14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions
Jump to navigation
Jump to search
14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH (view source)
Revision as of 15:04, 24 June 2021
, 3 years agono edit summary
Vamsisudha (talk | contribs) No edit summary |
No edit summary |

Line 6:
|[https://archive.org/download/samAsaH-pANini-dvArA/59_tatpuruShasamAsaH--%20samAsAntHAH%2B%20dvitiiyatatpuruSHaH_%202021-06-12.mp4 २) tatpuruShasamAsaH-- samAsAntHAH+ dvitiiyatatpuruSHaH_ 2021-06-12]

|[https://archive.org/download/samAsaH-pANini-dvArA/60_tatpuruShasamAsaH-dviitiyA%20shritAtiitapatitagatAtyastaprApatApannaiH_2021-06-19.mp4 ३) tatpuruShasamAsaH-dviitiyA shritAtiitapatitagatAtyastaprApatApannaiH_2021-06-19]

Line 75:
सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –
१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः
२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः
३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु
४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम्
५) सप्तमी-तत्पुरुषसमासः, यथा - कर्मणि कुशलः = कर्मकुशलः
६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |
Line 376:
'''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) = द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगत्यस्त्प्राप्तापन्नास्तैः | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.२२) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः सुब्भिः सह विभाषा तत्परुषः समासः''' |

अस्मिन् सूत्रे द्वितीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं द्वितीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति इति अर्थः लभ्यते।

यथा –

कृष्णं श्रितः = कृष्णश्रितः | कृष्णश्रितः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति।

अलौकिकविग्रहवाक्यं '''→''' कृष्ण + अम् + श्रित + सु '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण कृष्णं इति द्वितीयान्तं सुबन्तं पदं समर्थेन श्रितः इति सुबन्तेन सह समस्यते।
कृष्ण + अम् + श्रित + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।
Line 404 ⟶ 400:
एवमेव सर्वासु विभक्तिषु रूपाणि साधयितुं शक्यते | रूपाणि रामवत् भवन्ति |

अन्यानि उदाहरणानि -
नरकं श्रितः = नरकश्रितः |
Line 429 ⟶ 424:
कष्टम् आपन्नः = कष्टापन्नः |

'''गम्यादिनाम् उपसङ्ख्यानम्''' इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षु इत्येतैः शब्दैः समस्यते |
ग्रामं गमी = ग्रामगमी ( यः ग्रामः गम्यमानः) | ग्रामम्+अम्+ गमिन्+सु इति अलौकिकविग्रहः।
ग्रामं गामी = ग्रामगामी ।
अन्नं बुभुक्षुः =अन्नबुभुक्षुः ( अन्नं खादितुम् इच्छुकः)।
मधु पिपासुः = मधुपिपासुः
Line 448 ⟶ 442:
समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति प्रश्नः उदेति?

समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयं वर्तते | प्रातिपदिकसंज्ञा अस्ति चेत् एव '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समस्तपदस्य अवयवभूतानां सुप् -प्रत्ययानां लुक् भवति | एतत् प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनम् |समस्तपदस्य प्रातिपदिकसंज्ञा अस्ति चेत् एव सुप् -प्रत्ययाः विधीयन्ते '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रेण यदा सुप्- प्रत्ययाः विधीयन्ते तदा एव पदत्वं सिद्ध्यति '''सुप्तिङन्तं पदम्''' (१.४.४१) इति सूत्रेण | अपदं न प्रयुञ्जीत इति नियमात् लोके पदम् एव प्रयोक्तव्यम्।

'''सुप्तिङन्तं पदम् (१.४.१४) =''' सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | तर्हि यस्य पदस्य अन्ते सुप्-प्रत्ययः अस्ति, तत् सुबन्तं; यस्य पदस्य अन्ते तिङ्-
'''ससजुषो रुः (८.२.६६)''' = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः |'''
'''विरामोऽवसानम् (१.४.११०) =''' वर्णानाम् अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम् |'''
'''खरवसानयोर्विसर्जनीयः (८.३.१५) =''' पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम् | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम् |'''
2) स्वयम् इति अव्ययस्य क्तप्रत्ययान्तेन सह द्वितीया-तत्पुरुषसमासः भवति |
'''स्वयं क्तेन''' (२.१.२५) = ‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति |स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते | '''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति परन्त्तु ‘द्वितीया’ इति न सम्बद्ध्यते, अयोग्यत्वात् | अर्थात् '''स्वयम्''' इति पदम् अव्ययम् अस्ति | अतः तस्य विभक्तेः लुक् भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रं वदति अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति इति | अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति | एतस्मात् कारणात्, द्वितीया इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे | यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति | किमर्थं चेत् द्वितीयाग्रहणम् उत्तरार्थम् अनुवर्तते |स्वयम् अव्ययम्, क्तेन तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति |अनुवृत्ति-सहित-सूत्रम्— '''स्वयम् सुप् क्तेन सुपा सह विभाषा द्वितीया तत्परुषः समासः।'''
अस्मिन् सूत्रे स्वयम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं स्वयम् इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |द्वितीयान्तं पदं समासे पूर्वं तिष्ठति।

स्वयं कृतः = स्वयङ्कृतः | स्वयं +कृत+सु इति इति अलौकिकविग्रहः।
अस्मिन् प्रसङ्गे एकः प्रश्नः उदेति - यदि अत्र समासः न जायते तदापि सन्धिकार्यं कृत्वा स्वयङ्कृतः इति पदं तु सिद्ध्यति एव तर्हि समासस्य का आवश्यकता? समासे कृतेऽपि सन्धिः भवति, समासे अकृतेऽपि सन्धिः भवति, उभयत्र रूपं तु समानमेव |
अस्य प्रश्नस्य समाधानमेव अस्ति - यद्यपि स्वयङ्कृतः इत्यत्र भेदः नास्ति तथापि यदि तस्मात् तद्धितप्रत्ययः विहितः भवति तदानीं भेदः भवति | समासे कृते स्वयङ्कृत इति शब्दात् स्वयङ्कृतस्य अपत्यम् ( पुत्रः/पुत्री) इत्यस्मिन् अर्थे '''तस्यापत्यम्''' ( ४.१.९२) इत्यस्मिन् अधिकरे '''अत इञ्''' ( ४.१.९५) इति सूत्रेण 'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति । अधुना इञ् इति प्रत्ययः विधीयते चेत् तदानीं '''तद्धितेष्वचामादेः''' ( ७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति | अतः स्वयङ्कृत इत्यस्य आदिवृद्धिः भूत्वा स्वायङ्कृत+ इ इति भवति | तत्पश्चात् '''यस्येति च''' ( ६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः स्वायङ्कृत् + इ इति भवति = स्वायङ्कृतिः इति रूपं निष्पद्यते | यदि स्वयं अपि च कृतः अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति | केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः स्वयं इति पदेन सह क्रियते चेत् स्वयङ्कार्तिः इति अनिष्टरूपं सिद्धयति । स्वायङ्कृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |
1.स्वयं धौतौ = स्वयंधौतौ पादौ |( feet washed by himself)
2.स्वयं विलीनं = स्वयंविलीनम् आज्यम्।
3) खट्वा इति शब्दस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति निन्दार्थक-विषये |अत्र समासः '''नित्यं''' भवति यतोहि व्यस्तप्रयोगे निन्दा न अवगम्यते |क्षेपे इत्युक्ते निन्दा इत्यर्थः अस्ति।
Line 485 ⟶ 484:
खट्वाप्लुतः (यः कुमार्गं गच्छति) ।
Line 491:
4) सामि इति अव्ययस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति |सामि इति अव्ययम् अर्धशब्दस्य पर्यायः अस्ति |

'''सामि''' (२.१.२७) = सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति |सामि इत्यव्ययमेकपदमिदं सूत्रम् |सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति परन्तु अस्मिन् सूत्रे विधीयमानः समासः नित्यः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति |'''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रं— '''सामि सुप् क्तेन सुपा सह द्वितीया तत्परुषः समासः विभाषा।'''
Line 499 ⟶ 497:
उदा
सामि कृतं = सामिकृतम्

सामि पीतं = सामिपीतम्।

5) कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति|

'''कालाः''' (२.१.२८) = कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य यद्यपि अधिकारः अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति |'''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह तत्परुषाः समासाः ।'''

अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति।

यथा –

मासं प्रमितः = मासप्रमितः प्रतिपच्चन्द्रः (मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः |मासस्य आरम्भे यः चन्द्रमा इति |चन्द्रमसः द्वारा मासः क्रमशः वृद्धिं प्राप्नोति |मास+अम्+ प्रमित+सु इति अलौकिकविग्रहः ।

Line 524 ⟶ 516:
'''अत्यन्तसंयोगे च''' (२.१.२९) = कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्परुषः समासः ।'''
अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति।

यथा—
मुहूर्तं सुखं = मुहूर्तसुखम् | द्विक्षणात्मकं सुखम् | मुहूर्त+अम् + सुख+सु इति अलौकिकविग्रहः | व्यस्तप्रयोगे मुहूर्तं इत्यस्य द्वितीया विभक्तिः भवति '''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रेण | '''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रं वदति यत् कालशब्देभ्यो अध्वशब्देभ्यश्च द्वितीया विभक्तिः भवति अत्यन्तसंयोगे गम्यमाने।
Line 543 ⟶ 530:
तृतीयातत्पुरुषसमाससम्बद्धसूत्राणि (२.१.३० - २.१३५) पर्यन्तं षट् सूत्राणि सन्ति |क्रमेण अवलोकयाम।

तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह विकल्पेन समस्यते | तृतीया तत्कृतेन गुणवचनेन समस्यते |तृतीया तत्कृतेन अर्थेन समस्यते ।
1) तृतीयान्त-सुबन्तस्य गुणवचनेन, अर्थ इति शब्देन च सह तृतीयातत्पुरुषसमासः भवति | अर्थात् तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह विकल्पेन समस्यते | तृतीया तत्कृतेन गुणवचनेन समस्यते | तृतीया तत्कृतेन अर्थेन समस्यते |

'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) = तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन सह समस्यते | तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाची प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन सह समस्यते | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | तृतीया प्रथमान्तं, तत्कृत इति लुप्ततृतीयाकम्; अर्थेन तृतीयान्तं, गुणवचनेन तृतीयान्तम्, अनेकपदमिदम् सूत्रम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्परुषः समासः।'''

अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण।

'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् |अस्य सूत्रस्य अर्थद्वयं वर्तते –
१) तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते |
Line 561 ⟶ 544:
२) तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते |

१) तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति |

तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते इति उक्तं, तर्हि गुणवचनं नाम किम् इति अवगन्तव्यम्।
गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | गुणः यस्मिन् द्रव्ये अस्ति तद् बोधकः शब्दः गुणवचनः इति उच्यते | यथा मृदुत्वम् इति गुणः अस्ति | मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते | मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते तादृशवस्तु गुणवचनम् इति उच्यते |अस्मिन् सूत्रे गुणः इत्यनेन न केवलं गुणः, क्रिया अपि तस्मिन् अन्तर्भूतः | पचनम् इति ल्युडन्तः शब्दः अस्ति | पचनम् इति शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवचनः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति कथ्यन्ते।

मृदुत्वम् = गुणः, मृदु (पुष्पं) – गुणवचनम्
पचनं = क्रिया, पाचकः = गुणवचनम्
कश्चित् गुणवचनशब्दः अस्ति तस्य गुणस्य उत्पादने हेतुः तृतीयान्तशब्देन उच्यते | यथा शङ्कुलया खण्डः | खण्डः नाम खण्डनक्रियां प्राप्तः कश्चित् | शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणम् | खण्डनक्रिया यस्मिन् सः खण्डः | खण्डशब्दः गुणवचनः | खण्डनक्रिया इति यः गुणः, तस्य हेतुः शङ्कुला | शङ्कुलया कृता खण्डनक्रिया यस्मिन् अस्ति सः शङ्कुलाखण्डः |

शङ्कुलया खण्डः = शङ्कुलाखण्डः | तत्कृतार्थेन गुणवचनेन इत्यस्य एतत् उदाहरणम् अस्ति।
खण्डनक्रिया अस्य अस्ति इति खण्डः | खण्डः इति शब्दः गुणवचनः |
खण्डनक्रिया तत्कृता = शङ्कुला कृता।
अत्र शङ्कुलया इति तृतीयान्तं पदम् अस्ति |शङ्कुला इत्युक्ते छूरिका इति | छुरिकायाः गुणवाचकशब्दः अस्ति खण्डः इति | छुरिकायाः प्रयोगः अस्माभिः क्रियते खण्डनार्थम् | खण्डनं भवति छुरिकायाः कारणेन अतः अत्र तृतीयातत्पुरुषसमासः भवति '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रेण | शङ्कुलया खण्डः इत्यस्य अर्थः अस्ति यत् वस्तु छुरिकया छिन्नं जातम् इति |अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति |अत्र प्रक्रिया चिन्तनीया |शङ्कुला+टा +खण्ड+सु इति अलौकिकविग्रहः।
अन्यत् उदाहरणम् –
Line 597 ⟶ 572:
कुसुमेन सुरभिः = कुसुमसुरभिः |सुरभिगन्धः कुसुमेन उत्पद्यते।
किरिणा काणः – किरिकाणः | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति गुणः | काणः = अन्धः, गुणवचनः | काणत्वे करणं किरिः (वराहः) |
२) तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते | इदानीम् अर्थशब्देन सह समस्तपदस्य उदाहरणं पश्यामः | अर्थशब्दस्य बहवः अर्थाः सन्ति | अत्र अर्थशब्दस्य धनम् इति अर्थः अस्ति | अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति | पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं धनवाचिशब्दः भवति |
धान्येन अर्थः = धान्यार्थः | धान्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः | अत्र '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यनेन समासः भवति |तृतीयान्तं सुबन्तं धान्येन इति पदम् अस्ति, तस्य अर्थः इति शब्देन सह समासः भवति |अत्र प्रक्रिया चिन्तनीया।
अन्यानि उदाहरणानि –