + अ '''→''' आत्मन् इति पुंलिङ्गशब्दः अस्ति, अतः '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रस्य प्रसक्तिः नास्ति | '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण नपुंसकलिङ्गे अन्नन्तप्रातिपदिकात् टच् इति समासान्तप्रत्ययः विकल्पेन भवति |</big>
 
<big>अध्यात्मन् + अ '''→''' इदानीं '''नस्तद्धिते''' (६.४.१४४) इति सूत्रेण तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य शब्दस्य टिसंज्ञकस्य लोपः भवति '''→ नस्तद्धिते''' (६.४.१४४) इति सूत्रेण अन् इति टि-भागस्य लोपानन्तरम् '''→''' अध्यात्म् + अ '''→''' अध्यात्म इति भवति |</big>
 
<big>अध्यात्म '''→''' इदानीं लिङ्गस्य निर्णयः क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अध्यात्म इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
<big>अध्यात्म + सु '''→''' अध्यात्म इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः '''ङ्याप्प्रातिपदिकात्‌'''  (४.१.१), '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इत्याभ्यां सूत्राभ्याम् |</big>
 
<big>अध्यात्म + सु '''→  अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अध्यात्मात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big> <big>अध्यात्म + अम् '''→'''  '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''अध्यात्मम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति '''→''' अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे | अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |</big>
 
<big>अध्यात्म + अम् '''→'''  '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''अध्यात्मम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति '''→''' अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे | अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |</big>
 
<big>पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण | तर्हि प्रक्रिया अधो भागे प्रदर्शिता –</big>
 
<big>अध्यात्म + ङसि '''→ टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति |</big> <big>अध्यात्म+ आत् '''→ अकः सवर्णे दीर्घः''' (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अध्यात्मात् इति रूपं निष्पन्नं भवति |</big>
 
<big>अध्यात्म+ आत् '''→ अकः सवर्णे दीर्घः''' (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अध्यात्मात् इति रूपं निष्पन्नं भवति |</big>
 
<big>एवमेव राज्ञः समीपम् = उपराजम् इति भवति |</big>
 
 
 
====== <big>'''अनश्च''' (५.४.१०८)</big> ======
<big>यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति | अनः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्‌— '''अनश्च अव्ययीभावात् प्रादिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः |'''</big>
 
 
 
====== <big>'''नस्तद्धिते''' (६.४.१४४)</big> ======
<big>तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति | नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् |</big>
|}
----
----
 
===== <big>'''ii)'''   '''सूत्रे समीपार्थे अव्ययम्–'''</big> =====
<big>समीपार्थे उप इति अव्ययं प्रयुज्यते |</big>
 
<big>यथा – '''नद्याः समीपम् = उपनदम्/उपनदि'''</big>
 
<big>उपनदम् इति समस्तपदस्य रूपसाधनार्थं '''नदीपौर्णमास्याग्रहायणीभ्यः''' (५.४.११०) इति सूत्रेण टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते | यस्मिन् पक्षे टच् इति समासान्तप्रत्ययः विधीयते तत्र उपनदम् इति रूपं निष्पन्नं भवति | यस्मिन् पक्षे टच् इति प्रत्ययः न विधीयते तत्र उपनदि इति रूपं सिद्ध्यति | उपनदम् / उपनदि इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखिता वर्तते |</big>
 
====== <big>'''नदीपौर्णमास्याग्रहायणीभ्यः''' (५.४.११०)</big> ======
<big>अव्ययीभावसमासस्य अन्ते "नदी", "पौर्णमासी (day of full moon)", "आग्रहायणी" (day of full moon in the month of आग्रहायणम्) इत्येतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अव्ययीभावे ङ्याप्प्रातिपदिकेभ्यः नदीपौर्णमास्याग्रहायणीभ्यः परश्च तद्धितः समासान्तः टच् प्रत्ययः अन्यतरस्याम् |'''</big>
 
 
 
====== <big>'''यस्येति च''' (६.४.१४८)</big> ======
<big>भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | इश्च अश्च,  समाहारद्वन्द्वः, तस्य यस्य | अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते''' | </big>
 
----
----
 
 
<big>३) समृद्ध्यर्थे (ऋद्धेः आधिक्यं - excessive prosperity) – 'सु' इति अव्ययस्य प्रयोगः क्रियते | यथा – मद्राणां समृद्धिः = सुमद्रम् | मद्रदेशवासिनां समृद्धिः | भिक्षाणां समृद्धिः = सुभिक्षम् |  सुमद्रं जनाः आनन्देन वसन्ति स्म |</big>
----
----
 
 
<big>४) व्यृद्ध्यर्थे (ऋद्धेः अभावः, वैकृत्यम्,  deterioration) –  विगता ऋद्धिः = व्यृद्धिः | 'दुर्' इति अव्ययस्य प्रयोगः क्रियते | यथा – यवनानां व्यृद्धिः = दुर्यवनम् | एवमेव शकानां व्यृद्धिः = दुःशकम् | दुर्यवनं प्रजाः दुखिताः अभवन् |</big>
 
----
----
 
 
<big>५) अर्थाभावार्थे (अभावार्थे, पदार्थस्य असत्ता ) – 'निर्' इति अव्ययस्य प्रयोगः क्रियते | यथा – मक्षिकाणाम् अभावः = निर्मक्षिकम् | विघ्नानाम् अभावः = निर्विघ्नम्|बालकः निर्मक्षिकम् आनन्देन शेते |</big>
----
----
 
 
<big>६) अत्ययार्थे (नाशः) – 'अति', निर्, निस् इत्येषाम् अव्ययानां प्रयोगः क्रियते | यथा – हिमस्य अत्ययः =अतिहिमम् | अतिशीतम्, निर्हिमम्  इत्यादयः | अतिहिमं परिसरस्य हानिः भवति | रामः अतिकोपात् शान्तिं प्राप्तवान् |</big>
----
----
 
 
<big>७) असम्प्रत्यर्थे (अयुक्तः, अयोग्यकाले इति) – 'अति' इति अव्ययस्य प्रयोगः क्रियते | असम्प्रति = न युज्यते इत्यर्थः | यथा – निद्रा सम्प्रति न युज्यते = अतिनिद्रम् | कम्बलं सम्प्रति न युज्यते इति अतिकम्बलम् | अतिनिद्रम् आरोग्याय न भवति | अतिनिद्रं पुरुषः उत्तिष्ठति |</big>
 
----
----
 
 
<big>८) शब्दप्रादुर्भावार्थे (शब्दस्य प्रसिद्धिः, शब्दस्य प्रकाशः, appearance of the word) – 'इति' इति अव्ययस्य प्रयोगः क्रियते | यथा – हरिशब्दस्य प्रकाशः = इतिहरि |पणिनिशब्दस्य प्रकाशः = इतिपाणिनि | ज्ञानशब्दस्य प्रकाशः = इतिज्ञानम् | शङ्काराचर्यस्य कारणेन भारते इतीश्वरम् आरब्धम् | तिरुपत्याम् इतिगोविन्दं श्रवणेन सर्वे ध्यानमग्नाः भवन्ति |</big>
 
<big>९) पश्चादर्थे (अनन्तरम्) – 'अनु' इति अव्ययस्य प्रयोगः क्रियते | यथा – विष्णोः पश्चात् = अनुविष्णु | रथानां पश्चात् = अनुरथम् | पदानां पश्चात् = अनुपदम् | अनुशिष्यम्, अनुगोपालम् इत्यादीनि उदाहरणानि | रामः अनुमृगं धावति |अनुवृष्टि सस्यानि वर्धन्ते | अन्वर्चकं भक्ताः रामनाम जपन्ति स्म |</big>
----
----
 
 
<big>१०) यथा इत्यस्य चत्वारः अर्थाः सन्ति – योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम् च | अत्र 'यथा' इति अव्ययस्य प्रयोगः क्रियते |</big>
 
 
<big>a. योग्यता (अर्हता) – अस्मिन् अर्थे 'अनु' इति अव्ययं समस्यते | यथा – रूपस्य योग्यम् = अनुरूपम् | गुणानां योग्यम् = अनुगुणम् | लेखस्य योग्यम् = अनुलेखम् |विद्यालयस्य योग्यम् = अनुविद्यालयम् | अनुरूपं सः युतकं क्रीणाति | एतानि उत्तराणि अनुप्रश्नं भवन्ति |</big>
 
<big>b. वीप्सा (पौनः पुण्यः) – 'प्रति' इति अव्ययस्य प्रयोगः क्रियते | यथा – अर्थमर्थं प्रति = प्रत्यर्थम् | प्रतिमासं, प्रतिगृहं, प्रत्येकम् इत्यादीनि उदाहरणानि | यथा प्रतिवृक्षं सिञ्चति इत्यस्य एकैकं वृक्षं सिञ्चति इत्यर्थः | रामः प्रतिदिनं कार्यालयं गच्छति |</big>
 
<big>c. पदार्थानतिवृत्तिः (अनतिक्रमः – not exceeding) – 'यथा' इति अव्ययस्य प्रयोगः क्रियते | यथा – शक्तिम् अनतिक्रम्य = यथाशक्ति | यथाशक्ति पठति इत्यस्य शक्तिम् अनतिक्रम्य पठति इत्यर्थः | यथाप्रीति | यथाबुद्धि, यथाज्ञानम् इत्यादीनि उदाहरणानि | छात्राः यथामति अध्ययनं कुर्वन्ति | शिष्यः आचर्यस्य वचनं यथोक्तम् अवगच्छति | यथासम्भवं विद्यार्थिभिः सह  सर्वोऽपि संलापः संस्कृतभाषैव कर्तव्यः | यथाकुलं पुरुषाः व्यापारं कुर्वन्ति |</big>
 
<big>  d. सादृश्यम् (औपम्यम् -Similarity) – 'सह' इति अव्ययस्य प्रयोगः क्रियते|यथा  हरेः सादृश्यम् = सहरि | सहरि प्रद्युम्ने दृश्यते | सादृश्यस्य प्राधान्यम् अस्ति |</big>
 
----
----
 
 
<big>११) आनुपूर्व्यार्थे (क्रमशः -Sequentially) – 'अनु' इति अव्ययस्य प्रयोगः क्रियते | यथा – ज्येष्ठस्य आनुपूर्व्येण = अनुज्येष्ठम् | अनुज्येष्ठं मानवकः प्रणमति | अनुकनिष्ठं माता भोजनं परिवेषयति | वृद्धस्य आनुपूर्व्येण = अनुवृद्धम् |</big>
----
----
 
 
<big>१२) यौगपद्यार्थे (युगपत्, समानकाले) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | चक्रेण युगपत् = सचक्रम् | सचक्रं शङ्खं धेहि | सरामं लक्ष्मणः, सीता च वनं गच्छतः |</big>
 
----
----
 
 
<big>१३) सादृश्यार्थे (तुल्यत्वं, गौणम्) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – सदृशः सख्या = ससखि|ससखि रमा सुन्दरी आसीत् | प्रकृत्या ससखि रामः अस्ति | सकृष्णं प्रद्युम्नः गुणवान् आसीत् | अत्र सादृश्यस्य प्राधान्यं नास्ति |</big>
 
----
----
 
 
<big>१४) सम्पत्त्यर्थे (अनुरूपः आत्मभावः, Appropriate) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा क्षत्राणां सम्पत्तिः = सक्षत्रम् | सक्षत्रं रामः रावणेन युद्धम् अकरोत् | सबुद्धि बालकः पाठम् अवगच्छति |</big>
 
----
----
 
 
<big>१५) साकल्यार्थे (सम्पूर्णता -Entirety, अशेषता) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – तृणम् अपि अपरित्यज्य अत्ति = सतृणम् | सः सतृणम् अत्ति | अर्थात् लेशमात्रम् अपि अपरित्यज्य खादति |</big>
----
----
 
 
<big>१६) अन्तार्थे (समाप्ति:) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – अग्निग्रन्थपर्यन्तम् अधीते = साग्नि | साग्नि  अधीते |</big>
----
----
 
 
|}
page_and_link_managers, Administrators
5,097

edits