14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 70:
 
 
==== '''<big>अ)   सामान्यतत्पुरुषसमास:</big>''' ====
<big>सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तिनां प्रयोगः भवति |</big>
 
Line 89:
<big>यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्यायां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते,  सः एव  व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति  | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |</big>
 
==== '''<big>आ) कर्मधारयसमासः</big>''' ====
<big>तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति | कर्मधारयसमासे विशेषण-विशेष्योः समासः भवति | विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया |कर्मधारयसमासस्य नवप्रभेदाः सन्ति – १) विशेषण-पूर्वपद-कर्मधारयः, २) विशेषणोत्तरपद -कर्मधारयः, ३) विशेषणोभयपद-कर्मधारयः ४) उपमान-पूर्वपद-कर्मधारयः, ५) उपमानोत्तरपद-कर्मधारयः, ६) अवधारण-पूर्वपद-कर्मधारयः, ७) सम्भावना-पूर्वपद-कर्मधारयः, ८) मध्यमपद-लोप-कर्मधारयः, ९) मयूरव्यंसकादयः चेति | यः कोपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति |  कर्मधारयः इति संज्ञा दीयते '''तत्पुरुषः सामानाधिकरणः कर्मधारयः''' ( १.२.४२) इति सूत्रेण |  अस्य विवरणम् अग्रिमे करपत्रे दीयते |</big>
 
==== '''<big>इ)     द्विगुसमासः</big>''' ====
<big>तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः;  ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् | '''द्विगुश्च''' (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्। अस्य विवरणम् अग्रिमे करपत्रे दीयते |</big>
 
==== '''<big>ई)     नञ्प्रभृतयः</big>''' ====
<big>तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |</big>
 
Line 111:
 
<big>प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |</big>
 
 
 
 
===== <big>५) '''उपपदसमासः'''</big> =====
Line 122 ⟶ 119:
 
 
==== <big>तत्पुरुषसमासस्य पञ्च उपाङ्गानि</big> ====
<big>तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big>