14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 2,029:
 
 
==== '''<big>इ) द्विगुसमासः</big>''' ====
<big>तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः;  ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् | '''द्विगुश्च''' (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्। अस्य विवरणम् अग्रिमे करपत्रे दीयते |</big>
 
==== '''<big>ई) नञ्प्रभृतयः</big>''' ====
<big>तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |</big>
 
===== <big>१) '''नञ्समासः'''</big> =====
<big>नञ् इति किञ्चन अव्ययम् अस्ति |  तत् सुबन्तेन समासं प्राप्नोति '''नञ्''' (२.२.६) इति सूत्रेण | नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते |  यथा – न धर्मः = अधर्मः |</big>
 
===== <big>२) '''कुसमासः,''' ३) '''गतिसमासः,''' ४) '''प्रादिसमासः च'''</big> =====
<big>एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते | '''कुगतिप्रादयः''' (२.२.१८) इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>
 
<big>कुमासः = कुशब्दः सुबन्तेन नित्यं समस्यते | यथा – कुत्सितः पुरुषः = कुपुरुषः |</big>
 
<big>गतिसमासः = गतिसंज्ञायुक्तं पदं सुबन्तेन समस्यते | यथा –  अशुक्लं शुक्लं कृत्वा = शुक्लीकृत्य |</big>
 
<big>प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |</big>
 
===== <big>५) '''उपपदसमासः'''</big> =====
<big>उपपदं सुबन्तं सुबन्तेन समस्यते | यथा – कुम्भं करोति इति = कुम्भकारः |</big>
 
<big>अस्मिन् करपत्रे एतेषु तत्पुरुषसमासेषु सामान्यतत्पुरुषसमासस्य विषये सूत्रसहितं विवरणं पठामः | अग्रे अन्येषां विषये सूत्रसहितं विवरणं पठिष्यामः |</big>
 
 
==== '''<big>तत्पुरुषसमासस्य पञ्च उपाङ्गानि</big>''' ====
<big>तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big>
 
 
 
===== <big>१)     '''प्रातिपदिकसंज्ञा'''</big> =====
<big>समासस्य विधानं भवति केनचित् तत्पुरुषसमास-सम्बद्धसूत्रेण | तत्पश्चात् समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | यथा अव्ययीभावसमासे अस्माभिः प्रक्रिया अधीता तथैव तत्पुरुषसमासस्य विषये अपि चिन्तनीयम्।</big>
 
 
 
===== <big>२)   '''पूर्वनिपातः'''</big> =====
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण तत्पुरुषसमासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण  |</big>
 
 
 
===== <big>३)     '''तत्पुरुषसमासस्य लिङ्गम्'''</big> =====
<big>तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य | तदर्थं सूत्रम् अस्ति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति |</big>
 
<big>'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते | '''स नपुंसकम्''' ( २ -४ -१७) इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते  ग्रहणम् अस्मिन् सूत्रे | द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वत्त्पुरुषौ, तयोर्द्वन्द्वतत्पुरुषयोः | परवत् अव्ययं, लिङ्गं प्रथमान्तं, द्वन्द्वतत्पुरुषयोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— '''द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम्''' ।</big>
 
 
 
<big>यथा —</big>
 
<big>सीतायाः पतिः = सीतापतिः इति षष्ठीतत्पुरुषसमासः  | अस्मिन् समासे उत्तरपदम् अस्ति पतिः इति, तस्य लिङ्गम् अस्ति पुंलिङ्गम्, अतः समस्तपदस्य लिङ्गम् अपि पुंलिङ्गम् एव भवति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण | अनेन कारणेन सीतापतिः इति तत्पुरुषसमासः पुंलिङ्गे सिद्ध्यति।</big>
 
 
 
<big>एवमेव  इतरेतरयोगद्वन्द्वसमासे अपि समासस्य लिङ्गम् उत्तरपदम् आश्रित्य भवति  -</big>
 
 
 
<big>कुक्क्टश्च मयूरी च = कुक्कुटमयूर्यौ | उत्तरपदं स्त्रीलिङ्गे  इत्यतः समस्तपदम् अपि स्त्रीलिङ्गे भवति |</big>
 
<big>मयूरी च कुक्कुटश्च = मयूरीकुक्कुटौ  | उत्तरपदं पुंलिङ्गे इत्यतः समस्तपदम् अपि पुंलिङ्गे भवति |</big>
 
 
 
===== <big>४)    '''समासान्तप्रत्ययाः'''</big> =====
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति  | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति  | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः ।</big>
<big>'''तद्धिताः''' (४.१.७६) = अधिकारसूत्रम् इदम् | अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम्  | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति  | सूत्रं स्वयं सम्पूर्णम् ।</big>
 
<big>'''तद्धिताः''' (४.१.७६) = अधिकारसूत्रम् इदम् | अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम्  | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति  | सूत्रं स्वयं सम्पूर्णम् ।</big>
 
<big>'''समासान्ताः''' (५.४.६८) = एतत् अधिकारसूत्रम् अस्ति  | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते  | अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम्  | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम्  |</big>
 
<big>तत्पुरुषसमासस्य प्रसङ्गे एते समासान्ताः विधीयन्ते | अत्र सारांशरूपेण विवरणं दीयते | अग्रे एतेषाम् अध्ययनं भविष्यति |</big>
 
{| class="wikitable mw-collapsible"
|'''<big>सूत्रक्रमाङ्कः</big>'''
|'''<big>सूत्रं</big>'''
|'''<big>समासान्तप्रत्ययः</big>'''
|'''<big>समासप्रकारः</big>'''
|-
| rowspan="2" |<big><nowiki>5|4|68</nowiki></big>
| rowspan="2" |<big>समासान्ताः</big>
|<big>समासान्त-</big>
| rowspan="2" |
|-
|<big>अधिकारसूत्रम्</big>
|-
| rowspan="2" |<big><nowiki>5|4|86</nowiki></big>
|<big>तत्पुरुषस्याङ्गुलेः</big>
| rowspan="2" |<big>अच्</big>
| rowspan="2" |<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
| <big>संख्याव्ययादेः</big>
|-
| rowspan="2" |<big><nowiki>5|4|87</nowiki></big>
|<big>अहस्सर्वैकदेशसंख्यातपुण्याच्च</big>
| rowspan="2" |<big>अच्</big>
| rowspan="2" |<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
| <big>रात्रेः</big>
|-
|<big><nowiki>5|4|88</nowiki></big>
|<big>अह्नोऽह्न एतेभ्यः</big>
|<big>प्रकृत्यादेशः</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|89</nowiki></big>
|<big>न संख्यादेः समाहारे</big>
|<big>प्रकृत्यादेशनिषेधः</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|90</nowiki></big>
|<big>उत्तमैकाभ्यां च</big>
|<big>प्रकृत्यादेशनिषेधः</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|91</nowiki></big>
|<big>राजाहस्सखिभ्यष्टच्‌</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|92</nowiki></big>
|<big>गोरतद्धितलुकि</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|93</nowiki></big>
|<big>अग्राख्यायामुरसः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
| rowspan="2" |<big><nowiki>5|4|94</nowiki></big>
|<big>अनोऽश्मायस्सरसाम्</big>
| rowspan="2" |<big>टच्</big>
| rowspan="2" |<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
| <big>जातिसंज्ञयोः</big>
|-
|<big><nowiki>5|4|95</nowiki></big>
|<big>ग्रामकौटाभ्यां च तक्ष्णः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|96</nowiki></big>
|<big>अतेः शुनः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|97</nowiki></big>
|<big>उपमानादप्राणिषु</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|98</nowiki></big>
|<big>उत्तरमृगपूर्वाच्च सक्थ्नः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|99</nowiki></big>
|<big>नावो द्विगोः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|100</nowiki></big>
|<big>अर्धाच्च</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|101</nowiki></big>
|<big>खार्याः प्राचाम्</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|102</nowiki></big>
|<big>द्वित्रिभ्यामञ्जलेः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|103</nowiki></big>
|<big>अनसन्तान्नपुंसकाच्छन्दसि</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|104</nowiki></big>
|<big>ब्रह्मणो जानपदाख्यायाम्</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|105</nowiki></big>
|<big>कुमहद्भ्यामन्यतरस्याम्‌</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|}
 
 
==== <big>'''तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्रा:'''</big> ====
<big>तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः दीयते</big>
 
===== <big>'''a)     तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः''' ( ५.४.८६)</big> =====
<big>तत्पुरुषसमासे पूर्वपदं सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति , उत्तरपदं च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः विधीयते  | यथा – द्वे अङ्गुली प्रमाणम् अस्य = द्व्यङ्गुलम्।</big>
 
===== <big>'''b)    अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७)</big> =====
<big>तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः,  संख्यावाचकः शब्दः, अथवा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  | यथा - अहश्च रात्रिश्च एतयोः समाहारः = अहोरात्रः  | सर्वरात्रः, पुण्यरात्रः, पूर्वरात्रः इत्यादीनि उदाहरणानि  |</big>
 
===== <big>'''c)    अह्नोऽह्न एतेभ्यः''' (५.४.८८)</big> =====
<big>यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | यथा – सर्वाह्णः, पूर्वाह्णः |</big>
 
===== <big>'''d)    न संख्यादेः समाहारे''' ( ५.४.८९)</big> =====
<big>समाहारद्विगोः विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति | यथा - द्वयोः अह्नोः समाहारः = द्वयहः |</big>
 
===== <big>'''e)     उत्तमैकाभ्यां च''' ( ५.४.९०)</big> =====
<big>'पुण्य' शब्दस्य विषये तथा च 'एक' शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति | यथा - पुण्याहः, एकाहः |</big>
 
===== <big>'''f)      राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१)</big> =====
<big>यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | यथा- महाराजः |</big>
 
===== <big>'''g)    गोरतद्धितलुकि''' ( ५.४.९२)</big> =====
<big>तत्पुरुषसमासे 'गो' इति शब्दः उत्तरपदरूपेण विद्यते, तथा च यत्र तद्धितप्रत्ययस्य लुक् न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते  | यथा - परमगवः |</big>
 
===== <big>'''h)    अग्राख्यायामुरसः''' ( ५.४.९३)</big> =====
<big>तत्पुरुषसमासस्य उत्तरपदरूपेण 'अग्रः' अस्मिन् अर्थे 'उरस्' शब्दः विधीयते चेत्, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति  |यथा – अश्वानाम् उरः = अश्वोरसम् |</big>
 
===== <big>'''i)      अनोऽश्मायस्सरसाम् जातिसंज्ञयोः''' ( ५.४.९४)</big> =====
<big>यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अनस्', 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायां गम्यमानायां 'टच्' इति समासान्तप्रत्ययः भवति | यथा - महान् च असौ अनः च = महानसः |</big>
 
===== <big>'''j)      ग्रामकौटाभ्यां च तक्ष्णः''' ( ५.४.९५)</big> =====
<big>यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - ग्रामस्य तक्षः = ग्रामतक्षः |</big>
 
===== <big>'''k)     अतेः शुनः''' ( ५.४.९६) </big> =====
<big>यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |यथा – अतिक्रान्तः श्वानम् = अतिश्वः |</big>
 
===== <big>'''l)      उपमानादप्राणिषु''' ( ५.४.९७)</big> =====
<big>उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयं प्रत्ययः न विधीयते | यथा - आर्कषः श्वा इव = आकर्षश्वः |</big>
 
===== <big>'''m)  उत्तरमृगपूर्वाच्च सक्थ्नः''' ( ५.४.९८)</big> =====
<big>तत्पुरुषसमासे पूर्वपदम् 'उत्तर', 'मृग', 'पूर्व' एतेषु किञ्चन उत उपमानवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'सक्थिन्' शब्दः अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |यथा – उत्तरं सक्थि (leg) = उत्तरसक्थम् |</big>
 
===== <big>'''n)    नावो द्विगोः''' ( ५.४.९९)</big> =====
<big>यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति  | यथा - पञ्चानां नवां समाहारः = पञ्चनावः |</big>
 
===== <big>'''o)    अर्धाच्च''' ( ५.४.१००)</big> =====
<big>यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं नावः = अर्धनावः |</big>
 
===== <big>'''p)    खार्याः प्राचाम्''' ( ५.४.१०१)</big> =====
<big>यस्मिन् तत्पुरुषसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं खार्याः ( quantity) = अर्धखारः |</big>
 
===== <big>'''q)    द्वित्रिभ्यामञ्जलेः''' ( ५.४.१०२)</big> =====
<big>यस्मिन् द्विगुसमासे पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन 'टच्' इति समासान्तप्रत्ययः भवति  |परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते | यथा - द्व्योः अञ्जल्योः समाहारः = द्वयञ्जलः |</big>
 
===== <big>'''r)      अनसन्तान्नपुंसकाच्छन्दसि''' ( ५.४.१०३)</big> =====
<big>यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते 'अन्' तथा 'असन्' इति विद्यते, तस्मात् नपुँसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति |</big>
 
===== <big>'''s)     ब्रह्मणो जानपदाख्यायाम्''' ( ५.४.१०४)</big> =====
<big>यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा - सुराष्ट्रे ब्रह्मा = सुराष्ट्रब्रह्म |</big>
 
===== <big>'''t)      कुमहद्भ्यामन्यतरस्याम्‌''' ( ५.४.१०५)</big> =====
<big>यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति | यथा - कुत्सितः ब्रह्मा = कुब्रह्मः |</big>
 
==== <big>५)     '''उत्तरपदाधिकारः'''</big> ====
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति |अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३९) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  |</big>
 
 
 
<big>अधुना तत्पुरुषसमासस्य प्रभेदानाम् अध्ययनं भवति –</big>
 
<big><br />अ)   सामान्यतत्पुरुषसमासः; आ) नञ्प्रभृतयः; इ) कर्मधारयसमासः; ई) द्विगुसमासः चेति</big>
 
<big><br /></big>
 
===== '''<big>अ)   सामान्य-तत्पुरुषसमासाः</big>''' =====
<big>द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्यायां प्रथमातत्पुरुषसमासस्य कृते सूत्रं न उक्तम्  | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |</big>
 
====== '''<big>a)     द्वितीयातत्पुरुषसमासः</big>''' ======
<big><br />
द्वितीया-तत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति – २.१.२४ -२.१.२९ पर्यन्तम् | क्रमेण एतेषां सूत्राणां विषये पठिष्यामः।</big>
 
<big>1)     द्वितीयान्तस्य सुबन्तस्य श्रित-अतीत- पतित-गत-अत्यस्त-प्राप्त-आपन्नश्च, एतै पदैः सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति।</big>
 
<big><br />'''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) = द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगतात्यस्त्प्राप्तापन्नास्तैः | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.२२) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः सुब्भिः सह विभाषा तत्परुषः समासः'''  |</big>
 
<big><br />अस्मिन् सूत्रे द्वितीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं द्वितीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति इति अर्थः लभ्यते।</big>
 
<big><br />यथा –</big>
 
<big><br />कृष्णं श्रितः = कृष्णश्रितः | कृष्णश्रितः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखिता अस्ति।</big>
 
<big><br />अलौकिकविग्रहवाक्यं '''→''' कृष्ण + अम् + श्रित + सु '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण कृष्णं इति द्वितीयान्तं सुबन्तं पदं समर्थेन श्रितः इति सुबन्तेन सह समस्यते।</big>
<big>कृष्ण + अम् + श्रित + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।</big>
 
<big>कृष्ण + अम् + श्रित + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।</big>
 
<big>कृष्ण + अम् + श्रित + सु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन |</big>
 
 
<big>कृष्ण + अम् + श्रित + सु '''→''' इत्यस्मिन्‌ अम्, सु इत्यनयोः लुक्‌ → कृष्ण + श्रित'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'कृष्ण' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव |</big>
 
 
<big>कृष्ण + श्रित '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमविभक्तौ यत् पदं निर्दिष्टं  समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४)  |अस्मिन् सूत्रे द्वितीया इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र कृष्ण इति पदं द्वितीयान्तपदस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति।</big>
 
 
<big>कृष्ण + श्रित'''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति श्रित इति, तस्य लिङ्गं पुंलिङ्गे विवक्षितम्, अतः कृष्णश्रित इति समस्तपदस्य लिङ्गं भवति पुंलिङ्गं '''→ कृष्णश्रित + सु → स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रणे सुबुत्पत्तिः भवति  | सु इति प्रत्ययस्य उकारस्य इत्संज्ञा भूत्वा '''तस्य लोपः''' ( १.३.९) इति सूत्रेण तस्य लोपः भवति   | कृष्णश्रितस् → '''सुप्तिङन्तं पदम्‌ (१.४.१४)''' इत्यनेन पदसंज्ञा भवति |</big>
 
<big>कृष्णश्रितस् → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य स्थाने रु-आदेशो भवति | कृष्णश्रितरु इति भवति  | उकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति  | कृष्णश्रितर् इति भवति |</big>
<big>कृष्णश्रितर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति अवसानावस्थायाम्‌, अतः '''कृष्णश्रितः''' इति समस्तपदं सिद्धं प्रथमाविभक्तौ एकवचने  |</big>
 
<big>कृष्णश्रितर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति अवसानावस्थायाम्‌, अतः '''कृष्णश्रितः''' इति समस्तपदं सिद्धं प्रथमाविभक्तौ एकवचने  |</big>
 
<big>एवमेव सर्वासु विभक्तिषु रूपाणि साधयितुं शक्यते | रूपाणि रामवत् भवन्ति  |</big>
 
<big><br /><u>अन्यानि उदाहरणानि -</u></big>
 
<big>नरकं श्रितः = नरकश्रितः , नरकं श्रितः |</big>
 
<big>दुःखम् अतीतः = दुःखातीतः, दुखम् अतीतः | दुःख+अम् +अतीतः +सु इति अलौकिकविग्रहः।</big>
 
<big>कान्तारम् अतीतः (one who is beyond) = कान्तारातितः, कान्तारम् अतीतः |</big>
 
<big>कूपं पतितः = कूपपतितः, कूपं पतितः  | कूपम् + अम् + पतितः + सु इति अलौकिकविग्रहः।</big>
 
<big>पतितः नरकम् =नरकपतितः, पतितः नरकम् |</big>
 
<big>ग्रामं गतः = ग्रामगतः, ग्रामं गतः | ग्रामम् + अम् + गतः + सु इति अलौकिकविग्रहः।</big>
 
<big>तरङ्गम् अत्यस्त: (crossed) = तरङ्गात्यस्तः, तरङ्गम् अत्यस्त: |</big>
 
<big>सुखं प्राप्तः = सुखप्राप्तः, सुखं प्राप्तः | सुखम् + अम् +प्राप्तः + सु इति अलौकिकविग्रहः।</big>
 
<big>सुखम् आपन्नः (प्राप्तः इत्यर्थः) =सुखापन्नः, सुखम् आपन्नः |</big>
 
<big>दुःखम् आपन्नः = दुःखापन्नः, दुःखम् आपन्नः |</big>
 
<big>कष्टम् आपन्नः = कष्टापन्नः, कष्टम् आपन्नः |</big>
 
 
<big>प्रकृतसूत्रे श्रित इति शब्दस्य आदिप्रकृतिः स्वीक्रियते; अर्थात् श्रित इति शब्दस्य तदन्तविधिः न स्वीक्रियते  | यथा कष्टं परमश्रितः इत्यत्र कष्टपरमश्रितः इति समासः न भवति यतोहि परमश्रितः इति पदे श्रितः इति पदं तदन्तविधिः न तु तदादिविधिः | अत्र कष्टं परमश्रितः इति व्यस्तप्रयोगः एव शक्यः |</big>
 
<big><br />'''गम्यादीनाम् उपसङ्ख्यानम्''' इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षु इत्येतैः शब्दैः समस्यते | गमी, गामी इत्यनयोः पदयोः प्रातिपदिकं नकारान्तम् अस्ति -  गमिन्, गामिन् इति |</big>
 
 
<big>ग्रामं गमी = ग्रामगमी ( यः ग्रामः गम्यमानः), ग्रामं गमी  | ग्रामम् + अम् + गमिन् + सु इति अलौकिकविग्रहः।</big>
 
<big>ग्रामं गामी = ग्रामगामी, ग्रामं गामी |  ग्रामगामी, ग्रामगामिनौ, ग्रामगामिनः इति रूपाणि प्रथमाविभक्तौ |</big>
 
<big>अन्नं बुभुक्षुः = अन्नबुभुक्षुः (अन्नं खादितुम् इच्छुकः) = अन्नबुभुक्षुः, अन्नं बुभुक्षुः |</big>
 
<big>मधु पिपासुः = मधुपिपासुः ।</big>
 
<big>गुरुं शुश्रुषुः = गुरुशुश्रुषुः।</big>
 
<big>'''कृत्तद्धितसमासाश्च (१.२.४६) =''' कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |'''</big>
 
<big>'''सुपो धातुप्रातिपदिकयोः (२.४.७१) =''' धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः | सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम् | ण्यक्षत्रियार्षञितो यूनि '''लुगणिञोः ( २.४.५८)''' इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌'''— धातुप्रातिपदिकयोः सुपः लुक् |'''</big>
 
<big>समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति प्रश्नः उदेति ?</big>
 
<big><br />समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयं वर्तते | प्रातिपदिकसंज्ञा अस्ति चेत् एव '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समस्तपदस्य अवयवभूतानां सुप्-प्रत्ययानां  लुक् भवति  | एतत् प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनम् | समस्तपदस्य प्रातिपदिकसंज्ञा अस्ति चेत् एव सुप्-प्रत्ययाः विधीयन्ते '''ङ्याप्प्रातिपदिकात्‌'''  ( ४.१.१) इति सूत्रेण, एतत् एव प्रातिपदिकस्य द्वितीयं प्रयोजनम्  | अपि च यदा हि सुप्-प्रत्ययाः विधीयन्ते तदा एव पदत्वं सिद्ध्यति '''सुप्तिङन्तं पदम्''' (१.४.४१) इति सूत्रेण  | अपदं न प्रयुञ्जीत इति नियमात् लोके पदम् एव प्रयोक्तव्यम्।</big>
 
<big><br /></big>
 
<big><br /></big><big><br /></big>
<big>'''सुप्तिङन्तं पदम्‌ (१.४.१४) =''' सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | तर्हि यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तं; यस्य पदस्य अन्ते तिङ्‌-प्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ | एकविंशतिः सुप्‌-प्रत्ययाः सन्ति; अष्टादश तिङ्‌-प्रत्ययाः सन्ति |</big>
 
<big>'''ससजुषो रुः (८.२.६६)''' = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः |'''</big>
 
<big>'''विरामोऽवसानम्‌ (१.४.११०) =''' वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्‌ |'''</big>
 
<big>'''खरवसानयोर्विसर्जनीयः (८.३.१५) =''' पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |'''</big>
 
 
 
<big>2)     स्वयम् इति अव्ययस्य क्तप्रत्ययान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |</big>
 
<big>'''स्वयं क्तेन''' (२.१.२५) = ‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति परन्तु ‘द्वितीया’ इति न सम्बद्ध्यते अयोग्यत्वात् | अर्थात् '''स्वयम्''' इति पदम् अव्ययम् अस्ति, अतः तस्य विभक्तेः लुक् भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रं वदति अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति इति | अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति | एतस्मात् कारणात्, द्वितीया इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे | यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीयाग्रहणम् अनुवर्तते  | स्वयम् अव्ययम्, क्तेन तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया''' '''स्वयम् सुप् क्तेन सुपा सह विभाषा  तत्परुषः समासः''' |</big>
 
 
<big>अस्मिन् सूत्रे स्वयम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं स्वयम् इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति।</big>
 
<big><br />१) स्वयं कृतः = स्वयङ्कृतः, स्वयं कृतः | स्वयं + कृत + सु इति इति अलौकिकविग्रहः।</big>
 
<big>अस्मिन् प्रसङ्गे एकः प्रश्नः उदेति - यदि अत्र समासः न जायते तदापि सन्धिकार्यं कृत्वा स्वयङ्कृतः इति पदं तु सिद्ध्यति एव तर्हि समासस्य का आवश्यकता?  समासे कृतेऽपि सन्धिः भवति, समासे अकृतेऽपि सन्धिः भवति, उभयत्र रूपं तु समानमेव |</big>
 
 
<big>अस्य प्रश्नस्य समाधानमेवम् अस्ति - यद्यपि स्वयङ्कृतः इत्यत्र भेदः नास्ति तथापि यदि तस्मात् तद्धितप्रत्ययः विहितः भवति तदानीं भेदः भविष्यति | समासे कृते स्वयङ्कृत इति शब्दात् स्वयङ्कृतस्य अपत्यम् ( पुत्रः / पुत्री)  इत्यस्मिन् अर्थे '''तस्यापत्यम्''' (४.१.९२) इत्यस्मिन् अधिकरे '''अत इञ्'''  (४.१.९५) इति सूत्रेण 'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति । अधुना इञ् इति प्रत्ययः विधीयते चेत् तदानीं '''तद्धितेष्वचामादेः''' (७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति |  अतः स्वयङ्कृत इत्यस्य आदिवृद्धिः भूत्वा स्वायङ्कृत+ इ इति भवति  | तत्पश्चात् '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः स्वायङ्कृत् + इ  = स्वायङ्कृतिः इति रूपं निष्पद्यते | यदि स्वयं अपि च कृतः अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति |  केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः स्वयं इति पदेन सह क्रियते चेत् स्वयङ्कार्तिः इति अनिष्टरूपं सिद्धयति । स्वायङ्कृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |</big>
 
<big>२) स्वयं विलीनं ( butter melted by itself) = स्वयंविलीनम् आज्यम् , स्वयं विलीनम् आज्यम् |</big>
 
 
<big>३) स्वयं धौतौ पादौ ( feet washed by himself)  = स्वयंधौतौ पादौ, स्वयं धौतौ पादौ  |</big>
 
 
<big>3) खट्वा इति शब्दस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति निन्दार्थक-विषये | अत्र समासः '''नित्यं''' भवति यतोहि व्यस्तप्रयोगे निन्दा न अवगम्यते | क्षेपे इत्युक्ते निन्दा इत्यर्थः अस्ति |</big>
 
 
 
 
<big>'''खट्वा क्षेपे''' (२.१.२६) = खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषा अधिकारेऽपि '''नित्यसमासः''' एव अयम् | '''अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते''' | खट्वा प्रथमान्तं, क्षेपे सप्तम्यन्तं खट्वाशब्दो द्वितीयान्तः | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्परुषः समासः''' |</big>
 
<big>अस्मिन् सूत्रे खट्वा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं खट्वा इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |</big>
 
<big>१)</big> <big>खट्वारूढो जाल्मः |  जाल्मः = inconsiderate, cruel  | खट्वा + अम् + आरूढ + सु इति अलौकिकविग्रहः अस्ति | अयं समासः नित्यसमासः अतः व्यस्तप्रयोगः न शक्यते | खट्वारूढो जाल्मः इति वाक्यस्य अर्थः एवम् अस्ति -  यः ब्रह्मचारी नियमस्य उल्लङ्घनं कृत्वा गृहस्थाश्रमं प्रविष्टवान्  इति | अर्थात् ब्रह्मचर्यव्रतस्य पालनं कृत्वा वेदादिकम् अधीत्य तत्पश्चात् स्नातकव्रतसंस्कारादिकं प्राप्य गुरु-आज्ञानुरोधेन गृहस्थाश्रमः प्रवेष्टव्यः, तदानीं तादृशस्य खट्वाम् आरूढः इति नियमः  | परन्तु  कोपि नियमस्य उल्लङ्घनं करोति तर्हि सः खट्वारूढः जाल्मः इति उच्यते | अर्थात् दुष्टः उपविष्टः खट्वायाम् इत्यर्थः | अस्मिन् वाक्ये निन्दार्थः प्रतीयते | अतः '''खट्वा क्षेपे''' (२.१.२६) इति सूत्रेण समासः विहितः अस्ति | अयं समासः नित्यः यतोहि खट्वाम् आरूढः इति वाक्येन निन्दार्थः न अवगम्यते  | समासानन्तरं खट्वारूढः इति पदेन निन्दायाः बोधः भवति  |  खट्वाम् आरूढो बालः, गृहस्थो वा इति वाक्ये निन्दा न प्रतीयते  | अतः एव समासः नित्यः इति मन्तव्यम्  |</big>
 
<big>२)</big> <big>खट्वाप्लुतः (यः कुमार्गं गच्छति)।</big>
 
 
 
<big>4) सामि इति अव्ययस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति | सामि इति अव्ययम् अर्धशब्दस्य पर्यायः अस्ति |</big>
 
<big><br />'''सामि''' (२.१.२७) = सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् |सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति परन्तु अस्मिन् सूत्रे विधीयमानः समासः नित्यः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''सामि सुप् क्तेन सुपा सह द्वितीया  तत्परुषः समासः विभाषा।'''</big>
 
<big>उदा</big>
 
<big>१)</big> <big>सामि कृतं = सामिकृतम्, सामि कृतम्  | अत्र समासः भवति न वा रूपं समानम् एव अस्ति तर्हि समासस्य का आवश्यकता अस्ति इति प्रश्नः उदेति  | यथा पूर्वं समाहितं '''स्वयं क्तेन''' ( २.१.२५) इति सूत्रे तथैव अत्रापि समाधास्यते |  सामिकृतम् इत्यस्य रूपभेदः नास्ति तथापि तद्धितप्रत्ययस्य विषये रूपभेदः भविष्यति | सामिकृत इति प्रातिपदिकात् अपत्यार्थे इञ् इति तद्धितप्रत्ययः विधीयते चेत् सामिकृतिः इति पदं निष्पन्नं भवति  | समासः न भवति चेत् सामि, कृतम् च भिन्ने पदे स्तः अतः तद्धितप्रत्ययः न विधीयते | केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः सामि इति पदेन सह क्रियते चेत् सामिकार्तिः इति अनिष्टरूपं सिद्धयति । सामिकृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |</big>
 
<big><br />२) सामि पीतं = सामिपीतम्।</big>
 
 
 
<big>5)     कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |</big>
 
<big><br />'''कालाः''' (२.१.२८) = कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः''' |</big>
 
<big><br />अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति।</big>
 
 
<big>अयं समासः क्तप्रत्ययान्तेन सह एव भवति | '''अनत्यन्तसंयोगार्थं वचनम्''' |  अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम् | अग्रिमसूत्रम् अस्ति '''अत्यन्तसंयोगे च''' ( २.१.२९) इति | प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना | किमर्थम् इति चेत् ज्ञापनार्थं यत् अत्यन्तसंयोगः नास्ति चेत् कालवाची शब्दः क्तप्रत्ययान्तेन सह समस्यते इति निर्देशार्थम् |  <br /></big>
 
 
 
 
 
<big>यथा –</big>
 
<big>१) मासं प्रमितः (measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः | प्रतिपच्चन्द्रः  = moon on the first day | मासं प्रमातुम् आरब्धः इति  | मासस्य एकदेशस्य प्रतिपदश्चन्द्रमसा योगं दर्शयन् मासस्य चन्द्रमसा सह न अत्यन्तसंयोगः | काल्स्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः एव अत्यन्तसंयोगः | न च प्रतिपच्चन्द्रमा मासस्य इह व्याप्तिः | इह प्रतिपच्चन्द्रेण मासस्य न अत्यन्तसंयोगः अस्ति |  संयोगः अस्ति परन्तु अत्यन्तसंयोगः नास्ति |  </big>
 
 
<big>मास + अम् + प्रमित + सु इति अलौकिकविग्रहः |</big>
 
 
<big>२) अहः अतिसृताः मुहूर्ताः  |  दिने ये मुहूर्ताः आगच्छन्ति  |  अहर् + अम् +अतिसृत + जस् इति अलौकिकविग्रहवाक्यम्  |</big>
{| class="wikitable"
|'''<big>विभक्तिः</big>'''
|'''<big>एकवचनं</big>'''
|'''<big>द्विवचनं</big>'''
|'''<big>बहुवचनम्</big>'''
|-
|'''<big>प्रथमा</big>'''
|<big>अहः    </big>
|<big>अह्नी/ अहनी</big>
|<big>अहानि</big>
|-
|'''<big>सम्बोधना</big>'''
|<big>अह / अहः    </big>
|<big>अह्नी/ अहनी</big>
|<big>अहानि</big>
|-
|'''<big>द्वितीया</big>'''
|<big>अहः</big>
|<big>अह्नी/अहनी</big>
|<big>अहानि</big>
|-
|'''<big>तृतीया</big>'''
|<big>अह्ना</big>
|<big>अहोभ्याम्</big>
|<big>अहोभिः</big>
|-
|'''<big>चतुर्थी</big>'''
|<big>अह्ने</big>
|<big>अहोभ्याम्</big>
|<big>अहोभ्यः</big>
|-
|'''<big>पञ्चमी</big>'''
|<big>अहः</big>
|<big>अहोभ्याम्</big>
|<big>अहोभ्यः</big>
|-
|'''<big>षष्ठी</big>'''
|<big>अहः</big>
|<big>अह्नोः</big>
|<big>अह्नाम्</big>
|-
|'''<big>सप्तमी</big>'''
|<big>अह्नि/ अहनि</big>
|<big>अह्नोः</big>
|<big>अहःसु/अहस्सु</big>      
|}
 
 
<big>३) रात्रिम् अतिसृताः मुहूर्ताः  |  रात्रौ ये मुहूर्ताः आगच्छन्ति  |</big>
 
 
<big>ज्योतिषशास्त्रस्य अनुरोधेन षड् मुहूर्ताः सन्ति ये यदा सूर्यः उत्तरायणे अस्ति तदा ते आयान्ति |  यदि सूर्यः दक्षिणायने अस्ति तदा ते रात्रौ आयान्ति  | एतेषां षण्णां मुहूर्तानां रात्र्या, दिनेन सह संयोगः नास्ति  |</big>
 
 
<big>6)     कालवाचिनः द्वितीयान्त-शब्दस्य अत्यन्तसंयोगे सुबन्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति |</big>
 
 
<big>'''अत्यन्तसंयोगे च''' (२.१.२९) = कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्परुषः समासः ।'''</big>
 
<big>अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति।</big>
 
<big><br />यथा—</big>
 
<big>मुहूर्तं सुखं = मुहूर्तसुखम् | द्विक्षणात्मकं सुखम् | मुहूर्त + अम् + सुख + सु इति अलौकिकविग्रहः | व्यस्तप्रयोगे मुहूर्तं इत्यस्य द्वितीया विभक्तिः भवति '''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रेण | '''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रं वदति यत् कालशब्देभ्यो अध्वशब्देभ्यश्च द्वितीया विभक्तिः भवति अत्यन्तसंयोगे गम्यमाने।</big>
 
 
 
====== '''<big>b)    तृतीयातत्पुरुषसमासः</big>''' ======
<big>तृतीयातत्पुरुषसमाससम्बद्धसूत्राणि (२.१.३० - २.१३५) पर्यन्तं षट् सूत्राणि सन्ति | क्रमेण अवलोकयाम।</big>
 
<big><br />तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह विकल्पेन समस्यते  | तृतीया तत्कृतेन गुणवचनेन समस्यते | तृतीया तत्कृतेन अर्थेन समस्यते ।</big>
 
<big>1)     तृतीयान्त-सुबन्तस्य गुणवचनेन, अर्थ इति शब्देन च सह तृतीयातत्पुरुषसमासः भवति | अर्थात् तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह विकल्पेन समस्यते  | तृतीया तत्कृतेन गुणवचनेन समस्यते | तृतीया तत्कृतेन अर्थेन समस्यते  |</big>
 
<big><br />'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) = तृतीयान्तं  तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन सह समस्यते | तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाची प्रातिपदिकेन सह  एवञ्च अर्थ-शब्देन सह समस्यते  | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | तृतीया प्रथमान्तं, तत्कृत इति लुप्ततृतीयाकम्; अर्थेन तृतीयान्तं, गुणवचनेन तृतीयान्तम्, अनेकपदमिदम् सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्परुषः समासः।'''</big>
 
<big><br />अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् |अस्य सूत्रस्य अर्थद्वयं वर्तते –</big>
 
<big>१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते |</big>
 
<big>२)     तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते  |</big>
 
<big><br />१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति |</big>
 
<big><br />तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते इति उक्तं, तर्हि गुणवचनं नाम किम् इति अवगन्तव्यम्।</big>
 
<big>गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | गुणः यस्मिन् द्रव्ये अस्ति तद् बोधकः शब्दः गुणवचनः इति उच्यते  | यथा मृदुत्वम् इति गुणः अस्ति | मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते | मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते तादृशवस्तु गुणवचनम् इति उच्यते  |अस्मिन् सूत्रे गुणः इत्यनेन न केवलं गुणः, क्रिया अपि तस्मिन् अन्तर्भूतः | पचनम् इति ल्युडन्तः शब्दः अस्ति | पचनम् इति शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवचनः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति कथ्यन्ते।</big>
 
<big><br />मृदुत्वम् = गुणः, मृदु (पुष्पं) – गुणवचनम्</big>
 
<big>पचनं = क्रिया, पाचकः = गुणवचनम्</big>
 
<big>कश्चित् गुणवचनशब्दः अस्ति तस्य गुणस्य उत्पादने हेतुः तृतीयान्तशब्देन उच्यते  | यथा शङ्कुलया खण्डः | खण्डः नाम खण्डनक्रियां प्राप्तः कश्चित् | शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणम् | खण्डनक्रिया यस्मिन् सः खण्डः | खण्डशब्दः गुणवचनः  | खण्डनक्रिया इति यः गुणः, तस्य हेतुः  शङ्कुला | शङ्कुलया कृता खण्डनक्रिया यस्मिन् अस्ति सः शङ्कुलाखण्डः |</big>
 
<big><br />शङ्कुलया खण्डः = शङ्कुलाखण्डः  | तत्कृतार्थेन गुणवचनेन इत्यस्य एतत् उदाहरणम् अस्ति।</big>
 
<big>खण्डनक्रिया अस्य अस्ति इति खण्डः | खण्डः इति शब्दः गुणवचनः |</big>
 
<big>खण्डनक्रिया तत्कृता = शङ्कुला कृता।</big>
 
<big>अत्र शङ्कुलया इति तृतीयान्तं पदम् अस्ति | शङ्कुला इत्युक्ते छूरिका इति | छुरिकायाः गुणवाचकशब्दः अस्ति खण्डः इति | छुरिकायाः प्रयोगः अस्माभिः क्रियते खण्डनार्थम् | खण्डनं भवति छुरिकायाः कारणेन अतः अत्र तृतीयातत्पुरुषसमासः भवति '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रेण | शङ्कुलया खण्डः इत्यस्य अर्थः अस्ति यत् वस्तु छुरिकया छिन्नं जातम् इति  | अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति |अत्र प्रक्रिया चिन्तनीया | शङ्कुला+टा +खण्ड+सु इति अलौकिकविग्रहः।</big>
 
 
<big>अन्यत् उदाहरणम् –</big>
 
<big>पङ्केन कलुषम् = पङ्ककलुषम्।</big>
 
<big>कुसुमेन सुरभिः = कुसुमसुरभिः |सुरभिगन्धः कुसुमेन उत्पद्यते।</big>
 
<big>किरिणा काणः – किरिकाणः  | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति गुणः | काणः = अन्धः, गुणवचनः | काणत्वे करणं किरिः (वराहः) |</big>
 
 
 
<big>२) तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते | इदानीम् अर्थशब्देन सह समस्तपदस्य उदाहरणं पश्यामः | अर्थशब्दस्य बहवः अर्थाः सन्ति | अत्र अर्थशब्दस्य धनम् इति अर्थः अस्ति | अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति | पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं धनवाचिशब्दः भवति |</big>
 
 
<big>धान्येन अर्थः = धान्यार्थः | धान्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः | अत्र '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यनेन समासः भवति | तृतीयान्तं सुबन्तं धान्येन इति पदम् अस्ति, तस्य अर्थः इति शब्देन सह समासः भवति | अत्र प्रक्रिया चिन्तनीया।</big>
 
<big>अन्यानि उदाहरणानि –</big>
 
<big>विद्यया अर्थः = विद्यार्थः;</big>
 
<big>पुण्येन अर्थः = पुण्यार्थः</big>
 
<big>हिरण्येन अर्थः = हिरण्यार्थः</big>
 
<big>फलेन अर्थः = फलार्थः</big>
 
<big>गृहेन अर्थः – गृहार्थः</big>
 
<big>धनेन अर्थः = धनार्थः</big>
 
<big>चौर्येण अर्थः = चौर्यार्थः</big>
 
<big>अक्षणा काणः(blindness) '''→''' अत्र तृतीयातत्पुरुषसमासः न सम्भवति यतोहि काणः अक्षणा न उत्पन्नः।</big>
 
 
 
<big>2)     तृतीयान्तस्य सुबन्तस्य पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह तृतीयातत्पुरुषसमासः भवति |</big>
 
 
<big>'''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) = तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह समस्यते, तत्पुरुषश्च समसो भवति | ऊनार्थोयस्य स उनार्थः, बहुव्रीहि; पूर्वश्च सदृशश्च समश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्ष्णशच तेषामितरेतर्योगद्वन्द्वः पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णास्तैः | र्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः तृतीयान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने उच्यते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह  विभाषा  तत्पुरुषः समासः''' '''।'''</big>
 
<big><br />अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
 
 
<big>उदाहरणानि—</big>
 
<big>पूर्वः '''→''' मासेन पूर्वः =मासपूर्वः | मास + टा + पूर्व + सु इति अलौकिकविग्रहः | संवत्सरेण पूर्वः = संवत्सरपूर्वः |</big>
 
<big>सदृश '''→''' मात्रा सदृशः = मातृसदृशः | मातृ + टा+ सदृश + सु इति अलौकिकविग्रहः | पित्रा सदृशः = पितृसदृशः |</big>
 
<big>सम '''→''' मात्रा समः = मातृसमः |</big>
 
<big>ऊनार्थ '''→''' माषेण ऊनम् = माषोनम्  | ऊनम् इत्युक्ते न्यूनम् इत्यर्थः | माषेण विकलम् = माषविकलम् | विकलम् इति शब्दः ऊनार्थे अस्ति |</big>
 
<big>कलह '''→''' वाचा कलहः = वाक्कलहः |</big>
 
<big>निपुण '''→''' वाचा निपुणः = वाङ्निपुणः | आचरेण निपुणः = आचारनिपुणः |</big>
 
<big>मिश्र '''→''' गुडेन मिश्रः = गुडमिश्रः | तिलेन मिश्रः = तिलमिश्रः |</big>
 
<big>श्लक्ष्ण '''→''' आचारेण श्लक्ष्णः =आचारश्लक्ष्णः |</big>
 
 
 
 
 
<big>'''मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात्''' इति वार्तिकम् | अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति | अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति | अस्य प्रमाणं '''मिश्रं चानुपसर्गमसंधौ''' (६.२.१५४) इति सूत्रमेव | उक्तसूत्रे यदि पाणिनिना उपसर्गयुक्तेन मिश्रशब्देन सह समासः न इष्टः तर्हि उत्तरपदे उपसर्गयुक्तस्य मिश्र-शब्दस्य प्रयोगः एव न क्रियते | इदं सूत्रमेव ज्ञापकम् अस्ति यत् मिश्रशब्दस्य द्वारा उपसर्गयुक्तस्य मिश्रशब्दस्य अपि ग्रहणम् इति |</big>
 
<big><br />गुडेन सम्मिश्रः = गुडसम्मिश्रः | गुड + टा + सम्मिश्र + सु इति अलौकिकविग्रहः।</big>
 
<big><br />प्रकृतसूत्रे ऊन इति शब्दः उक्तः, तेन सह प्रयुक्तानां समानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति।</big>
 
<big><br />'''अवरस्योपसङ्ख्यानम्''' इति वार्तिकम् अस्ति | अस्य अर्थः एवम् अस्ति – तृतीयान्तं समर्थं सुबन्तं अवर-प्रकृतिक-सुबन्तेन सह समस्यते | अस्मिन् वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अनेन वार्तिकेन मासेन अवरः = मासावरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः इति तृतीयातत्पुरुषसमासः भवति  |</big>  
 
 
 
<big>3)     कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>
 
<big><br />'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) = कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीया विभक्तिः करणे वा या तृतीया विभक्ति सा कृदन्तेन बहुलं समस्यते |</big>
 
 
<big>कर्ता च करणञ्च तयोः समाहारद्वन्द्वः कर्तृकरणं, तस्मिन् कर्तृकर्णे | कर्तृकरणे सप्तम्यन्तं, कृता तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणं अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्परुषः समासः।'''</big>
 
<big><br />भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेन सूत्रे कृत् इति शब्देन केवलं क्त-प्रत्ययस्यैव ग्रहणं करोति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |</big>
 
<big><br />बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति –</big>
 
<big><br />क्वचित्प्रवृत्तिः, क्वचितदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव |</big>
 
<big><br />अत्र बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यं इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः अस्ति (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य विकल्पेन इत्यर्थः स्वीक्रियते |</big>
 
 
 
 
 
<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />रामेण बाणेन हतो वाली  | अस्मिन् वाक्ये '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तृपदस्य करणस्य च तृतीया भवति  |</big>
 
<big><br />रामेण हतः = रामहतः  | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम + टा + हत + सु इति अलौकिकविग्रहवाक्यम् | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः ।</big>
 
<big><br />बाणेन हतः = बाणहतः | करणे तृतीयायाः कृदन्तेन सह समासः ।</big>
 
<big>हरिणा त्रातः = हरित्रातः | त्राणक्रियायां हरिः कर्ता ।</big>
 
<big>नखैः भिन्नः = नखभिन्नः | भेदनक्रियायां नखाः करणम् |</big>
 
<big><br />अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' | नखैर्निभिन्नः।परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते |</big>
 
<big><br />गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इति।</big>
 
<big><br />नखैः निर्भिन्नः  = नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण  | नख + भिस्  + निर् + भिन्न + सु इति अलौकिकविग्रहवाक्यम् |</big>
 
<big><br />भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखैर्निर्भिन्नः इति समासः भवति | अत्रापि तृतीयातत्पुरुषसमासः भवति '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषायाः साहाय्येन  |</big>
 
 
 
<big>बहुलं ग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र |</big>
 
<big>दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः भवति |</big>
 
<big><br /></big>
 
<big>4)     कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति स्तुतिविषये नो चेत् निन्दार्थकविषये |</big>
 
 
<big>'''कृत्यैरधिकार्थवचने''' (२.१.३३) =  कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः | एते कृत्प्रत्ययाः सन्ति | '''तव्यत्तव्यानीयरः''' (३.१.१६) इत्यस्मात् सूत्रात् आरभ्य '''ण्वुल्तृचौ''' ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति |  अधिकः= अध्यारोपितोऽर्थ:= अधिकार्थः तस्य वचनम् अधिकार्थवचनं, तस्मिन् अधिकार्थवचने, षष्ठीतत्पुरुषः | कृत्यैः तृतीयान्तम् अधिकार्थवचने सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इत्यस्मात् सूत्रात् कर्तृकरणे इत्यस्य अनुवृत्तिः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह अधिकार्थवचने विभाषा तत्परुषः समासः।'''</big>
 
<big><br />अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये, किमपि अधिकं वदनम् अधिकार्थवचनम् इति उच्यते |</big>
 
<big><br />अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />यथा—</big>
 
<big>वातेन छेद्यं तृणम् = वातच्छेद्यम् | वायुना तृणम् उच्छिद्यते | अत्र तृणस्य अन्यन्तकोमलतां वक्तुम् अधिकार्थवचनम् अस्ति | वातच्छेद्यम् इति समासे  स्तुतिः, निन्दा, द्वयोः अर्थयोः उदाहरणम् अस्ति | अर्थात् तृणस्य तादृशकोमलता अस्ति येन वायुना सुलभेन उच्छिद्यते | अत्र स्तुतेः उदाहरणम् अस्ति | तृणस्य कोमलतायाः कारणेन सर्गमात्रेण तृणम् उच्छिद्यते | अत्र निन्दायाः उदाहरणम् अस्ति | वात + टा + छेद्य + सु इति अलौकिकविग्रहः | छिद्-धातुतः कृत्यसंज्ञकः ण्यत्-प्रत्यय विधीयते चेत् छेद्य इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति | समासे '''छे च''' (६.१.७२) इति सूत्रेण ह्रस्वस्य तुगामः भवेति छे परे | तदनन्तं '''स्तोः श्चुनाः श्चुः''' (८.४.४०) इति सूत्रेण श्चुत्वं भवति | अतः वातच्छेद्यम् इति समासः भवति '''कृत्यैरधिकार्थवचने''' (२.१.३३) इति सूत्रेण |</big>
 
 
<big>काकपेया नदी= काकैः पेया  | तादृशी नदी यस्यां जलमेव नास्ति अथवा जलं न्यूनम् अस्ति | अत्र स्तुतिः, निन्दा च द्वयोः अर्थः अस्ति | काक + भिस् + पेया + सु  इति अलौकिकविहग्रहः | पा-धातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति |</big>
 
<big><br />'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |</big>
 
<big><br />अत्र काशिकारस्य मतेन कृत्य-प्रत्ययेन द्वारा अत्र केवलं यत्, ण्यत् प्रत्ययोः एव ग्रहणम् न तु तव्यदादिनाम्। कृत्यग्रहणे यण्नयतोर्गहणं कर्तव्यम् |अतः काकिः पातव्या इत्यादिषु समासः न भवति |</big>
 
 
 
<big>5)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>
 
 
<big>'''अन्नेन व्यञ्जनम्''' (२.१.३४) =  व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति | अन्नं स्वादुं कर्तुम् उपयोगी व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | अन्नेन तृतीयान्तं, व्यञ्जनं प्रथमान्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह  विभाषा तत्परुषः समासः।'''</big>
 
<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />स्वादिष्टान्नस्य करणार्थं सस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति | सस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः |</big>
 
<big>यथा –</big>
 
<big><br />दध्ना ओदनः = दध्योदनः | दधि + टा + ओदन + सु इति अलौकिकविग्रहः  | '''अन्नेन व्यञ्जनम्''' (२.१.३४) इति सूत्रेण तृतीयातत्पुरुषसमासः क्रियते | अत्र इको यणचि इति सूत्रेण यण्-सन्धिः क्रियते।</big>
 
<big><br /></big>
Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu