14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 24:
=== '''<big>पञ्च उपाङ्गानि</big>''' ===
 
<big>समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |  इमानि पञ्च उपाङ्गनि सन्ति—</big><blockquote>
 
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
 
<big>१) '''प्रातिपदिकसंज्ञा''' = समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति  | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |</big></blockquote>
 
 
==== <big>२) '''पूर्वनिपातः'''</big> ====
 
==== <big>२) '''पूर्वनिपातः'''</big> ====
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
 
Line 56 ⟶ 59:
 
==== <big>'''तत्पुरुषः''' (२.१.२२)</big> ====
<big>तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | अस्मिन् अधिकारे सप्ततिः सूत्राणि सन्ति | तत्पुरुषः प्रथमान्तं, एकपदमिदं सूत्रम् | '''सूत्रं स्वयं सम्पूर्णम्''' |</big>
 
<big>तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— '''१) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति |''' अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः | अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति | अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः |</big>
 
 
=== '''<big>अ)   सामान्यतत्पुरुषसमास:</big>''' ===
<big>सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तिनां प्रयोगः भवति |</big>
 
<big>सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –</big>
 
<big>१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः ;</big>
 
<big>२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः ;</big>
 
<big>३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु ;</big>
 
<big>४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम् ;</big>
 
<big>५) सप्तमी-तत्पुरुषसमासः,  यथा - कर्मणि कुशलः = कर्मकुशलः ;</big>
 
<big>६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |</big>
 
<big>यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्यायां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते,  सः एव  व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति  | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |</big>
 
=== '''<big>आ) कर्मधारयसमासः</big>''' ===
<big>तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति | कर्मधारयसमासे विशेषण-विशेष्योः समासः भवति | विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया |कर्मधारयसमासस्य नवप्रभेदाः सन्ति – १) विशेषण-पूर्वपद-कर्मधारयः, २) विशेषणोत्तरपद -कर्मधारयः, ३) विशेषणोभयपद-कर्मधारयः ४) उपमान-पूर्वपद-कर्मधारयः, ५) उपमानोत्तरपद-कर्मधारयः, ६) अवधारण-पूर्वपद-कर्मधारयः, ७) सम्भावना-पूर्वपद-कर्मधारयः, ८) मध्यमपद-लोप-कर्मधारयः, ९) मयूरव्यंसकादयः चेति | यः कोपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति |  कर्मधारयः इति संज्ञा दीयते '''तत्पुरुषः सामानाधिकरणः कर्मधारयः''' ( १.२.४२) इति सूत्रेण |  अस्य विवरणम् अग्रिमे करपत्रे दीयते |</big>
 
=== '''<big>इ)     द्विगुसमासः</big>''' ===
<big>तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः;  ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् | '''द्विगुश्च''' (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्। अस्य विवरणम् अग्रिमे करपत्रे दीयते |</big>
 
==== '''<big>ई)     नञ्प्रभृतयः</big>''' ====
<big>तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |</big>
 
 
'''<big>ई)     नञ्प्रभृतयः</big>'''
 
<big>तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |</big>
 
 
<big>१) '''नञ्समासः''' = नञ् इति किञ्चन अव्ययम् अस्ति |  तत् सुबन्तेन समासं प्राप्नोति '''नञ्''' (२.२.६) इति सूत्रेण | नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते |  यथा – न धर्मः = अधर्मः |</big>
 
 
<big>२) '''कुसमासः,''' ३) '''गतिसमासः,''' ४) '''प्रादिसमासः च''' = एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते | '''कुगतिप्रादयः''' (२.२.१८) इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>
 
<big>कुमासः = कुशब्दः सुबन्तेन नित्यं समस्यते | यथा – कुत्सितः पुरुषः = कुपुरुषः |</big>
 
<big>गतिसमासः = गतिसंज्ञायुक्तं पदं सुबन्तेन समस्यते | यथा –  अशुक्लं शुक्लं कृत्वा = शुक्लीकृत्य |</big>
 
<big>प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |</big>
 
 
<big>५) '''उपपदसमासः'''</big>
 
<big>उपपदं सुबन्तं सुबन्तेन समस्यते | यथा – कुम्भं करोति इति = कुम्भकारः |</big>
 
<big>अस्मिन् करपत्रे एतेषु तत्पुरुषसमासेषु सामान्यतत्पुरुषसमासस्य विषये सूत्रसहितं विवरणं पठामः | अग्रे अन्येषां विषये सूत्रसहितं विवरणं पठिष्यामः |</big>
 
<big>तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big>