14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2,029:

Line 2,046 ⟶ 2,037:

6)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |

'''भक्ष्येण मिश्रीकरणम्''' ( २.१. ३५) = मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्येण तृतीयान्तं मिश्रीकरणं प्रथमान्तम्  | मिश्रीकरणं नाम मेलनम्, मिश्रणम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्परुषः समासः।'''

अस्मिन् सूत्रे मिश्रणक्रियाद्वारा सामर्थ्यम् | अर्थात् गुडेन धानाः इत्यस्मिन् तृतीयान्तं पदं गुडेन इत्यस्य अर्थः मिश्रितः अस्ति | अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणम् अस्ति | अतः गुडः करणम् अस्ति, कर्म च धानाः इति | गुडेन धानाः इत्यस्मिन् मिश्रिणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति एव अथवा आक्षिप्ता क्रिया अस्ति | आक्षिप्तायाः मिश्रणक्रियायाः द्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यम् अस्ति इति स्वीक्रियते |

अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

यथा –

गुडेन (मिश्रिताः) धानाः = गुडधानाः  | नाम धान्यपदार्थः गुडेन मिश्रितः अस्ति  | गुड + टा + धान + सु इति अलौकिकविग्रहः  |

आहत्य वयं तृतीयातत्पुरुषसमासस्य विषये षट् सूत्राणि पठितवन्तः |अग्रे चतुर्थीतत्पुरुषसमासस्य विषये पठामः ।

====== '''c)     चतुर्थीतत्पुरुषसमासः''' ======

चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अस्ति | अधः लिखितोऽस्ति | चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख- रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः नित्यं भवति | यत्र प्रकृति-विकृतिभावः भवति तत्र चतुर्थीतत्पुरुषसमासः भवति | यथा कुण्डलं कर्तुमेव हिरण्यम् अस्ति |

'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) = तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति | तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते | चतुर्थ्यन्तं पदं, चुतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तदवाचकपदेन सह तथा  अर्थ-बलि-हित- सुख- रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते  | तस्मै इदं तदर्थम् | तदर्थञ्च अर्थश्च बलिश्च हितं च सुखं च तेषां इतरेतर-योग-द्वन्द्व-तदथार्थ-बलिहित्सुखरक्षितानि, तस्तदर्थार्थबलिहितसुखरक्षितैः | चतुर्थी प्रथमान्तं, तदथार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |  '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं'''— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्परुषः समासः।'''

अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं चतुर्थी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं विकल्पेन समस्यते पूर्वपदे चतुर्थीविभक्तेः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति , तस्य चतुर्थ्यन्तस्य पदस्य कृते यः वाचकः शब्दः अस्ति, तेन सह समासः भवति | यथा यूपाय दारुः = यूपदारुः  |

कारकप्रकरणे तादर्थ्ये चतुर्थी विभक्तिः भवति | '''तादर्थे चतुर्थी वाच्या''' इति वार्तिकम् अस्ति  | '''चतुर्थी सम्प्रदाने''' ( २.३.१३) इति सूत्रभाष्ये पठितम् एतत् वार्तिकम् | तस्मै इदं तदर्थम् | तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये |अर्थेन नित्यसमासः भवति | चतुर्थी तत्पुरुषसमासः भवति | वार्तिकार्थः अस्ति – तस्मिन् प्रयोजने अस्मिन् अर्थे चतुर्थी विभक्तिः भवति | यत् वस्तू प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः | तदर्थस्य भावः तादर्थ्यम् इति वदामः।

'''तादर्थ्ये चतुर्थी वाच्या''' इत्यस्य उदाहरणम् अस्ति '''-''' मुक्तये हरिं भजति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं भवति | अतः तादर्थ्या भवति मुक्तिः | अतः मुक्ति-शब्दे '''तादर्थ्ये चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी भूत्वा मुक्तये भवति | वाक्यं भवति मुक्तये हरिं भजति इति ।

'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते | अस्मिन् सूत्रे प्रकृतितः विकृतिः यत्र प्राप्यते तादृशस्य तदर्थस्य एव ग्रहणं क्रियते |

यथा यूपाय दारु = यूपदारु (दारु इत्यक्ते काष्ठम्, यज्ञाय काष्ठम् इत्यर्थः) ।

अलौकिकविग्रहः = यूप + ङे + दारु + सु | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यं अपरस्य द्रव्यस्य प्रयोजकं भवति  | दारुः नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः | यज्ञार्थं यः स्तम्भः निर्मीयते तस्य निर्माणार्थं दारोः प्रयोगः क्रियते  | काचित् प्रकृतिः भवति , मूलपदार्थः, तस्य विकारेण विकृतिः जायते | यथा दारुः एव प्रकृतिः अस्ति, यूपः एव विकृतिः यतोहि दारोः प्रयोगेन यूपस्य निर्माणं भवति | दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति, अतः यूपदारुः इति समासः भवति ।

समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति | तत्पुरुषसमासे '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति  | दारु इति शब्दः नपुंसकलिङ्गे अस्ति अतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति  | अधुना यूपदारु इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते | यूपदारु + सु  | समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन '''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रेण सु, अम् इत्यनयोः लुक् भवति | अतः यूपदारु इति समस्तपदं निष्पन्नं भवति |

रूपाणि एवं भवन्ति।

यूपदारु यूपदारुणी यूपदारूणि

यूपदारु यूपदारुणी यूपदारूणि

तृतीयाविभक्तेः आरभ्य रूपाणि गुरुः शब्दवत् भवन्ति।

यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र समासः भवति इति नास्ति | '''तदर्थेन अत्र प्रकृतिविकृतिभावः एव इष्टः''' इति वार्तिकम् अस्ति | यत्र प्रकृतिविकृतिभावः भवति तत्रैव चतुर्थीतत्पुरुषसमासः भवति  |

'''स्वमोर्नपुंसकात्‌''' (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः)  | सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः  |स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌  |'''षड्भ्यो लुक्‌''' (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः  | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक्''' ।

कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्)  |मूलं सुवर्णम् अस्ति, सुवर्णस्य विकारेण कुण्डलं निर्मीयते | प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि समासः भवति ।

किन्तु रन्धनाय स्थाली (पाकार्थं पात्रम्) | अत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थी विभक्तिः भवति परन्तु समासः न भवति | अत्र समासः न भवति यतोहि  प्रकृतिविकृतिभावः नास्ति | स्थाली प्रकृतिः अस्ति परन्तु रन्धनं विकृतिः नास्ति | भोजनं स्थाली इति कारणेन न उत्पन्नम् | भोजनं तु पाकसमग्रीं उपयुज्य भवति | अर्थात् तदर्थवाचकेन सुबन्तेन  चतुर्थ्यन्ते सुबन्ते न कोऽपि विकारः जातः इति कारणेन  समासः न भवति  | अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति |

अन्यानि उदाहरणानि

भूतेभ्यः बलिः = भूतबलिः  | भूत + भ्यस् + बलि + सु ।

गोभ्यः हितम् = गोहितम्  | गो + भ्यस् + हित + सु  | समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति | अधुना गोहित + सु इति सुप् प्रत्ययः विधीयते | हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति | अधुना '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति | गोहित + सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति  |

गोभ्यः सुखं = गोसुखम्

गोभ्यः रक्षितं = गोरक्षितम्

'''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः '''नित्यः भवति न तु विकल्पेन''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यं अनुसृत्य भवति | |अर्थ इति शब्देन प्रयोजनम् इत्यर्थः स्वीक्रियते | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम्  | नित्यसमासः यतोहि अत्र अस्वपदनिग्रहः भवति।

सामान्यतया तत्पुरुषसमासे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन उत्तरपदम् अनुसृत्य समस्तपदस्य लिङ्गं भवति | परन्तु अत्र अर्थ-शब्देन सह समासः यदि भवति तर्हि '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इति सूत्रेण लिङ्गनिर्णयः न भवति अपि तु विशेष्यं अनुसृत्य अर्थ-शब्दस्य लिङ्गं भवति।

द्विजाय अयं = द्विजार्थः (सूपः) | अलौकिकविग्रहः = द्विज + ङे + अर्थ + सु  |अत्र तदर्थं इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः  | अलौकिकविग्रहे '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः क्रियते | अत्र सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुंलिङ्गे अस्ति इति कारणेन समासः पुंलिङ्गे भवति | द्विजार्थः इति समासः निष्पन्नः भवति | यदि विशेष्यं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति यथा अधः प्रदर्शितः अस्ति |

द्विजाय इयम् =द्विजार्था (यवागूः)।

द्विजाय इदम् = द्विजार्थं (पयः) ।

तस्मै इदम् = तदर्थम् ।

भोजनार्थं गच्छामि इति वाक्ये भोजनार्थं क्रियाविशेषणम् अस्ति न तु समासः |'''क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्ग च वक्तव्यम्''' इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीया विभ्क्तौ एकवचने भवति।

======  '''d)    पञ्चमीतत्पुरुषसमासः''' ======
पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति | क्रमेण अलोकयाम।

1)     पञ्चन्यन्त-सुबन्तस्य भय इति सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |

'''पञ्चमी भयेन''' (२.१.३७) = पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः अ नुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः।'''

अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

चोराद्भयं = चोरभयम्  | चोर + ङसि + भय + सु  | '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  | चोरभय + सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → चोरभय + अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → चोरभयम् इति समस्तपदं निष्पन्नं भवति  |

'''भयभीतभीतिभीभिरिति वाच्यम्''' इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने '''भयभीतभीतिभीभिः''' इति वक्तव्यम् | अनेन भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते ।

यथा –

वृकात् भीतः = वृकभीतः  | वृकभीतिः  | वृकभीः ।

भाष्यकारेण पञ्चमी भयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्तं  अन्येन सुबन्तेन सह समस्यते | तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति | अतः वृकाद् भीः= वृकभीः, भयाद् भीतः = भयभीतः, सिंहाद् भीतिः = सिंहभीतिः इत्यादयः समासाः भवन्ति |

2)     पञ्चन्यन्त-सुबन्तस्य अपेत-अपोढ- मुक्त- पतित-अपत्रस्त च इत्येतैः सुबन्तैः सह पञ्चमी-तत्पुरुषसमासः भवति |

'''अपेतापोढमुक्तपतितापत्रस्तैरल्पशः''' (२.१.३८) = कुत्रचित् पञ्चम्यन्तं सुबन्तं अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो भवति | अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च तेषाम् इतरेतरयोगद्वन्द्वः, अपेतापोढमुक्तपतितापत्रस्तास्तैः |अपेतापोढमुक्तपतितापत्रस्तास्तैः तृतीयान्तम्, अल्पशः अव्ययम् | सूत्रे अल्पशः इत्यस्य अर्थः अस्ति कुत्रचित् | तन्नाम कुत्रचित् पञ्चम्यन्तं सुबन्तं उक्तैः सुबन्तैः सह समासः भवति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''अल्पशः''' '''पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्परुषः समासः।'''

सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम् ? अल्पशः इति योजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चम्यन्तपदानां एव समासः भवति एतैः उक्तैः शब्दैः सह, सर्वत्र न भवति | प्रासादात् पतितः, भोजनादपत्रस्तः इत्येतेषां समस्तपदानां विषये चतुर्थी-तत्पुरुषः न भवति अपि तु '''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इत्यनेन तृतीया-तत्पुरुषसमासः एव भवति।

अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

सुखाद् अपेतः = सुखापेतः (सुखात् दूरम् इत्यर्थः)  | सुख + ङसि + अपेत + सु  |

कल्पनायाः अपोढः = कल्पनापोढः (कल्पनात् बाधितः) ।

चक्राद् मुक्तः = चक्रान्मुक्तः (चक्रात् मुक्तिः इत्यर्थः)  | अत्र '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे  | अतः चक्रान्मुक्तः इति समासः भवति |

स्वर्गात् पतितः = स्वर्गपतितः |

तरङ्गाद् अपत्रस्तः = तरङ्गापत्रस्तः |

3)     स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |

'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) =स्तोक-अन्तिक-दूर इत्येवम् अर्थाः शब्दाः, कृच्छ्रशब्दश्च, पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति | स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः, एतेषां पञ्चंयन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह समासः विकल्पेन भवति, तत्पुरुषश्च समासो भवति |  | स्तोकञ्च अन्तिकञ्च दूर्ञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि, तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः, बहिव्रीहिः | स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूरार्थकृच्छ्राणि | स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं, क्तेन तृतीयान्तं, द्विपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अत्र पञ्चमी इति शब्दस्य वचनपरिणां कृत्वा बहुवचने भवति |अनुवृत्ति-सहित-सूत्रं— '''स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्यः सुपः सुब्भिः सह विभाषा तत्परुषः समासः।'''

अस्मिन् समासे '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण स्तोकादिभ्यः परे या पञ्चमी विभक्तिः अस्ति तस्य लुक न भवति उत्तरपदे परे | तन्नाम स्तोकादिभ्यः परा या पञ्चमी तस्याः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण लुक् न स्यात् | अत्र '''अलुगुत्तरपदे''' (६.३.१) इति सूत्रस्य पूणानुवृत्तिः | '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रम् अलुक्समासस्य सूत्रम् अस्ति | अलुक् समासः पृथक् समासः न | एतेषु समासेषु पूर्वपदस्य सुप् प्रत्ययस्य लोपः निषिध्यते सः एव अलुक् समासः इति उच्यते | अलुक् समसे विग्रह समासयोः रूपभेदः न भवति | तर्हि समासः किमर्थं क्रियते इति चेत् समासे कृते स्वरः भिन्नः भवति | वेदेषु एव इदं प्रयोजनम् अस्ति  | अपि च पदानां क्रमे भेदः वर्तते यतोहि यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्मात् तस्य पूर्वप्रयोगः | समासः नास्ति चेत् स्तोकात् मुक्तः नो चेत् मुक्तः स्तोकात् इति वक्तुं शक्यते | समासे कृते स्तोकमुक्तः इति एव वक्तुं शक्यते | अलुक् समासस्य बहूनि उदाहरणानि सन्ति यथा परस्मैपदम्, आत्मनेपदम् इत्यादीनि |

स्तोकातद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति) ।

स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति।
अलौकिकविग्रहवाक्यं '''→''' स्तोक +ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते।

अलौकिकविग्रहवाक्यं '''→''' स्तोक + ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते।

स्तोक +ङसि + मुक्त + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।

स्तोक + ङसि + मुक्त + सु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इत्यनेन पञ्चम्याः अलुक् स्यात् |

स्तोक + ङसि + मुक्त '''→'''इत्यस्मिन्‌ सु इत्यस्यैव लुक्‌ → स्तोक + ङसि + मुक्त

स्तोक + ङसि + मुक्त '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९)  | अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति।

स्तोक + ङसि + मुक्त '''→''' इदानीं '''टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति '''→''' स्तोक + आत् + मुक्त।

स्तोक + आत् + मुक्त '''→''' अत्र '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति '''→''' अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद् + मुक्त इति भवति, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |

स्तोकान् + मुक्त '''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुंलिङ्गं '''→ स्तोकान्मुक्त + सु →''' रुत्वविसर्गौ कृत्वा '''स्तोकातन्मुक्तः''' इति समस्तपदं प्रथमाविभक्तौ एकवचने'''।'''

एवमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण।

अन्तिकाद् आगतः = अन्तिकादागतः

अभ्याशाद् आगतः = अभ्याशादगतः

दूराद् आगतः = दूरादागतः

कृच्छ्राद् आगतः = कृच्छ्रादागतः ।

स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति।

====== '''e)     सप्तमीत्पुरुषसमासः''' ======

अष्टाध्यायां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासः एव उक्तः न तु षष्ठीतत्पुरुषसमासः | द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा तदनन्तरमेव षष्ठीतत्पुरुषस्य विषये उच्यते | अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्याम | सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति | २.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् | क्रमेण परिशीलयाम।

1)     सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |

'''सप्तमी शौण्डैः''' (२.१.४०) = सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासो भवति | सप्तमी प्रथमान्तं, शौण्डैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्परुषः समासः।'''

शौण्डदिगणे एते शब्दाः सन्ति – '''शौण्ड, धूर्त, कित्व, व्याड, प्रवीण, संवीत, अन्तर, अधिकरणार्थप्रधान अन्तर्, अधि, पटु, पण्डित, कुशल, चपल, निपुण।'''

अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।

अक्षेषु शौण्डः = अक्षशौण्डः | अक्ष + सुप् + शौण्ड + सु |

अक्षेषु धूर्तः = अक्षधूर्तः |

काव्ये निपुणः = काव्यनिपुणः | काव्य + ङि + निपुण + सु | एवमेव शास्त्रनिपुणः।

कार्ये कुशलः = कार्यकुशलः | एवमेव तर्ककुशलः।

गुहायां संवीतः = गुहासंवीतः

ईश्वरे अधीनः = ईश्वराधीनः

स्त्रीषु धूर्तः = स्त्रीधूर्तः

अक्षेषु कितवः = अक्षकितवः

अक्षेषु व्याडः = अक्षव्याडः

कर्मणी प्रवीणः = कर्मप्रवीणः

गुहायां संवीतः = गुहासंवीतः

पठने पटुः = पठनपटुः

सभायां पण्डितः = सभापण्डितः

वाचि चपलः = वाक्चपल।

शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति | यथा — ईश्वरे अधीनः = ईश्वाराधीनः  |

अलौकिकविग्रहः – ईश्वर + ङि + अधि | '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप् प्रत्यययोः लुक् भवति | ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति | अधुना '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌ खः''' (५.४.७) इति सूत्रेण 'अषडक्ष', 'आशितङ्गु', 'अलङ्कर्म', 'अलम्पुरुषः' एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति  | अतः ईश्वराधि + ख '''→आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति  |अतः ईश्वराधि + ईन '''→''' अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध् + ईन '''→''' ईश्वराधीन इति भवति | अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।

यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः येन अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति | परन्तु अधि शब्दः तु शौण्डादिगणे पाठितः अतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।

2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |

'''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) = सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति | सिद्धश्च सुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धास्तैः | सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं  चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति | अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव '''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) इति सूत्रं कृतं पाणिनिना |

यथा—

साङ्काश्ये सिद्धः = साङ्काश्यसिद्धः  | साङ्काशय + ङि + सिद्ध + सु।

आतपे शुष्कः = आतपशुष्कः | आतप + ङि + शुष्क + सु।

स्थाल्यां पक्वः = स्थालीपक्वः | स्थाली + ङि + पक्व + सु ।

चक्रे बन्धः = चक्रबन्धः | चक्र + ङि+ बन्ध + सु |

3)     निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |

'''ध्वाङ्क्षेण क्षेपे''' (२.१.४२) = निन्दार्थे वर्तमाने  सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते । सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) | ध्वाङ्क्षः नाम काकः इति  | ध्वाङ्क्षेण तृतियान्तं, क्षेपे सप्तम्यन्तम्  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।

तीर्थे ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः | अनवस्थितः इत्यर्थः | नाम यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः छात्रः एकस्मिन् स्थाने वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् | तीर्थ + ङी + ध्वाङ्क्ष + सु ।

तीर्थे काकः इव = तीर्थकाकः | तीर्थ + ङि + काक + सु।

तीर्थे वायसः इव = तीर्थवायसः | तीर्थ + ङि + वायस + सु | अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इति | अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते।

अस्मिन् समासे इव इति पदस्य अर्थः समासे अन्तर्भूतः | यत्र निन्दायाः प्रतीतिः नास्ति तत्र समासः न भवति | यथा तीर्थे ध्वाङ्क्षः तिष्ठति – नाम तीर्थे काकः तिष्ठति इति | अस्मिन् वाक्ये केवलं तीर्थे काकः तिष्ठति इति एव ज्ञायते अतः निन्दा नास्ति, अतः समासः न भवति |

4)      ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन (कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |

'''कृत्यैर्ऋणे''' (२.१.४३) = सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने | अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते | ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः, अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः | '''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन्''' - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति | परन्तु अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणं इष्यते न अन्यस्य इति उक्तं भाष्ये | कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।

अस्मिन् सूत्रे ऋणम् इति शब्दस्य ग्रहणं नियोगस्य उपलक्षणार्थम् अस्ति, अर्थात् कालस्य निश्चिततां बोधयति | नियोगः नाम निश्चितकालस्य बोधः  | यत्र कालस्य निश्चिततायाः बोधः अस्ति तत्र इदं सूत्रं कार्यं करोति।

अ)   मासे अवश्यं देयम् ऋणम् = मासेदेयम् (ऋणम्) - यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् |

मास + ङि + देय + सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते | '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | अतः मास + ङि + देय + सु इत्यत्र मास + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण | ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति | '''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।

अधुना मास + इ +देय → आद्गुणः इत्यनेन गुणसन्धः भवति → मासेदेय इति भवति।

अग्रे सुबुत्पत्तिः भवति अतः मासेदेय + सु → मासदेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं ॠणम् इति पदस्य विशेषणम् अस्ति  | समासः न भवति चेत् वाक्यं भवति मासे देयम् इति  |

देयम् इति पदं कथं निष्पन्नं भवति?

दा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण | दा + यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' दी + य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → दे + य = देय इति प्रातिपदिकम्।

आ)  पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः) | दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः | पूर्वाह्ण + ङि + गेय + सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते | '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | अतः पूर्वाह्ण + ङि + गेय + सु इत्यत्र पूर्वाह्ण + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण | इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति | '''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।

अधुना पूर्वाह्णे + इ +गेय → आद्गुणः इत्यनेन गुणसन्धः भवति → पूर्वाह्णेगेय इति भवति।

अग्रे सुबुत्पत्तिः भवति अतः पूर्वाह्णेगेय + सु → पूर्वाह्णेगेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति  | समासः न भवति चेत् वाक्यं भवति पूर्वाह्णे गेयम् इति  |

गेयम् इति पदं कथं निष्पन्नं भवति?

गै इति एजन्तधातोः आत्वं भवति '''आदेच उपदेशेऽशिति''' (६.१.४५)  इति सूत्रेण, गा इति भवति | अग्रे  गा  इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण | गा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' गी + य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → गे + य = गेय इति प्रातिपदिकम्।

'''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) = तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९)  इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌— '''तत्पुरुषे सप्तम्याः अलुक् कृति''' '''बहुलम्''' '''|'''

अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् विकल्पेन भवति कुत्रचित् न भवति |

यथा –

स्तम्बे रमते = स्तम्बेरमः / स्तम्बरमः | अर्थाः तृणस्य गुच्छं दृष्ट्वा यः रमते यथा गजः, अथवा धेनुः | स्तम्ब + ङि + रम + सु | रमः इति अच्प्रत्ययान्तः शब्दः | अच् प्रत्ययः कृत्प्रत्ययः |

कर्णे जपति = कर्णेजपः, कर्णजपः  |

'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |

5)     संज्ञायां विषये सप्तम्यन्तं पदं सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यं भवति।

'''संज्ञायाम्''' (२.१.४४) =  संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | संज्ञा समुदस्य उपाधिः अस्ति | सज्ञायाम् इति सप्तम्यन्तमेकपदं सूत्रम् | यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते | यत्र संज्ञा अस्ति तत्र समासः नित्यः | विग्रहवाक्येन संज्ञायाः बोधः न भवति किन्तु समासानन्तरं संज्ञायाः प्रतीतिः उत्पद्यते | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं—  '''संज्ञायां सप्तमी सुप् सुपा सह तत्परुषः समासः |'''

अनेन सूत्रेण यः समासः विधीयते सः नित्यः यतोहि संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते अतः समासाभावपक्षः न भवति |

अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।

यथा—

अरण्ये तिलकाः = अरण्येतिलकाः (वनस्य नाम) | एतत् पदं संज्ञापदम् अस्ति  | संज्ञार्थस्य विवक्षायां '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण नित्यसमासः भवति | अलौकिकविग्रहवाक्यं – अरण्य + ङि + तिलक + जस् '''→ संज्ञायाम्''' (२.१.४४) सूत्रेण समासविधानं भवति | तत्पश्चात् प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति । '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९)  इति सूत्रेण अदन्तात् अरण्यात् उत्तरस्य सप्तम्याः अलुक् भूत्वा '''→''' अरण्य + इ  इत्यत्र गुणसन्धिं कृत्वा अरण्ये इति भवति  | '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |

वने कशेरुकाः = वनेकशेरुकाः (कशेरुकः = backbone)  | वन + ङि + कसेरुक + जस्  |

यधि स्थिरः = युधिष्ठिरः  | यध् + ङि = स्थिर + सु | '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अनेन सूत्रेण यध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति। अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति | तत्पश्चात् '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिः इत्यस्य सकारस्य मूर्धन्यादेशो भवति। अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति | यथा -गविष्ठिरः, युधिष्ठिरः इत्यादयः।

एवमेव वनेकिंशुकाः, वनेहरिद्रकाः, अरण्येमोषकाः, कूपेपिशाचकाः इत्यादीनि उदाहरणानि | एतानि  सर्वाणि पदानि संज्ञा-पदानि सन्ति।

'''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) = हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | हल् च अत् च तयोरितरेतरयोगद्वन्द्वः, हलदौ तौ अन्ते यस्य सः हलन्तः तस्मात् हलदन्तात् | हलदन्तात् पञ्चम्यन्तं, सप्तम्याः षष्ठ्यन्तं, संज्ञायां सप्तम्यन्तम् '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌— '''हलदन्तात्‌ सप्तम्याः अलुक् संज्ञायाम् ।'''

यथा - युधिष्ठिरः, त्वचिसारः।

त्वचिसारः = त्वचिसारः | यस्य त्वचि बलम् अस्ति |अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण | त्वच् + ङि + सार + सु | त्वच् इति हलन्तः शब्दः अतः '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण तस्मात् यः सप्तम्यन्तः सुप्प्रत्ययः अस्ति तस्य लुक् न भवति।

6)     दिनस्य, रात्रेः च अवयववाचीनि सप्तम्यन्तपदानि क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |

'''क्तेनाहोरात्रावयवाः''' (२.१.४५) = अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति | दिनस्य, रात्रेः  च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते । अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाची शब्दः अपि च रात्रेः अवयववाची शब्दः इति । अहन् च रात्रिश्च अहोरात्रं, तस्य अवयवाः अहोरात्रावयवाः, द्वन्द्वगर्भषष्ठीतत्पुरुषः | क्तेन तृतीयान्तं, अहोरात्रावयवाः प्रथमान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं—  '''अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्परुषः समासः |'''

यथा—

पूर्वाह्णे कृतं = पूर्वाह्णकृतम् | दिनस्य पूर्वभागे सम्पादितम् | पूर्वाह्ण + ङि + कृत + सु | पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्।

अपररात्रे कृतं = अपररात्रकृतम् | अपररात्र + ङि + कृत + सु | अपररात्रिः इति पदं रात्रिः इति पदस्य अवयववाचिपदम्।

एवमेव पूर्वरात्रकृतं, मध्याह्नकृतं, मध्यरात्रकृतम् |

7)     तत्र इति सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |

'''तत्र''' (२.१.४६) = तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |तत्र इति सप्तम्यन्तं सुबन्तं अव्ययं क्तेन सुबन्तेन सह समस्यते  | तत्र इति अव्ययमेकपदं सूत्रम् | '''सप्तम्यास्त्रल्''' (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य  सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति | '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— '''तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''

यथा—

तत्र भुक्तं = तत्रभुक्तम् | तत्र + भुक्त + सु  | भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते।

तत्र भुक्तस्य इदम् इति अर्थे तद्धित - अण्प्रत्ययस्य योजनेन तात्रभुक्तम् इति पदं निष्पन्नं भवति।

8)     निन्दार्थे सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |

'''क्षेपे''' (२.१.४७) = क्षेपे ( निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं—'''क्षेपे''' '''सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''

यथा—

अवतप्ते नकुलस्थितः = अवतप्तेनकुलस्थितः | यथा आतपे नकुलः इतस्ततः भ्रमति तथैव एतस्य पुरुषस्य गतिः अपि अस्ति | अवतप्ते + ङि + नकुलस्थित +सु   |'''क्षेपे''' (२.१.४७) इति सूत्रेण समासः विधीयते |यथा अस्माभिः पूर्वं दृष्टं, अत्रापि सामन्यसमासप्रक्रिया भवति | परन्तु अत्र '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रेण अवतप्त+ङि इत्यस्मिन् सुप् लुक् न भवति | अत्र गुणसन्धिं कृत्वा अवतप्ते इति भवति | '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रं वदति तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | समस्तपदं भवति अवतप्तेनकुलस्थितः ।

एवमेव

प्रवाहे मूत्रितम् = प्रवाहेमूत्रितम् (नद्यां मूत्रत्यागः) | निन्दार्थे अस्ति।

भस्मनि हुतम् = भस्मनिहुतम् | भस्मे हवनं करोति   |निन्दार्थे अस्ति।

9)     निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | अत्र समासः नित्यं भवति।

'''पात्रेसमितादयश्च''' ( २.१. ४८) = निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः क्तातेन सुबन्तेन सह समस्यते, तत्पुरुषसंज्ञा च भवति | समुदायः एव निपात्यते | यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते | पात्रेसमितः आदिर्येषां ते पात्रेसमितादयः बहुव्रीहिः | पात्रेसमितादयः प्रथमान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''क्षेपे''' (२.१.४७) इत्यस्मात् सूत्रात् क्षेपे इत्यस्य अनुवृत्तिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''पात्रेसमितादयश्च सप्तम्यः सुपः क्तेन सुपा सह तत्परुषः समासः |'''

पात्रेसमितादिगणे बहवः शब्दाः सन्ति | अयं गणः आकृतिगणः अस्ति अतः अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति | तेषु केषाञ्चन धातूनां सप्तमीविभक्तेः अलुक् अपि भवति | यथा- पात्रेसमिताः, पात्रेबहुलाः, मातारिपुरुषः, पितरिशूरः, गेहेशूरः इत्यादयः |

यथा –

पात्रे समिताः = पात्रेसमिताः  | भोजनसमसे एव सङ्गताः, न तु कार्ये | यः भोजनपात्रे एव एकत्रितः अस्ति परन्तु कार्यसमये कुत्रापि न प्रकटितः भवति | '''पात्रेसमितादयश्च''' ( २.१. ४८)  इति सूत्रेण नित्यसमासः भवति | अलौकिकविग्रहवाक्यं – पात्रे + ङि + समिता + जस् '''→ पात्रेसमितादयश्च''' ( २.१. ४८)  सूत्रेण समासविधिः, प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति इति सामन्यसमासक्रमः अस्ति | परन्तु अत्र सुप् लुक् न भवति यतो हि '''पात्रेसमितादयश्च''' ( २.१. ४८)  सूत्रेण निपातनात् विभक्तेः अलुक् भूत्वा पात्रेसमिताः इति समस्तपदं निष्पन्नं भवति |

सम् + इण् गतौ इति धातुतः क्तप्रत्ययः क्रियते चेत् समितः इति रूपं निष्पन्नं भवति।

गेहे शूरः = गेहेशूरः | यः गृहे एव वीरः अस्ति, बहिः भीतः अस्ति | गेह + ङि + शूर + सु | प्रक्रिया यथापूर्वम् |

गेहे नर्दी = गेहेनर्दी | गृहे एव यः गर्जति।

पात्रेसमितादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते '''– पात्रेसमिताः, पात्रेबहुलाः, कूपकच्छपः, कूपमण्डूकः, नगरकाकः, गेहेशूरः, गेहेनर्दी, गोष्ठेशूरः, गोष्ठेपटुः, गोष्ठेपण्डितः इत्यादयः।'''

पात्रेसमितादिगणः आकृतिगणः अस्ति  |अतः अन्ये शब्दाः अपि तस्मिन् अन्तर्भवन्ति | शिष्टप्रयोगं दृष्ट्वा ज्ञातुं शक्यते अन्ये शब्दाः के इति |

'''समासविधायकसूत्रेषु योगविभागस्य कल्पना'''

केषुचित् ग्रन्थेषु समासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते | अस्य कारणम् इदम् यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः येषां समर्थनं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते | अतः एतेषां सूत्राणां विभजनं कृत्वा  विविधानां तत्पुरुषसमासप्रयोगानां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते | यथा '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते | अतः एव अस्य सूत्रस्य योगविभागं कृत्वा सूत्रद्वयं कुर्मः | प्रथमसूत्रेण  द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते।

द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते | अत्र न कस्यापि शब्दविशेषस्य अपेक्षा नास्ति अतः अनेकेषु स्थलेषु समासः सम्भवति | एतादृशः योगविभागः '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०), एतेषां सूत्राणां विषये अपि क्रियते ।

एतादृशयोगविभागेन एतेषां समासानां समर्थनं भवति –

१)      वेदं विद्वान् = वेदविद्वान् | वेद + अम् + विद्वस् + सु | द्वितीयातत्पुरुषसमासः।

२)     मदेन अन्धः = मदान्धः  | मद + टा + अन्ध + सु | तृतीयातत्पुरुषसमासः।

३)     धर्माय नियमः = धर्मनियमः  | धर्म +ङे + नियम + सु  | चतुर्थीतीयातत्पुरुषसमासः।

४)     द्विजाद् इतरः = द्विजेतरः | द्विज + ङसि + इतर + सु | पञ्चमीतत्पुरुषसमासः।

५)     भुवने विदितः = भवनविदितः | संसारे यः प्रसिद्धः । भवन + ङि + विदित + सु | द्वितीयातत्पुरुषसमासः।

====== '''f)      षष्ठीतत्पुरुषसमासः''' ======
अष्टाध्यायां द्वितीयाध्यायस्य प्रथमपादे पञ्चमीतत्पुरुषसमासस्य अनन्तरं षष्ठीतत्पुरुषसमासं त्यक्त्वा सप्तमीतत्पुरुषस्य विषये उक्तम् अस्ति | तत्पश्चात् कर्मधारयस्य विषये उक्तम् | अग्रे द्वितीयाध्यायस्य द्वितियपादे आदौ षष्ठीतत्पुरुषस्य अपवादाः उक्ताः २.२.१ इत्यस्मात् सूत्रात् आरभ्य - २.२.७ इति सूत्रपर्यन्तं, तदनन्तरं षष्ठीतत्पुरुषस्य विषये उक्तम् अस्ति |

षष्ठीतत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति | अनेन सूत्रेण यत् किमपि षष्ठ्यन्तं सुबन्तं, सुबन्तेन सह समस्यते, षष्ठीतत्पुरुषसमासः च भवति | इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रं अन्यं सूत्रम् अवलम्ब्य नास्ति | एतस्य अधिकनियमाः न सन्ति |अन्यानि समाससूत्राणि तु बद्धानि सन्ति।

यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रस्य आवश्यकता अस्ति | '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | यथा नीलं च तत् उत्पलं च, नीलोत्पलम् इति समासः।

यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति | '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं व्याघ्रादिभिः उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति  | '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति, अन्यत्र सर्वत्र '''षष्ठी''' (२.२.८) इति सूत्रेण विशेष्यं पूर्वं तिष्ठति | अनयो सूत्रयोः विवरणम् अग्रे कर्मधारयसमासे दक्ष्यामः | अत्र स्मर्तव्यः अंशः अयं यत् '''षष्ठी''' (२.२.८)  इति सूत्रं पूर्वसूत्राणाम् अपवादः अस्ति यतोहि इदं सूत्रं पूर्वसूत्राणां पूर्वनिपातनक्रमस्य परिवर्तनं करोति | तदर्थम् एव अन्यानि तत्पुरुष-समास-सम्बद्धसूत्राणि उक्त्वा तदनन्तरम् इदं '''षष्ठी''' (२.२.८)  इति सूत्रं उक्तम् |

'''षष्ठी''' (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

आस्मिन् सूत्रे षष्ठ्यन्तं सुबन्तं अन्येन सुबन्तेन सह समस्यते, अत्र कोऽपि विशिष्टनियमः नास्ति।

यथा - राज्ञः पुरुषः = राजपुरुषः | राजन् + ङस् + पुरुष + सु  |

'पुरुष + सु + राजन् + ङस्‌ ' इति अलौकिकविग्रहवाक्यम् ।

'पुरुष + सु + राजन् + ङस्‌ ' → समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | तदनन्तरं '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते  | '''षष्ठी''' (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते ।

'पुरुष + सु + राजन् + ङस्‌ ‘→ समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण ।

'पुरुष + सु + राजन् + ङस्‌ ‘→ इदानीं सुप्‌-प्रत्ययौ लुकौ (लोपौ) भवतः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः ङस्‌, सु इत्यनयोः लुक्‌ भवति।

पुरुष + राजन् → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति  | अत्र समासविधायकसूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति | अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति  | अस्माकम् उदाहरणे राजन् इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति ।

राजन् + पुरुष → '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति  | अत्र च 'राजन्' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा ? उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्त्येव | राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रिमसोपने राजन् इत्यस्य नकारस्य लोपः भवति।

राजन् + पुरुष → '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | राजन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति अतः राजन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण → राज + पुरुष।

राज + पुरुष → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन  समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः  | उत्तरपदम् अस्ति  पुरुष-इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम्  | सामान्यतया समासः प्रथमा विभक्तौ एकवचने एव उच्यते | अतः  राजपुरुषः इत्यस्य वचनं भवति एकवचनम्  | तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः।

राज + पुरुष  → '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण सुबुत्पत्तिः भवति पुंलिङ्गे।

राज + पुरुष + सु → राजपुरुषसु इति भवति |अधुना उकारस्य इत् संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन | '''तस्य लोपः''' (१.३.९) इत्यनेन उकारस्य लोपः भवति | अधुना '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | राजपुरुषरु इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  | राजपुरुषर् इति भवति | अधुना '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् | अतः  राजपुरुषः इति समस्तपदं सिद्धम् | सामान्यतया समासः प्रथमपुरुषैकवचने एव क्रियते  | तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते।

ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः  |

आत्मनः ज्ञानम् = आत्मज्ञानम् | आत्मन् + ङस् + ज्ञान + सु  | प्रक्रियायाम् '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः स्थाने अम्-आदेशः भवति  | आत्मज्ञान + सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → आत्मज्ञान + अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → आत्मज्ञानम् इति समस्तपदं निष्पन्नं भवति  |

मनसः विकारः = मनोविकारः  | मनस् + ङस् + विकार + सु  | प्रक्रिया यथापूर्वम् | मनस् + विकार  इति स्थितौ, '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | अतः मनरु +विकार इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  | मनर् + विकार इति भवति | अधुना '''हशि च''' (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → मन + उ + विकार →  '''आद्गुणः''' ( ६.१.८७) इति सूत्रेण गुणसन्धिः → मनो + विकार → अधुना सुबुत्पत्तिः → मनोविकारः इति समासः ।

सतां सङ्गतिः = सत्सङ्गतिः  | सत् + आम् + सङ्गति + सु  |

'''अतोऽम्''' ( ७.१.२४) = अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः | '''स्वमोर्नपुंसकात्‌''' (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति | अनुवृत्ति-सहितसूत्रम्‌ —  '''नपुंसकात् अतः अङ्गात्  स्वमोः अम् |'''

'''अमि पूर्वः''' (६.१.१०७) = अक् वर्णात् अमि परे पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम्  | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति सहितसूत्रम् — '''अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम्।'''

'''हशि च (६.१.११४) =''' प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च  | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते (६.१.११३)''' इत्यस्मात्‌ अप्लुतात्‌, अतः, रोः इत्येषाम्‌ अनुवृत्तिः  | '''ऋत उत्‌''' (६.१.१११) इत्यस्मात्‌ उत्‌ इत्यस्य अनुवृत्तिः  | '''संहितायाम्‌ (६.१.७१)''' इत्यस्य अधिकारः  | अनुवृत्ति-सहितसूत्रं— ''' अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌ |'''

'''षष्ठीतत्पुरुषसमासस्य अपवादाः'''

'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् आरभ्य '''ईषदकृता''' (२.२.७) इति सूत्रं पर्यन्तम् षष्ठीतत्पुरुषसमासस्य अपवादाः उक्ताः | आहत्य अत्र सप्तसूत्राणि सन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादाः यतोहि एतानि सूत्राणि '''षष्ठी''' (२.२.८) इति सूत्रस्य पूर्वनिपातनस्य क्रमं परिवर्तयन्ति | एतैः अपवादसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति | तात्पर्यं यत् षष्ठ्यन्तं पदं उत्तरपदे भवति समासे  |

लोके '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रमेव सामान्यतया प्रथमा-तत्पुरुषसमासः इति व्यवहारः दृश्यते | परन्तु व्याकरणे इदं सूत्रं एकदेशिसमासः इति उच्यते  | एतत् सूत्रं '''षष्ठी''' (२.२.८) इति सूत्रस्य अपवादः अस्ति।

1)     पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।

'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् | एकदेशः अस्य अस्ति इति  एकदेशी, तेन एकदेशिना | एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌— '''पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे '''पूर्वापराधरोत्तरम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''पूर्वापराधरोत्तरम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः भवति  | अवयववाचकस्य प्रथमा भवति | यदि मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी अस्ति, हस्तः अवयवः अस्ति | मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति |

यथा –

मम पुस्तकं =  मत्पुस्तकम् | षष्ठीतत्पुरुषसमासः अस्ति ।

राज्ञः हस्तः = राजहस्तः | षष्ठीतत्पुरुषसमासः अस्ति ।

राज्ञः पादः = राजपादः | षष्ठीतत्पुरुषसमासः अस्ति ।

गुरोः चरणः = गुरुचरणः | षष्ठीतत्पुरुषसमासः अस्ति ।

सर्वत्र अवयविवाचकस्य षष्ठी भवति | यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८)  इति सूत्रेण | षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति  | तस्य अपवादत्वेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१)  इति सूत्रम् उक्तम् | अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते  | षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति  |

कायस्य पूर्वम् इति विग्रहे षष्ठी इत्यनेन सूत्रेण समासः विधीयते येन कायपूर्वम् इति षष्ठीतत्पुरुषसमासः स्यात् '''षष्ठी''' (२.२.८) इति सूत्रेण | परन्तु अत्र पूर्वकायः इति समासः इष्यते | तदर्थं '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रं कृतम् | अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते।

यथा –

पूर्वं कायस्य = पूर्वकायः  | काय + ङस् + पूर्व + सु  | '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' इति सूत्रेण पूर्वापराधरोत्तरम् इत्यनेन निर्दिष्टस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वं''' (२.२.३०) इति सूत्रेण | अतः पूर्व इति पदस्य पूर्वनिपातः भवति |

अपरं कायस्य = अपरकाय: | काय + ङस् + अपर + सु  |

अधरं कायस्य = अधरकायः।

'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकदेशिना इति पदस्य किं प्रयोजनम् ?

एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति | यदि षष्ठ्यन्तं पदं अवयविवाचकं नास्ति तर्हि समासः न भवति | यथा पूर्वं नाभेः कायस्य इति वाक्यम्  | अर्थात् नाभेः पूर्वं पर्यन्तं शरीरस्य अर्धः भागः | अस्मिन् वाक्ये नाभिः अवयवी नास्ति इत्यतः पूर्वनाभः इति समासः न भवति।

'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम् ?

एकत्वसङ्ख्याविशिष्टः चेत्  एव अवयवी इति स्वीक्रियते  | अवयवी एकवचनान्तः भवेत्  | एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति किन्तु बहुत्वसंख्याविशिष्टः अवयवी चेत् समासः न भवति | यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणां” बहुवचने अस्ति, अतः समासः न भवति | पूर्वश्छात्राणाम् इति भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः।

सर्वोऽप्येकदेशोऽह्ना समस्यते,  '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रं ज्ञापकम् अस्ति | अर्थात् यद्यपि पूर्वोक्तान् (पूर्व, अपर, अधर, उत्तर च) शब्दान् विहाय अन्यैः एकदेशिवाचिभिः शब्दैः सह अह्न इति शब्दस्य '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण समासः न भवति, तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानां एकदेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते | तस्य प्रमाणम् अस्ति '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रम् | अस्मिन् सूत्रे साय + अहन् इति समासं कृत्वा सायाह्नः इति शब्दः निष्पन्नः अस्ति | तदनन्तरं साय पूर्वकः अहन् इति शब्दस्य स्थाने अहन् आदेशः भवति विकल्पेन ङि इति प्रत्यये परे | यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं सायाह्न इति पदं न भवति | अतः पाणिनिसूत्रम् एव ज्ञापकम् अस्ति यत् अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति  |

अस्य ज्ञापकस्य प्रसक्तिः कालवाचकशब्दस्य कृते अपि अस्ति इति कारणेन एकदेशिना सुबन्तेन सह कालवाचकस्य शब्दस्य अपि समासः भवति | अतः एव मध्यरात्रः, पश्चिमरात्रः इत्यादीनि समस्तपदानि भवन्ति।

मध्यम् अह्नः = मध्याह्नः  |

अलौकिकविग्रहः → अहन् + ङस् + मध्य + सु  | पूर्वोक्तस्य ज्ञापकस्य बलेन समासं कृत्वा मध्य इति एकदेशिशब्दस्य पूर्वनिपातः भूत्वा → मध्य + अहन् इति भवति | '''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः मध्य + अहन् + टच् → मध्य + अहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |

अधुना '''अह्नोऽह्न एतेभ्यः''' (५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | अस्माकम् उदाहरणे ‘मध्य’ इति एकदेशिवाचकः शब्दः पूर्वपदे अस्ति, अहन् शब्दः उत्तरपदे अस्ति, अतः '''अह्नोऽह्न एतेभ्यः''' (५.४.८८) इति सूत्रेण  उत्तरपदात् टच् इति तद्धितप्रत्ययः विधीयते अपि च अहन् शब्दस्य स्थाने अह्न इति आदेशः भवति  | मध्य + अह्न + अ → अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति  |अत मध्य + अह्न् + अ इति भवति → मध्य + अह्न इति भवति | अग्रे '''अकः सवर्णे दीर्घः''' इत्यनेन मध्याह्न इति शब्दः निष्पद्यते |अधुना तस्मात् शब्दात् सु प्रत्ययः क्रियते चेत् मध्याह्नः इति समस्तपदं निष्पद्यते |

अपरं अह्नः = अपराह्नः।

एवमेव मध्यं रात्रेः = मध्यरात्रः इति समस्तं पदं भवति | रात्रि + ङस् + मध्य + सु  | मध्य शब्दस्य पूर्वनिपातः भूत्वा मध्यरात्रि इति शब्दः निष्पद्यते | अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' (५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः अथवा एकदेशवाचकः शब्दः, वा संख्यावाचकः शब्दः, वा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  |

मध्यरात्रि + अच् → मध्यरात्रि + अ → अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा मध्यरात्र इति शब्दः निष्पन्नः भवति | अधुना सु प्रत्ययः क्रियते → मध्यरात्र + सु→ मध्यरात्रः इति समस्तपदं निष्पन्नं भवति ।

पश्चिमं रात्रेः = पश्चिमरात्रः | यथा मध्यरात्रः इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति | अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा पश्चिमरात्रः इति समस्तं पदं निष्पन्नम् |

'''यस्येति च''' (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च च लोपः भवति ईकारे परे, तद्धितप्रत्यये परे  | इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य | यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''भस्य''' (६.४.१२९) इत्यस्य अधिकारः  | '''ढे लोपोऽकद्र्वाः'''   (६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः। '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः  | '''नस्तद्धिते  '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते'''  |

2)     अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति।

'''अर्धं नपुंसकम्''' (२.२.२) = अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति  | अर्ध इति शब्दः समांशस्य वाचकः अस्ति, नित्यं नपुंसकलिङ्गे भवति | तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते | अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्धं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति।

‘अर्ध” इति शब्दः समांशवाची अपि अंशसामन्यवाची इति द्विधा भवति | समे अंशः अर्ध शब्दः नपुंसकलिङ्गे एव भवति | अंशसामन्यवाची तु पुंलिङ्गे नपुंसकलिङ्गे च भवति | अत्र अमरकोशः एव प्रमाणम् | यदा किमपि वस्तु छिद्यते,  कर्त्यते तदा भागद्वयं भवति | उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति | यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः | नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् ) प्रथमा तत्पुरुषसमासं प्राप्नोति '''अर्धं नपुंसकम्''' (२.२.२) इत्यनेन | यथा अर्धफलम् इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् | यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः फलार्धः इति षष्ठीतत्पुरुषसमासः भवति | षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची न तु समांशवाची।

अस्मिन् सूत्रे '''अर्धम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तेस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''अर्धम्''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

यथा—

अर्धं पिप्पल्याः = अर्धपिप्पली | पिप्पल्याः अर्धः भागः | यदि एतत् सूत्रं नास्ति तर्हि '''षष्ठी''' (२.२.८) इति सूत्रेण पिप्पल्यर्धः इति समासः निष्पद्यते | तन्न इष्टम् अतः अत्र '''अर्धं नपुंसकम्''' (२.२.२) इति सूत्रस्य आवश्यकता  |

अलौकिकविग्रहः → पिप्पली + ङस् + अर्ध + सु→ समासप्रक्रियां कृत्वा अर्धपिप्पली इति समस्तपदं निष्पद्यते | अत्र '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च | अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम् | अर्धपिप्पली इति समासः।

अर्धं शरीरस्य = अर्धशरीरम् | अयं समासः नपुंसकलिङ्गे भवति ।

अर्धम् आसनस्य = अर्धासनम् | अयं समासः नपुंसकलिङ्गे भवति ।

3)     द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।

'''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) = द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | द्वितीयञ्च तृतीयञ्च चतुर्थ च तुर्यं च तेषाम् इतरेतरयोगद्वन्द्वः द्वितीयातृतीयचतुर्थतुर्याणि प्रथमान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् | अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकदेशिना, एकाधिकरणे, च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि सुपः एकदेशिना एकाधिकरणे सुपा सह विभाषा तत्परुषः समासः अन्यतरस्याम्।'''

अस्मिन् सूत्रे '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि''' इति पदानि प्रथमाविभक्तौ सन्ति, अतः तेषां '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''द्वितीया-तृतीया-चतुर्थ-तुर्याणि''' इति पदानां पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति, अतः समासः विकल्पेन भवति तर्हि सूत्रे किमर्थं पुनः अन्यतरस्याम् इत्युक्तम्?

उत्तरमस्ति यत् पुनः अन्यतरस्याम् इति कथनेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण प्राप्तस्य षष्ठीतत्पुरुषसमास-निषेधं बाधयित्वा षष्ठीसमासः अपि विकल्पेन भवति इत्यर्थः सिध्यति | षष्ठीसमासः क्रियते चेत् षष्ठ्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति | षष्ठीसमासः इत्युक्ते यः समासः '''षष्ठी''' (२.२.८) इति सूत्रेण क्रियते ।

यथा –

द्वितीयं भिक्षायाः = द्वितीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३)  इति सूत्रेण । अयं समासः  षष्ठीतत्पुरुषसमासः अपवादः अस्ति  | द्वितीय + अम् + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे  भिक्षाद्वितीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति |

तृतीयं भिक्षायाः = तृतीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण । अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति  | तृतीय + अम् + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे   भिक्षातृतीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति।

चतुर्थं भिक्षायाः = चतुर्थभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण । अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति | चतुर्थ + अम् + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे भिक्षाचतुर्थम् इति षष्ठीतत्पुरुषसमासः अपि भवति।

तुर्यं भिक्षायाः = तुर्यभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण | अयं समासः  षष्ठीतत्पुरुषसमासः अपवादः अस्ति | तुर्य + अम् + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे भिक्षातुर्यम् इति षष्ठीतत्पुरुषसमासः अपि भवति।

4)     प्राप्त-आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |

'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) = प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने | प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तम्, अ लुप्तप्रथमाकं पदं, त्रिपदं सूत्रम् | एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति | यदि '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण प्राप्त आपन्न, अनयोः शब्दयोः समासः भवति तर्हि प्राप्त, आपन्न इति शब्दौ उत्तरपदे स्तः पूर्वपदे तु द्वितीयन्तं पदं भवति | किन्तु अनयोः शब्दयोः पूर्वप्रयोगः इष्यते तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌ — '''प्राप्तापन्ने सुपौ एकदेशिना अधिकरणे सुपा सह विभाषा तत्परुषः समासः, अन्यतरस्याम्।'''

अस्मिन् सूत्रे '''प्राप्तापन्ने''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''प्राप्तापन्ने''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति  | यदि '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः न सम्भवति  | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे अस्ति ।

यदि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः इष्यते चेत् तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति | '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रे प्राप्तापन्ने इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं तु '''विभाषा''' (२.१.११) इत्यस्य अधिकारे अस्ति तर्हि पुनः किमर्थं अन्यतरस्याम् इति पदस्य अनुवृत्तिः क्रियते '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् ?

उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति यतोहि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण  |अत एव आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति | प्राप्तजीविकः, जीविकाप्राप्तः, अथवा व्यस्तप्रयोगः जीविकां प्राप्तः इति ।

यथा –

प्राप्तः जीविकां = प्राप्तजीविकः |

अलौकिकविग्रहः भवति प्राप्त + सु + जीविका + अम्  | '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रेण समासः भवति | प्रातिपदिकसंज्ञानन्तरं, सुप् लुक् भवति | प्राप्तशब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य  पूर्वनिपातः च भवति | प्राप्तजीविका इति नूतनप्रातिपदिकं निष्पद्यते | जीविका इति पदं नियतविभक्तौ अस्ति इति कारणेन '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण जीविका इति पदस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | उपसर्जनसंज्ञकस्त्रीप्रत्ययान्तस्य जीविका इति शब्दस्य ह्रस्वत्वं भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इत्यनेन सूत्रेण | अतः प्राप्तजीविक इति भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति  | परन्तु '''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन निषेधः क्रियते इति कारणेन विशेष्यपदस्य अनुसारं समासः पुंलिङ्गे भवति | ततः सुप्प्रत्ययस्य विधानानन्तरं  प्राप्तजीविकः इति भवति |

'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति इति कृत्वा समासाभावे व्यस्तप्रयोगः सम्भवति, अतः जीविकां प्राप्तः इति वाक्यं भवति  | अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण  | द्वितीयातत्पुरुषसमासे, जीविका शब्दस्य पूर्वनिपातः भवति अतः जीविकाप्राप्तः इति समासः सिद्धः | आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति – प्राप्तजीविकः, जीविकाप्राप्तः, जीविकां प्राप्तः इति व्यस्तप्रयोगः ।

आपन्नो जीविकाम् = आपन्नजीविकः  |अलौकिकविग्रहः आपन्न + सु + जीविका + अम्  | यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः ।

'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः | पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः | एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् | प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः  | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् ।'''

'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वओ गोस्त्रियौ, तयोर्गिस्त्रियोः | गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः ।'''

5)      परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते, तत्पुरुषश्च समासो भवति |

'''कालाः परिमाणिना''' (२.२.५) = कालवाचकाः परिच्छेद्यवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | सूत्रस्थ परिमाणिन् शब्दः परिच्छेद्यवाची अस्ति, अर्थात् इयत्तायाः बोधकः | अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ  अपि कालवाचिनौ एव स्तः | एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशिष्टस्य शब्दं सूचयति | अयमेव परिच्छेदक -परिच्छेद्यभावः अर्थात् विशेषण- विशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति  | कालाः प्रथमान्तं, परिमाणिना तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''कालाः सुपः परिमाणिना सुपा सह विभाषा तत्परुषः समासः।'''

अस्मिन् सूत्रे '''कालाः''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''कालाः''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

यथा—

मासो जातस्य = मासजातः | अलौकिकविग्रहः - मास + सु + जात + ङस्  | अत्र मास इति कालविशेष-बोधकशब्दः अवदिसूचकः जात इति शब्देन सह समस्यते '''कालाः परिमाणिना''' (२.२.५) इति सूत्रेण  | मासजातः इति समस्तपदं निष्पन्नं भवति  |

द्वयोः अह्नोः समाहारः द्व्यहः, द्व्यहो जातस्य यस्य स इति विग्रहः = द्व्यहजतः  | जन्मात् द्वे दिने जाते  |

प्रथमं द्वयोः अह्नोः समाहारः इति द्विगुसमासः भवति '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) इत्यनेन | अलौकिकविग्रहः भवति द्वि + ओस् + अहन् + ओस् | द्विगुसमासानन्तरं द्व्यहन् इति भवति | '''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति  टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् | '''न सङ्ख्यादेः समाहारे''' ( ५.४.८९)  इति सूत्रेण समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति  | अतः '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण अहनि इत्येतस्य टखोः एव परतः टिलोपो भवति |अतः द्व्यहन् + अ → अन् इति टिभागः अस्ति, तस्य लोपः भवति '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण  | द्व्यह इति रूपं निष्पन्नं भवति |

'''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण रात्र-अह्न-अहाः इत्येते द्वन्द्वतत्पुरुषौ पुंस्येव भवन्ति  |

अधुना प्रकृतसमासः क्रियते –

द्व्यहो जातस्य यस्य स इति लौकिकविग्रहः | यद्यपि अत्र विग्रहवाक्यं बहुव्रीहिसमासः इति चिन्तयेयम् परन्तु अत्र बहुव्रीहिसमासः नास्ति  | द्व्यह + सु + जात + ङस् इति अलौकिकविग्रहः | कालाः '''परिमाणिना''' (२.२.५) इति सूत्रेण समासः विधीयते | द्व्यह इति पदस्य पूर्वनिपातः भवति यतोहि अयं शब्दः कालवाचकः अस्ति | समासप्रक्रियानन्तरं द्व्यहजातः समासः निष्पद्यते ।

'''पूर्वत्र तु न सङ्ख्यादेः समाहारे इति निषेधः  |''' अर्थात् पूर्वत्र नाम प्रकृतसूत्रस्य उदाहरणे द्व्यहजातः इत्यस्मिन् अह्न इति आदेशः न भवति यतोहि सङ्ख्यादेः समाहरे इत्यनेन निषेधः भवति ।

'''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति | उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासं कर्तुं अनेकानां पदानां तत्पुरुषसमासः भवति | यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः = परिमाणवाचिनः द्विगुसमासः निष्पन्नः भवति  |

द्वे अहनी जातस्य सः = द्व्यहजातः | अह्नोऽह्नः – इति वक्ष्यमाणोऽह्नादेशः | द्वे अहनी जातस्य यस्य सः लौकिकः विग्रहः | द्वि + औ + अहन् + औ + जात + ङस् इति अलौकिकविग्रहः | अर्थात् त्रयाणां पदानां समासः क्रियमाणः अतः '''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन समासः विधीयते | समासप्रक्रियानन्तरं द्वि + अहन् + जात इति प्रातिपदिकं निष्पन्नं भवति | उत्तरपदे जात इति शब्दः अस्ति | अतः द्व्यहन् इति समाहारार्थकद्विगुः न भवति | किन्तु उत्तरपदनिमित्तकद्विगुः भवति | द्वि + अहन् → यण् सन्धिः भूत्वा द्व्यहन् भवति | ततः '''राजाहस्सखिभ्यष्टच्‌''' (५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् | अधुना '''अह्नोऽह्नः एतेभ्यः''' (५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | अतः द्व्यहन इति शब्दे यः अहन् इति शब्दः अस्ति, तस्य स्थाने अह्न इति आदेशः भवति | द्व्यह्नजात इति प्रातिपदिकं निष्पन्नं , तस्मात् सुबुत्पत्तिः भवति द्व्यह्नजातः इति समासः सिद्धः भवति |

'''नञ्तत्पुरुषसमासः'''

6)     नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |

'''नञ्''' (२.२.६) = नञ् इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | अत्र नञ् इति अव्ययम् अस्ति | नञ् इत्यस्मिन् ञकारस्य इत् संज्ञा भवति '''हलन्त्यम्''' (१.३.३) इत्यनेन, न इति अवशिष्यते | नञ् प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''नञ् सुप् सुपा सह विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे '''नञ्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''नञ्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

एकः नञ् तु अव्ययम् अस्ति, तस्य विषये उपरितनसूत्रेण उक्तम् | अपरः नञ् अपि अस्ति | सः नञ् तु प्रत्ययः अस्ति | नञ् इति प्रत्ययः विधीयते अनेन सूत्रेण '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७) | '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७) इति सूत्रेण पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं पर्यन्तम् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्'तद्धितप्रत्ययः विधीयते ।

निषेधार्थके नञ् इति पदम् अस्ति अपि च न इति पदम् अपि अस्ति, एतौ द्वौ शब्दौ उपलब्धौ स्तः समासार्थम् | द्वयम् अपि अव्ययमेव किन्तु समासः तु नञ् इति शब्देन सह एव भवति न तु “न” इति शब्देन सह | अत एव नैकधा इति प्रयोगः अपि दृश्यते, अत्र तु समासः नास्ति | नाम न + एकधा = नैकधा इति । यदि नञ् इति अव्ययस्य समर्थेन सुबन्तेन सह समासः भवति तर्हि अनेकधा इति रूपं निष्पन्नम् | नञ् + एकधा = अनेकधा ।

नञ् इति शब्दस्य षडर्थाः सन्ति |

यथा –

'''तत्सादृशयमभावश्च तदन्यत्वं तदल्पता।'''

'''अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः।'''
अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा |प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः |

अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा | प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः |

१)      सादृश्यार्थे = अब्राह्मणः इति उदाहरणे ब्राह्मणः सदृशः इत्यर्थः।

२)     अभावार्थे = अपापम् इत्यत्र पापस्य अभावः इत्यर्थः ।

३)     अन्यत्वार्थे = अनश्वः इत्यत्र अश्वः भिन्नः इत्यर्थः।

४)     अल्पतार्थे = अनुदरा कन्या इत्यत्र अल्पा उदरा कन्या इत्यर्थः ।

५)     अप्राशस्त्यार्थे = अपशवः इत्यत्र पशूनां न्यूनतायाः (अप्राशस्त्यस्य) बोधः अस्ति ।

६)     विरोधार्थे = अधर्मः इत्यत्र विरोधस्य बोधः भवति ।

यथा—

न ब्राह्मणः = अब्राह्मणः – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।

न पापम् = अपापम् – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।

न अश्वः = अनश्वः – –अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते | तदनन्तरं '''तस्मान्नुडचि''' (६.३.७४) इति सूत्रेण नुडागमः भवति अच् वर्णस्य | नुट् टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अश्व इत्यस्य आद्यवयवः भवति।

'''न लोपो नञ्''' (६.३.७३) = नञो नकारस्य लोपो भवति उत्तरपदे | न लोपः प्रथमान्तं, नञः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌ — '''नञः न लोपः उत्तरपदे।'''

'''तस्मान्नुडचि''' (६.३.७४) = तस्मात् लुप्तनकारात् परे अजादेः उत्तरपदयस्य नुट् आगमः भवति | तस्मात् पञ्चम्यन्तं, नुट् प्रथमान्तम्, अचि सप्तम्यन्तं त्रिपदमिदं सूत्रम् | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन नुडागमः अच् वर्णस्य आद्यवयवः भवति  | अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे अपि च '''न लोपो नञ्''' (६.३.७३) इत्यस्मात् सूत्रात् नञ् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''तस्मात् नञः नुट् अचि।'''

7)     ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |

'''ईषदकृता''' (२.२.७) = ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता | ईषद् अव्ययम्, अकृता तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌ — '''ईषद् सुप्  अकृता सुपा सह विभाषा तत्परुषः समासः।'''

अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

यथा—

ईषत् पिङ्गलः = ईषत्पिङ्गलः | किञ्चित् पीतः इत्यर्थः | पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति ।

ईषत् रक्तम् = ईषद्रक्तम्  | किञ्चित् रक्तवर्णीयम् इत्यर्थः | अत्र रक्तम् इति क्तान्तपदम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति | तदर्थम् अत्र '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति यतोहि रक्तम् गुणवाचिपदम् अस्ति।

'''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते ।

ईषद् गार्ग्यः = अत्र समासः न भवति | गार्ग्यः अकृदन्तं पदम् अस्ति परन्तु गुणवाची नास्ति अतः '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन समासः न भवति | अत्र '''ईषदकृता''' (२.२.७) इत्यनेन अपि न भवति यतोहि समासः अनभीष्टः।

'''षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि''' —

'''याजकादिभिश्च''' (२.२.९) इत्यस्मात् सूत्रात् आरभ्य '''कर्तरि च''' (२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति | अग्रे एतेषां सूत्राणां चर्चा क्रियते।

१)      षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति।

'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति | याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः | याजकादिभिः तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''

अस्मिन् सूत्रे षष्ठी इति अनुवृत्तं पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।

'''तृजाकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवोऽयम्  | याजकादिभिश्च''' (२.२.९) इति सूत्रं '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य अपवादः अस्ति | तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रस्य प्रतिप्रसवोऽयम् | अर्थात् केनचित् सूत्रेण किमपि कार्यं विधीयते, तस्य निषेधः भवति अन्येन सूत्रेण | तदनन्तरं, यदा तस्य कार्यं पुनः विधीयते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते | '''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते तदा '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रं तत्कार्यं निषेधयति | इदानीं '''याजकादिभिश्च''' (२.२.९) इत् सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति।

याजकादिगणे एते शब्दाः अन्त्रर्भूताः ­— याजक, पूजक, परिचारक, परिषेचक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होतृ, पोतृ, भर्तृ, रथगणक, चन्दन, पत्तिगणक, कपित्था च।

यथा –

ब्राह्मणस्य याजकः = ब्राह्मणयाजकः | ब्राह्मण + ङस् + याजक + सु  |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |

देवानां पूजकः = देवपूजकः | देव + ङस् + पूजक + सु  | '''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |

'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्''' | वार्तिकार्थः एवम् अस्ति – तरप् -प्रत्ययान्तः शब्दः यः गुणवाची अस्ति, तस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप् प्रत्ययस्य लोपः भवति | '''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  | अनयोः सूत्रस्य विवरणम् अग्रे वक्ष्यते | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |

सर्वेषां श्वेततरः = सर्वश्वेतः | नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः |

अलौकिकविग्रहः = सर्व +आम् + श्वेततर+सु |

अत्र श्वेत इति प्रातिपदिकात् '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  | '''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति | सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति | समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति |

सर्वेषां महत्तरः = सर्वमहान्  |अलौकिकविग्रहः = सर्व + आम् + महत्तर + सु  | सर्व + महत् → सर्वमहत् + सु → सर्वमहान् |

'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् '''|''' वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  | प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  | पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना | समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण  | '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  | यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन   |

'''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  | कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते | वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकम् वार्तिकम् अस्ति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति | अस्य वार्तिकस्य बाधकं अस्ति प्रकृतवार्तिकम् | '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  इति वार्तिकेन  षष्ठीसमासः विधीयते  |

'''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते | कर्तृकर्मणोः '''कृति''' (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति | भवतः पठनम् | भवत्याः हसनम्  |

इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः | काष्ठस्य छेदनं कर्तुं मुद्गरः इत्यर्थः |इध्म नाम काष्ठम् इत्यर्थः | प्रव्रश्चन नाम मुद्गरः इत्यर्थः |

अलौकिकविग्रहः = इध्म + ङस् + प्रव्रश्चन + सु  | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  | '''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन | '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः, तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते | समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |

२)      निर्धारणे या षष्ठी सा न समस्यते।

'''न निर्धारणे''' (२.२.१०) = पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते | निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः '''न''' भवति | न इत्यव्ययं, निर्धारणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प् राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''न निर्धारणे''' '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः।'''

निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण | कारकप्रकरणे '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति | संज्ञा, जातिः, क्रिया अथवा गुणः, एतेषाम् आधारेण समूहात् एकस्य पृथक्करणं निर्धारणम् इति उच्यते |

निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च।

यथा –

नॄणां द्विजः श्रेष्ठः – अस्मिन् उदाहरणे जातेः आधारेण द्विजः श्रेष्ठः इति उच्यते  | '''यतश्च निधारणम्''' (२.३.४१) इत्यनेन सूत्रेण निर्धारणार्थे षष्ठी विभक्तिः भूत्वा नृणां द्विजः श्रेष्ठः इति वाक्यं सिद्धम् | परन्तु '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्य समर्थेन सुबन्तेन सह समासः निषिध्यते '''न निर्धारणे''' (२.२.१०) इति सूत्रेण  | अतः नॄणां द्विजः इति व्यस्तप्रयोगः एव सम्भवति  | नृद्विजः इति समासः न भवति  |

यथा छात्राणां छात्रेषु वा मैत्रः पटुः | '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते | तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति  |

यथा गवां गोषु वा कृष्णा बहुक्षीरा | अस्मिन् उदाहरणे गुणस्य आधारेण कृष्णा बहुक्षीरा इति उच्यते | '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते | तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति  |

'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् '''|''' वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति | प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति | पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना | समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण | '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते | यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन |

सर्पिषः ज्ञानम् | अत्र सर्पिष् इति शब्दे '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति | '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् | अस्मिन् उदाहरणे प्रतिपदविधाने षष्ठी अस्ति  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः भवति, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति  |

३)     षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्-संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः इत्येतैः शब्दैः सह न समस्यते |

'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) = पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते | षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचि शब्दः, इत्येतैः शब्दैः सह न समस्यते | सुहितार्थाः बहुव्रीहिः | पूरणं च गुणश्च सुहितार्थाश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः; पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणं, तेन | पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तृतीयान्तम् एकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्‌ — '''षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्परुषःसमासः।'''

'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति | सुहित इति शब्दस्य तृप्तिः इत्यर्थः | तृप्तिः इति शब्दस्य अर्थः इति शब्देन सह योगात् तृप्यर्थकशब्दस्य ग्रहणं भवति | सत्-शब्दस्य द्वारा लट्, लृट्, लकारयोः स्थाने आदेशरूपेण विधीयमानः सत्-संज्ञक- शब्दानां ग्रहणं भवति | '''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति | समानाधिकरणं नाम समानाश्रयौ पदार्थौ इति | आश्रयः नाम समानविभक्तिः इति | अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते

यथा— अग्रे सर्वत्र षष्ठीसमास्य निषेधः भवति ।

'''१)     पूरणप्रत्ययान्तशब्दस्य उदाहरणम्'''

सतां षष्ठः – सज्जनानां षष्ठः इत्यर्थः | षण्णां षष्ठः इत्यर्थे षष् इति शब्दात् '''तस्य पूरणे डट्''' ( ५.२.४८) इति सूत्रेण षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः विधीयते | षष् + डट् → षष् + अ  → '''षट्कतिकतिपयचतुरां थुक्''' (५.२.५१) इति सूत्रेण षष्, कति, कतिपय तथा चतुर् - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति → षष् + थ् + अ → षकारस्य योगेन थकारस्य स्थाने ठकारादेशः भवति '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन → षष्ठ इति प्रातिपदिकं सिद्धं भवति | षष्ठः इति पदं पूरणप्रत्ययान्तः शब्दः | अत्र सतां इति पदस्य षष्ठः इति समर्थेन सुबन्तेन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः सत्षष्ठः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – सतां षष्ठः इति  |

पुरुषाणां प्रथम: अत्रापि षष्ठीतत्पुरुषसमासः न भवति।

'''२)    ''' '''गुणवाचकशब्दस्य उदाहरणम्'''

काकस्य कार्ष्ण्यम् (blackness) – कृष्णस्य भावः कार्ष्णयम्  | काकस्य इति षष्ठ्यन्तस्य कार्ष्ण्यम् इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः काककार्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – काकस्य कार्ष्ण्यम् इति  |

ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति ।

शुक्लः इति पदं मतुप् प्रत्ययान्तः शब्दः | शुक्लो गुणः एषाम् इत्यर्थे मतुप्-प्रत्ययः विधीयते, ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप् -प्रत्ययस्य लुक् क्रियते  |एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |

'''अनित्योऽयं गुणेन निषेधः , तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्''' | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' (१.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति समस्तपदस्य विग्रहवाक्यम् अस्ति संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे प्रमाणत्वम् इति षष्ठ्यन्तस्य गुणवाचिशब्दस्य प्रयोगः समासे कृतः पाणिनिना | अतः अयं प्रयोगः एव ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः, अर्थात् कुत्रचित् निषेधः क्रियते, कुत्रचित् निषेधः न क्रियते इति  |

तेन अर्थगौरवम्, बुद्धिमान्द्यम् इत्यादीनि समस्तपदानि सिद्धानि | तेन इति गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात् अर्थस्य गौरवम्, बुद्धेः मान्द्यम् (मन्दता) इत्यादिषु स्थलेषु षष्ठीसमासः भवति ।

अर्थस्य गौरवम् = अर्थगौरवम् |

बुद्धेः मान्द्यं = बुद्धिमान्द्यम् ।

लोके अन्यानि उदाहरणानि

भारवेः अर्थस्य गौरवम् = भारवेरर्थगौरवम् ।

अग्नेः मान्द्यम् = अग्निमान्द्यम् ।

'''३)     सुहितार्थास्तृप्त्यर्था:''' – '''सुहितार्थशब्दः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति।'''

फलानां सुहिताः | फलानां तृप्तिः इत्यर्थः | सुहिताः इति पदं सुदितार्थे अस्ति  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः फलसुहिताः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – फलानां सुहिताः इति ।

तृतीयासमासस्तु स्यादेव | अर्थात् उक्तनिषेधः केवलं षष्ठीतत्पुरुषसमासस्य विषये न तु तृतीयातत्पुरुषसमासस्य विषये | अतः फलैः सुहिताः इत्यत्र कारणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति, अनेन फलसुहिताः इति समासः निष्पन्नः भवति  |एवमेव फलतृप्तिः इत्यपि समासः सिद्धः भवति ।

'''४)    सत् इत्यनेन शत्रृप्रत्ययान्त-शब्दानां, शानच्प्रत्ययान्त-शब्दानां ग्रहणं भवति।'''

सत्संज्ञकप्रत्ययं उप्युज्य यः शब्दः निष्पन्नः, तेन सह षष्ठीतत्पुरुषसमासः न भवति |'''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः।

द्विजस्य कुर्वन्, कुर्वाणो वा |कुर्वन्, कुर्वाणः नाम किङ्करः, सेवकः इत्यर्थः | अस्मिन् उदाहरणे शतृ-प्रत्ययान्त-शब्दस्य, शानच्-प्रत्ययान्त-शब्दस्य च प्रयोगः दृश्यते  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः द्विजकुर्वन्, द्विजकुर्वाणः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति  |एवमेव ब्राह्मणस्य कुर्वन्

'''५)    अव्ययम्'''

अव्ययेन सह षष्ठीसमासस्य निषेधः अस्ति |

ब्राह्मणस्य कृत्वा – कृत्वा इति शब्दे कृ इति धातुतः क्त्वा प्रत्ययः विधीयते | क्त्वाप्रत्ययान्त-शब्दः '''क्त्वातोसुन्कसुनः''' (१.१.४०) इति सूत्रेण अव्ययसंज्ञां प्राप्नोति | ब्राह्मणस्य कृत्वा इति उदाहरणे '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणकृत्वा इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कृत्वा इति

अस्मिन् सूत्रे अव्ययम् इत्यनेन केवलं तादृशानाम् अव्ययानां ग्रहणम् अस्ति यत् कृत्प्रत्ययान्तम् अस्ति | '''पूर्वोत्तरसाहचर्यात् कृदव्ययमेव गृह्यते'''  | अर्थात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति अव्ययम् इति शब्दात् पूर्वं सत्शब्दस्य विषये उक्तं, सत्प्रत्ययान्तः कृत्प्रत्ययान्तः अस्ति; तत्पश्चात् तव्यप्रत्ययान्तस्य विषये वक्यते, सोपि  कृत्प्रत्ययान्तः अस्ति | अतः पूर्वं तथा परं विद्यमानः कृत्प्रत्ययबोधकः शब्दः अस्ति, तस्य साहचर्यात् अव्ययम् इति शब्दस्य द्वारा अपि कृत्प्रत्ययान्तं अव्ययं एव गृह्यते  |

पूर्वोक्तनियमेन तद्धितप्रत्ययान्तेन अव्ययेन सह षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति  |

उदाहरणम् –

तस्य उपरि = तदुपरि | उपरि इति तद्धितप्रत्ययान्तम् अव्ययम् अस्ति ।

'''६)    तव्यप्रत्ययान्त-शब्दः'''

तव्यप्रत्ययान्तेन शब्देन सह षष्ठीसमासस्य निषेधः अस्ति |

ब्राह्मणस्य कर्तव्यम्  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणकर्तव्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कर्तव्यम् इति ।

प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः न तु तव्यत्प्रत्ययान्तस्य  | अतः तव्यत्प्रत्ययान्तेन शब्देन सहः षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति  |

स्वस्य कर्तव्यम् = स्वकर्तव्यम्  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति | यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति  |

'''७)    समानाधिकरणेन'''

समानाधिकरणशब्देन सह षष्ठीसमासस्य निषेधः अस्ति |

तक्षकस्य सर्पस्य = तक्षकस्य, सर्पस्य इति द्वे पदे षष्ठीविभक्तौ स्तः | द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति इति कारणात् द्वयोः पदयोः सामानाधिकरण्यम् अस्ति | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः तक्षकसर्पस्य इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – तक्षकस्य सर्पस्य इति ।

एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |

४)     षष्ठ्यन्तं सुबन्तं पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते ।

'''क्तेन च पूजायाम्''' (२.२.१२) = षष्ठ्यन्तस्य समर्थस्य सुबन्तस्य, पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते  | कृदन्तप्रकरणे पूजार्थे क्तप्रत्ययः विधीयते '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इत्यनेन सूत्रेण | अस्मिन् सूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, बुद्ध्यर्थे, पूजार्थे च तस्य सङ्केतः अस्ति | क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप्  क्तेन सुपा सह  न तत्परुषः समासः च ।'''

यथा—

राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | मतः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति ।

राज्ञां बुद्धः, = बुद्धः इति क्तप्रत्ययान्तः शब्दः बुद्ध्यर्थे अस्ति | बुध् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  बुद्धः इति रूपं निष्पन्नम् | बुद्धः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः भवति '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजबुद्धः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां बुद्धः इति ।

राज्ञां पूजितः= पूजितः इति क्तप्रत्ययान्तः शब्दः पूजार्थे अस्ति |पूज् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  पूजितः इति रूपं निष्पन्नम् | पूजितः इति क्तप्रत्ययान्तस्य  राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजपूजितः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां पूजितः इति ।

'''राजपूजितः''' इति तृतीयासमासः क्वचित् दृश्यते लोके, तस्य समर्थनं कथं करणीयः यतोहि उपरि उक्तं समासः न भवति इति ?

राजपूजितः इति समासः दृश्यते परन्तु अत्र पूजितः इति पदं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे न विहितम् अस्ति | परन्तु पूजितः इति क्तप्रत्ययान्तः शब्दः '''निष्ठा''' (३.२.१०२) इति सूत्रेण भूतार्थे विहितः वर्तते | अतः '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण समासस्य निषेधः इति विषयः नास्ति  |

सामान्यतः क्तप्रत्ययान्तः शब्दः कर्मार्थे अथवा भावार्थे एव प्रयुक्तः भवति  | तथा च क्तप्रत्ययान्तस्य शब्दस्य योगे कर्ता तृतीयाविभक्तिं प्राप्नोति '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण  | अतः राज्ञा जनः पूजितः इति वाक्यं सम्भवति | '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तरि करणे च कारके तृतीयाविभक्तिः भवति |

तत्पश्चात् राज्ञा पूजितः इति पदयोः तृतीयातत्पुरुषसमासः क्रियते '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण  | '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण कर्तरि करणे च यत् तृतीयान्तं पदं, तत् पदं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति।

'''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) = मतिः इत्युक्ते इच्छा | बुद्धिः इत्युक्ते ज्ञानम् | पूजा इत्युक्ते सत्कारः | एतदर्थेभ्यः च धातुभ्यः वर्तमानार्थे क्तप्रत्ययः भवति | यथा – राज्ञां मतः | राज्ञाम् इष्टः | राज्ञां बुद्धः | राज्ञां ज्ञातः | राज्ञां पूजितः | राज्ञामर्चितः |

५)     षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्त्प्रत्ययस्य, तदन्तेन सुबन्तेन सह न समस्यते ।

'''अधिकरणवाचिना च''' (२.२.१३) = अधिकरणार्थे विहितः क्त्प्रत्ययः, तदन्तेन-सुबन्तेन  सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  |अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप्  अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च।'''

यथा—

इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् ।

इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम्।

इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम्।

'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) = ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः  | ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः (food) इति स्वनिकायप्रसिद्धिः | निकाय इत्युक्ते विषयः इत्यर्थः ।

६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |

'''कर्मणि च''' (२.२.१४) = '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति | अर्थात् कर्मणि च या षष्ठी सा न समस्यते | कर्मणि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च।'''

'''कर्तृकर्मणोः कृति''' (२.४.६५) = कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |कृष्णस्य कृतिः  | जगतः कर्ता कृष्णः ।

'''उभयप्राप्तौ कर्मणि''' (२.३.६६) = पूर्वसूत्रेण या षष्ठी प्राप्ता सा अनेन सूत्रेण नियम्यते | तत्र कर्मण्येव षष्ठीविभक्तिः भवति, न तु कर्तरि |

यथा –

आश्चर्यः गवां दोहः अगोपेन इति वाक्यम् ।

वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः अस्ति | गोः दोहति इति वाक्ये गोः इति कर्मपदम् अस्ति | दोहति इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य प्रयोगः क्रियते तर्हि कर्मणि षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण | दुहिर् अर्दने इति धातुतः घञ् प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति | दोहः इति पदस्य कर्म अस्ति गोः इति पदम् | सामान्यतया कर्मणि द्वितीयाविभक्तिः भवति इति जानीमः परन्तु कृत्प्रत्ययस्य योगे कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण  | गोः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति | गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति।

७)    कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः | कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |

'''तृजाकाभ्यां कर्तरि''' (२.२.१५) = कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते | कर्मणि या षष्ठी सा कर्तरि तृचा अकेन च सह न समस्यते | कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः | कृद्योगे कर्तरि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते | अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  | '''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते | '''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल् -प्रत्ययान्तस्य एव  ग्रहणं भवति | कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् अस्ति | अर्थात् तृच् प्रत्ययः अथवा अक प्रत्ययः यः कर्त्रर्थे विहितः इत्यर्थः | तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः | '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् | तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्मणि''' '''षष्ठी सुप्  कर्तरि तृजाकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः ।'''

यथा—

अपां स्रष्टा – जलस्य सृष्टिकर्ता इत्यर्थः | अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  |

आपः इति नित्यं स्त्रीलिङ्गशब्दः अस्ति, अप् इति प्रातिपदिकम्  | अपां स्रष्टा इति वाक्ये स्रष्टा इति कृत्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः अस्ति | स्रष्टा इति कृद्योगे अप्-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः अपाम् इति भवति | अपां स्रष्टा इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति ।

एवमेव व्रजस्य भर्ता – यः व्रजस्य  भरणं करोति इत्यर्थः | अत्र भृ इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, भर्ता इति पदं  निष्पन्नं भवति प्रथमाविभक्तौ एकवचने | भर्ता इति कृद्योगे व्रजशब्दस्य षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति | व्रजस्य भर्ता इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता ।

ओदनस्य पाचकः – पच् इति धातुतः कर्त्रर्थे ण्वुल् (अक) प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति | पाचकः इति कृद्योगे ओदन-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः ओदनस्य इति भवति | ओदनस्य पाचकः इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – ओदनस्य पाचकः।

ईक्षूणां (sugarcane) भक्षणम् = इक्षुभक्षिका | भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्ठीसमासः दृश्यते, किमर्थम् ?

'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रे कर्तरि इति उक्तम्, तस्य प्रयोजनं किम् ?

कर्त्रर्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते | भावार्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः इक्षुभक्षिका इति षष्ठीसमासः भवति यतः ण्वुल्-प्रत्ययः भावार्थे विहितः अस्ति | भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुल् प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् | ईक्षूणां भक्षणम् इत्यस्मिन् कर्त्रर्थे ण्वुल् प्रत्ययः नास्ति भावार्थे एव अस्ति इत्यतः षष्ठीसमासः सम्भवति | अतः इक्षुभक्षिका इति षष्ठीसमासः भवति  |

पत्यर्थस्य भर्तृ-शब्दस्य तु याजाकादित्वात् समासः – भुवः भर्ता | भर्तृ-शब्दस्य द्वौ अर्थौ स्तः – पतिः, भरणं च | यदि पतिः इत्यस्मिन् अर्थे भर्तृ-शब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः अतः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः प्राप्यते | अर्था याजकादिगणपाठसामर्थ्यात् कर्त्रर्थकप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्ठीसमासनिषेधः प्रवृत्तः न भवति अपितु विशेषविधानस्य कारणेन '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य बाधकं सूत्रं भवति '''याजकादिभिश्च''' (२.२.९) इति सूत्रम् | अतः भुवः भर्त्ता इति विग्रहे '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण '''भूभर्ता''' इति समासः सिद्ध्यति | भूभर्ता नाम पृथिव्याः पतिः इति | एवं '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रं बाधित्वा '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः क्रियते, अतः प्रतिप्रसवः इति उच्यते | बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते | आदौ षष्ठीसमासस्य प्राप्तिः, तस्य निषेधः भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण | पुनः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण विशेषविधानं क्रियते येन षष्ठीसमासः पुनः विधीयते | अयमेव प्रतिप्रसवः इत्युच्यते  |

त्रिभुवनस्य विधाता = त्रिभुवनविधाता | अत्र समासः कथं सिद्ध्यति यतोहि विधाता इति तृजन्तः शब्दः अस्ति अतः अत्र '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?

तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः नास्ति अपि तु तृन्प्रत्ययान्तः | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तरस्य | अत्रतु विधातृ इति प्रातिपदिकं तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति,  अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति | अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति | त्रिभुवनम् इति पदम् अपि समस्तपदमेव | तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति | अयं द्विगुसमासः अस्ति | तस्य विवरणम् अग्रे करिष्यते |

'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति | याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः | याजकादिभिः तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌ — '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''

८)      कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः |

'''कर्तरि च''' (२.२.१६) = कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः | अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति | कर्तरि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च।'''

यथा—

भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् | भवतः इति शब्दे कर्त्रर्थे षष्ठीविभक्तिः अस्ति | भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रेण | अतः भवत्शायिका इति समासः न भवति |

'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलं अक इत्यस्य अनुवृत्तिः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रे | अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः '''कर्तरि कृत्''' ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते | फलितार्थः एवं यत्  यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन | कर्ता उक्तः इति कारणेन कर्तुः प्रथमा भवति अतः कर्त्रर्थे षष्ठी न भवत्येव | यदा कर्त्रथे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति |यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात् ।

षष्ठीसमासनिषेधकप्रकरणं समाप्तम् | अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये | अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म | अग्रेमे सूत्रे समासः नित्यं भवति | तदनन्तरं पुनः समासः विकल्पेन भवति |

क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः नित्यः, तत्पुरुषश्च समासो भवति।

'''नित्यं क्रीडा जीविकयोः''' (२.२.१७) = क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य, अकप्रत्ययान्तेन सुबन्तेन सह नित्यं समासः, तत्पुरुषश्च समासो भवति | नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति | समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः | नित्यमिति क्रिया विशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''षष्ठी सुप् अकेन सुपा सह नित्यं तत्पुरुषः समासः ।'''

क्रीडा इत्यस्य उदाहरणम् –

उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यते यत्र क्रीडायां ण्वुल्-प्रत्ययः- a sort of game played by the people in which Uddālaka flowers are broken or crushed).

उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति | भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल् प्रत्ययः विधीयते |

अलौकिकविग्रहः –

उद्दालकपुष्प + आम् + भञ्जिका + सु  | अत्र '''कर्तरि च''' (२.२.१६) इति सूत्रेण षष्ठीसमासः निषिध्यते, तस्य प्रतिप्रसवः भवति '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण अतः षष्ठीसमासः पुनः विधीयते नित्यरूपेण | समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लिक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति | अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पध्यते | अत्र समासः नित्यः अतः विग्रहवाक्यं न भवति  |

जीविकाम् इत्यस्य उदाहरणम् –

दन्तानां लेखकः = दन्तलेखकः | दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां कथानां लेखकः दन्तलेखकः इति उच्यते | यः तादृशीं कथां लिखित्वा जीवनं चालयति इत्यर्थः | दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् | अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः प्राप्तः आसीत् | अधुना '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण तस्य प्रतिप्रसवः भूत्वा नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते ।

ओदनस्य भोजकः इत्यत्र समासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति षष्ठ्यन्तं पदम्  |

'''तत्पुरुषोऽनञ् कर्मधारयः''' (२.४.१९) = अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते | यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदि एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति | अस्य सूत्रस्य अधिकारः '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) इति सूत्रं पर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् | न नञ्कर्मधार्यः अनञ्कर्मधारयः | तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''तत्पुरुषोऽनञ् कर्मधारयः नपुंसकम् ।'''

इति सामान्यतत्पुरुषसमासः इति विषयः समाप्तः।

Vidhya  March 2020