14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 24:
=== '''<big>पञ्च उपाङ्गानि</big>''' ===
 
<big>समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |  इमानि पञ्च उपाङ्गनि सन्ति—</big><blockquote>
 
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति  | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |</big> </blockquote>
 
==== <big>२) '''पूर्वनिपातः'''</big> ====
Line 40 ⟶ 39:
==== <big>५)  '''उत्तरपदाधिकारः'''</big> ====
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमेव मित्रम् यस्य इति बहुव्रीहिसमासे पूर्वपदस्य स्वरस्य दीर्घत्वं भवति '''मित्रे चर्षौ''' ( ६.३.१३०) इति सूत्रेण मित्रशब्दे परे विश्वस्य दीर्घः स्यात् ऋषौ वाच्ये इत्यर्थः, अतः विश्वामित्रः इति समासः सिद्ध्यति |</big>
 
 
<big>मातुः पाठ्यक्रमम् अवलम्ब्य अग्रे तत्पुरुषसमासस्य विषये पठामः ।</big>
 
=== '''<big>तत्पुरुषसमासः</big>''' ===
 
<big>ज्ञातविषयः अस्ति यत् समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति  | एतावता अस्माभिः समासपरिचयः प्राप्तः, केवलसमासः, अव्ययीभावसमासः च अधीतः | समासे प्राधान्यनिर्ण्यः कथं भवति इत्यपि ज्ञातवन्तः एव  | येन पदार्थेन सह क्रियान्वयः, गुणान्वयः वा भवति सः अर्थः प्राधान्यम् आवहति | एकार्थीभावसामर्थ्यम् अस्ति चेत् एव समासः भवति इत्यपि जानीमः  | यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः |  एकार्थीभावसामर्थ्यस्य अभावे समासः न भवति | अत्र परिभाषासूत्रं अस्ति '''समर्थः पदविधिः''' (२.१.१) इति | समर्थानां पदानामेव समासः भवति |</big>
 
==== <big>'''समर्थः पदविधिः''' (२.१.१)</big> ====
<big>पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् | समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति |</big>
 
 
<big>अधुना तत्पुरुषसमासस्य विषये पठामः |</big>
 
<big>तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यं भवति | यथा राजपुरुषः इति षष्ठीतत्पुरुषसमासः, तस्य लौकिकविग्रहः अस्ति राज्ञः पुरुषः इति | अस्मिन् समासे पुरुषः इति उत्तरपदस्य प्राधान्यम् इत्यतः एव अयं समासः तत्पुरुषसमासः इत्युच्यते | अष्टाध्यायां तत्पुरुषसमास-सम्बद्धसूत्राणि २.१.२२ इति सूत्रात् आरभ्य २.२.२२ इति सूत्रपर्यन्तं सन्ति | एतानि सर्वाणि सूत्राणि '''तत्पुरुषः''' (२.१.२२) इति सूत्रयस्य अधिकारे सन्ति।</big>
 
==== <big>'''तत्पुरुषः''' (२.१.२२)</big> ====
<big>तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | अस्मिन् अधिकारे सप्ततिः सूत्राणि सन्ति | तत्पुरुषः प्रथमान्तं, एकपदमिदं सूत्रम् | '''सूत्रं स्वयं सम्पूर्णम्''' |</big>
 
<big>तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— '''१) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति |''' अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः | अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति | अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः |</big>
Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu