14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,909:
 
 
<big>यथा –</big>
 
<big>आश्चर्यः गवां दोहः अगोपेन इति वाक्यम् ।</big>
 
<big>वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः अस्ति  |गोः दोहति इति वाक्ये गोः इति कर्मपदम् अस्ति  |दोहति इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य प्रयोगः क्रियते तर्हि कर्मणि षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण  |दुहिर् अर्दने इति धातुतः घञ् प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति  |दोहः इति पदस्य कर्म अस्ति गोः इति पदम्  |सामान्यतया कर्मणि द्वितीयाविभक्तिः भवति इति जानीमः परन्तु कृत्प्रत्ययस्य योगे कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण  |गोः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति  |गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति।</big>
 
<big><br />
७)    कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  |कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |</big>
 
<big>'''तृजाकाभ्यां कर्तरि''' (२.२.१५) = कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते | कर्मणि या षष्ठी सा कर्तरि तृचा अकेन च सह न समस्यते |कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  |कृद्योगे कर्तरि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते |अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  |'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते |'''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल् -प्रत्ययान्तस्य एव  ग्रहणं भवति  |कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् अस्ति  |अर्थात् तृच् प्रत्ययः अथवा अक प्रत्ययः यः कर्त्रर्थे विहितः इत्यर्थः |तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः  |'''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् |तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''कर्मणि''' '''षष्ठी सुप्  कर्तरि तृजाकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः ।'''</big>
७)    कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  |कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |
 
<big>यथा—</big>
'''तृजाकाभ्यां कर्तरि''' (२.२.१५) = कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते | कर्मणि या षष्ठी सा कर्तरि तृचा अकेन च सह न समस्यते |कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  |कृद्योगे कर्तरि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते |अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  |'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते |'''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल् -प्रत्ययान्तस्य एव  ग्रहणं भवति  |कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् अस्ति  |अर्थात् तृच् प्रत्ययः अथवा अक प्रत्ययः यः कर्त्रर्थे विहितः इत्यर्थः |तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः  |'''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् |तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''कर्मणि''' '''षष्ठी सुप्  कर्तरि तृजाकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः ।'''
 
<big>अपां स्रष्टा –जलस्य सृष्टिकर्ता इत्यर्थः  |अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  |</big>
यथा—
 
<big>आपः इति नित्यं स्त्रीलिङ्गशब्दः अस्ति, अप् इति प्रातिपदिकम्  |अपां स्रष्टा इति वाक्ये स्रष्टा इति कृत्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः अस्ति |स्रष्टा इति कृद्योगे अप्-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः अपाम् इति भवति |अपां स्रष्टा इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति ।</big>
अपां स्रष्टा –जलस्य सृष्टिकर्ता इत्यर्थः  |अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  |
 
आपः इति नित्यं स्त्रीलिङ्गशब्दः अस्ति, अप् इति प्रातिपदिकम्  |अपां स्रष्टा इति वाक्ये स्रष्टा इति कृत्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः अस्ति |स्रष्टा इति कृद्योगे अप्-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः अपाम् इति भवति |अपां स्रष्टा इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति ।
 
 
एवमेव व्रजस्य भर्ता – यः व्रजस्य  भरणं करोति इत्यर्थः  |अत्र भृ इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, भर्ता इति पदं  निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  |भर्ता इति कृद्योगे व्रजशब्दस्य षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति |व्रजस्य भर्ता इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता ।
 
<big>एवमेव व्रजस्य भर्ता – यः व्रजस्य  भरणं करोति इत्यर्थः  |अत्र भृ इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, भर्ता इति पदं  निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  |भर्ता इति कृद्योगे व्रजशब्दस्य षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति |व्रजस्य भर्ता इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता ।</big>
 
<big><br />
ओदनस्य पाचकः – पच् इति धातुतः कर्त्रर्थे ण्वुल्(अक) प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति |पाचकः इति कृद्योगे ओदन-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः ओदनस्य इति भवति |ओदनस्य पाचकः इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – ओदनस्य पाचकः ।</big>
 
<big>ईक्षूणां (sugarcane) भक्षणम् = इक्षुभक्षिका  |भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्ठीसमासः दृश्यते, किमर्थम्?</big>
 
<big>'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रे कर्तरि इति उक्तम्, तस्य प्रयोजनं किम्?</big>
 
<big>कर्त्रर्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते  |भावार्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः इक्षुभक्षिका इति षष्ठीसमासः भवति यतः ण्वुल्-प्रत्ययः भावार्थे विहितः अस्ति |भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुल् प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् |ईक्षूणां भक्षणम् इत्यस्मिन् कर्त्रर्थे ण्वुल् प्रत्ययः नास्ति भावार्थे एव अस्ति इत्यतः षष्ठीसमासः सम्भवति |अतः इक्षुभक्षिका इति षष्ठीसमासः भवति  |</big>
 
<big>पत्यर्थस्य भर्तृ-शब्दस्य तु याजाकादित्वात् समासः – भुवः भर्ता |भर्तृ-शब्दस्य द्वौ अर्थौ स्तः – पतिः, भरणं च  |यदि पतिः इत्यस्मिन् अर्थे भर्तृ-शब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः अतः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः प्राप्यते  | |अर्था याजकादिगणपाठसामर्थ्यात् कर्त्रर्थकप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्ठीसमासनिषेधः प्रवृत्तः न भवति अपितु विशेषविधानस्य कारणेन '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य बाधकं सूत्रं भवति '''याजकादिभिश्च''' (२.२.९) इति सूत्रम्  |अतः भुवः भर्त्ता इति विग्रहे '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण '''भूभर्ता''' इति समासः सिद्ध्यति  |भूभर्ता नाम पृथिव्याः पतिः इति  |एवं '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रं बाधित्वा '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः क्रियते, अतः प्रतिप्रसवः इति उच्यते  |बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते  |आदौ षष्ठीसमासस्य प्राप्तिः, तस्य निषेधः भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण |पुनः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण विशेषविधानं क्रियते येन षष्ठीसमासः पुनः विधीयते  |अयमेव प्रतिप्रसवः इत्युच्यते  |</big>
 
<big>त्रिभुवनस्य विधाता = त्रिभुवनविधाता |अत्र समासः कथं सिद्ध्यति यतोहि विधाता इति तृजन्तः शब्दः अस्ति अतः अत्र '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?</big>
 
<big>तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः नास्ति अपि तु तृन्प्रत्ययान्तः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तरस्य  |अत्रतु विधातृ इति प्रातिपदिकं तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति,  अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति  |अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति  |त्रिभुवनम् इति पदम् अपि समस्तपदमेव |तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति  |अयं द्विगुसमासः अस्ति  |तस्य विवरणम् अग्रे करिष्यते  |</big>
 
 
'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति |याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः |याजकादिभिः तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''
 
 
<big>'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति |याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः |याजकादिभिः तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''</big>
८)      कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः  |
 
<big><br />
८)      कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः  |</big>
 
<big><br />
'''कर्तरि च''' (२.२.१६) = कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः  |अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति |कर्तरि सप्तम्यन्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च।'''</big>
 
<big>यथा—</big>
 
<big>भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् |भवतः इति शब्दे कर्त्रर्थे षष्ठीविभक्तिः अस्ति |भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रेण |अतः भवत्शायिका इति समासः न भवति |</big>
 
<big>'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलं अक इत्यस्य अनुवृत्तिः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रे |अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः '''कर्तरि कृत्''' ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते |फलितार्थः एवं यत्  यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन |कर्ता उक्तः इति कारणेन कर्तुः प्रथमा भवति अतः कर्त्रर्थे षष्ठी न भवत्येव |यदा कर्त्रथे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति |यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात्।</big>
 
 
षष्ठीसमासनिषेधकप्रकरणं समाप्तम् |अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये |अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म |अग्रेमे सूत्रे समासः नित्यं भवति |तदनन्तरं पुनः समासः विकल्पेन भवति |
 
 
<big>षष्ठीसमासनिषेधकप्रकरणं समाप्तम् |अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये |अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म |अग्रेमे सूत्रे समासः नित्यं भवति |तदनन्तरं पुनः समासः विकल्पेन भवति |</big>
क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः नित्यः, तत्पुरुषश्च समासो भवति।
 
<big><br />
'''नित्यं क्रीडा जीविकयोः''' (२.२.१७) = क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य, अकप्रत्ययान्तेन सुबन्तेन सह नित्यं समासः, तत्पुरुषश्च समासो भवति |नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति |समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः |नित्यमिति क्रिया विशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अकेन सुपा सह नित्यं तत्पुरुषः समासः ।'''
क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः नित्यः, तत्पुरुषश्च समासो भवति।</big>
 
<big>'''नित्यं क्रीडा जीविकयोः''' (२.२.१७) = क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य, अकप्रत्ययान्तेन सुबन्तेन सह नित्यं समासः, तत्पुरुषश्च समासो भवति |नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति |समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः |नित्यमिति क्रिया विशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अकेन सुपा सह नित्यं तत्पुरुषः समासः ।'''</big>
क्रीडा इत्यस्य उदाहरणम् –
 
<big>क्रीडा इत्यस्य उदाहरणम् –</big>
उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यते यत्र क्रीडायां ण्वुल्-प्रत्ययः- a sort of game played by the people in which Uddālaka flowers are broken or crushed).
 
<big>उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यते यत्र क्रीडायां ण्वुल्-प्रत्ययः- a sort of game played by the people in which Uddālaka flowers are broken or crushed).</big>
उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति |भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल् प्रत्ययः विधीयते |अलौकिकविग्रहः –
 
<big>उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति |भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल् प्रत्ययः विधीयते |अलौकिकविग्रहः –</big>
उद्दालकपुष्प +आम् + भञ्जिका +सु  |अत्र '''कर्तरि च''' (२.२.१६) इति सूत्रेण षष्ठीसमासः निषिध्यते , तस्य प्रतिप्रसवः भवति '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण अतः षष्ठीसमासः पुनः विधीयते नित्यरूपेण |समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लिक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  |अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पध्यते  |अत्र समासः नित्यः अतः विग्रहवाक्यं न भवति  |
 
<big>उद्दालकपुष्प +आम् + भञ्जिका +सु  |अत्र '''कर्तरि च''' (२.२.१६) इति सूत्रेण षष्ठीसमासः निषिध्यते , तस्य प्रतिप्रसवः भवति '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण अतः षष्ठीसमासः पुनः विधीयते नित्यरूपेण |समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लिक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  |अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पध्यते  |अत्र समासः नित्यः अतः विग्रहवाक्यं न भवति  |</big>
 
जीविकाम् इत्यस्य उदाहरणम् –
 
दन्तानां लेखकः = दन्तलेखकः |दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां कथानां लेखकः दन्तलेखकः इति उच्यते |यः तादृशीं कथां लिखित्वा जीवनं चालयति इत्यर्थः |दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् |अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः प्राप्तः आसीत् |अधुना '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण तस्य प्रतिप्रसवः भूत्वा नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते ।
 
ओदनस्य भोजकः इत्यत्र समासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति षष्ठ्यन्तं पदम्  |
 
<big>जीविकाम् इत्यस्य उदाहरणम् –</big>
 
<big>दन्तानां लेखकः = दन्तलेखकः |दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां कथानां लेखकः दन्तलेखकः इति उच्यते |यः तादृशीं कथां लिखित्वा जीवनं चालयति इत्यर्थः |दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् |अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः प्राप्तः आसीत् |अधुना '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण तस्य प्रतिप्रसवः भूत्वा नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते ।</big>
'''तत्पुरुषोऽनञ् कर्मधारयः''' (२.४.१९) = अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते |यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदि एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति |अस्य सूत्रस्य अधिकारः '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) इति सूत्रं पर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् |न नञ्कर्मधार्यः अनञ्कर्मधारयः |तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् |'''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रं— '''तत्पुरुषोऽनञ् कर्मधारयः नपुंसकम्।'''
 
<big>ओदनस्य भोजकः इत्यत्र समासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति षष्ठ्यन्तं पदम्  |</big>
 
 
<big><br />
'''तत्पुरुषोऽनञ् कर्मधारयः''' (२.४.१९) = अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते |यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदि एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति |अस्य सूत्रस्य अधिकारः '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) इति सूत्रं पर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् |न नञ्कर्मधार्यः अनञ्कर्मधारयः |तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् |'''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रं— '''तत्पुरुषोऽनञ् कर्मधारयः नपुंसकम्।'''</big>
 
<big> </big>
इति सामान्यतत्पुरुषसमासः इति विषयः समाप्तः।
 
<big><br />
इति सामान्यतत्पुरुषसमासः इति विषयः समाप्तः।</big>